व्युत्पत्तिम् अनुयातस्य पूरयेच् चेतसो ऽन्वहम् । द्वौ भागौ शास्त्रवैराग्यैर् द्वौ ध्यानगुरुपूजनैः
साधुताम् आगतो जीवो योग्यो ज्ञानकथाक्रमे । निर्मलाकृतिर् आदत्ते पट उत्तमरञ्जनाम्
शनैश् शनैर् लालनया युक्तिभिः पावनोक्तिभिः । शास्त्रार्थपरिणामेन पालयेच् चित्तबालकम्
परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् । ज्योत्स्नाभिन्नस्फटिकवच् चेतश् शीतं विराजते
प्रज्ञया परया ऋज्व्या भोगानाम् ईश्वरस्य च । समम् एवाथ देहस्य रूपम् आश्व् अवलोकयेत्
प्रज्ञाविचारवशतस् समम् एव सदा सुत । आत्मावलोकनं तृष्णासन्त्यागं च समाहरेत्
परे दृष्टे वितृष्णत्वं तृष्णानाशे च दृक् परा । एते मिथो धृते दृष्टी नौनाविकदशे यथा
भोगपूगे गतस्वादे दृष्टे देवे परापरे । परे ब्रह्मणि विश्रान्तिर् अनन्तोदेति शाश्वती
चिराय फलितानन्दम् अनन्तोदेति निर्वृतिः । न कदाचन जीवानाम् आत्मविश्रमणाद् ऋते
न तपोभिर् न दानेन न तीर्थैर् अपि जायते । भोगेषु विरतिर् जन्तोस् स्वभावालोकनाद् ऋते
कयाचिद् अपि नो युक्त्या बुद्धिर् आत्मावलोकने । स्वप्रयत्नाद् ऋते पुंसश् श्रेयसे सम्प्रवर्तते
भोगसन्त्यागसम्प्राप्तपरमार्थाद् ऋते सुत । न ब्रह्मपदविश्रान्तिसुखम् आसाद्यते परम्
आब्रह्मस्तम्बपर्यन्ते जगत्य् अस्मिन् न कुत्रचित् । तद्वद् आश्वस्यते साधो परमे कारणे यथा
पौरुषम् यत्नम् आश्रित्य दैवं कृत्वा सुदूरतः । भोगान् विगर्हयेत् प्राज्ञश् श्रेयोमार्गदृढार्गलान्
प्रौढायां भोगगर्हायां विचार उपजायते । वृद्धायां प्रावृषि श्रीमाञ् शरत्काल इवामलः
विचारो भोगगर्हातो विचाराद् भोगगर्हणम् । अन्योऽन्यम् एते पूर्येते समुद्रजलदाव् इव
भोगगर्हा विचारश् च स्वात्मालोकश् च शाश्वतः । अन्योऽन्यं साधयन्त्य् अर्थं सुस्निग्धास् सुहृदो यथा
पूर्वं दैवम् अनादृत्य पौरुषं प्राप्य यत्नतः । दन्तैर् दन्तान् प्रसम्पीड्य भोगेष्व् अरतिम् आहरेत्
देशाचाराविरुद्धेन बान्धवैकहितेन च । पौरुषेण क्रमेणादौ धनानि समुपार्जयेत्
धनैर् अभ्याहरेद् भव्यान् सुजनान् गुणशालिनः । प्रवर्तते समासङ्गात् तेषां भोगविगर्हणा
ततो विचारस् तदनु ज्ञानशास्त्रार्थसङ्ग्रहः । ततः क्रमेण परमपदप्राप्तिः प्रजायते
यदासुरपते काले विषयेभ्यो विरंस्यसि । तदा विचारवशतः परमं पदम् एष्यसि
सम्यक् प्राप्स्यसि विश्रान्तिम् आत्मन्य् अत्यन्तपावने । न पुनः कलनापङ्के दुःखायावपतिष्यसि
देशक्रमेण धनम् अल्पविगर्हणेन तेनाङ्ग साधुजनम् अर्जय मानपूर्वम् । तत्सङ्गमोत्थविषयाभ्यवहेलनेन सम्यग्विचारविभवेन तवात्मलाभः
एतन् मे कथितं पूर्वं पित्रा चारुविचारिणा । इदानीं संस्मृतं दिष्ट्या सम्प्रबोधम् अहं गतः
अद्येयं मम सञ्जाता भोगान् प्रत्य् अरतिस् स्फुटम् । दिष्ट्या शमसुखं स्वच्छं विशाम्य् अमृतशीतलम्
पुनर् आपूरयन्न् आशाः पुनर् अभ्याहरन् धनम् । पुनर् आवर्जयन् कान्ताः खिन्नो ऽस्मि विभवस्थितौ
अहो नु खलु रम्येयं शमभूश् शीतलान्तरा । सर्वा एव शमं यान्ति सुखदुःखदृशश् शमे
शाम्यामि परिनिर्वामि सुखम् आसे शमे स्थितः । अयम् अन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः
उत्ताण्डवमनोरंहःपोषितोरुशरीरकम् । अनारतपरिक्षोभं हा दुःखं विभवार्जनम्