अवश्यभवितव्याख्या येहया नियतिश् च वा । उच्यते दैवशब्देन सा नरैर् एव नेतरैः
यद् यथेह सदा यत्र सम्पन्नं फलतां गतम् । हर्षामर्षविनाशाय तद् दैवम् इति कथ्यते
दैवं नियतिरूपं च पौरुषेणावजीयते । सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा
यथा सङ्कल्प्यते यद् यत् पौरुषेण तथैव तत् । तलवत्तागृहीतं खं तलवत्तासुखप्रदम्
कर्त्र् अतो मन एवेह यत् कल्पयति तत् तथा । नियतिं यादृशीम् एतत् सङ्कल्पयति सा तथा
नियतान् नियतान् कांश्चिद् भावान् अनियतान् अपि । करोति चित्तं तेनैतच् चित्तं नियतियोजकम्
नियतां नियतिं कुर्वन् कदाचित् सार्थनामिकाम् । स्फुरत्य् अस्मिञ् जगत्कोशे जीवो व्योम्नीव मारुतः
नियत्या रहितां कुर्वन् कदाचिन् नियतिं मनः । सञ्ज्ञार्थरूढानियतिशब्दां स्फुरति वातवत्
तस्माद् यावन् मनस् तावन् न दैवं नियतिर् न च । मनस्य् अस्तङ्गते साधो यद् भवत्य् अस्तु तत् तथा
जीवो हि पुरुषो जातः पौरुषेण स यद् यथा । सङ्कल्पयति लोके ऽस्मिंस् तत् तथा तस्य नान्यथा
पुरुषार्थाद् ऋते पुत्र न किञ्चिद् इह विद्यते । परं पौरुषम् आश्रित्य भोगेष्व् अरतिम् आहरेत्
न भोगेष्व् अरतिर् यावज् जातेह जयदायिनी । न परा निर्वृतिस् तावत् प्राप्यते भवनाशिनी
विषयेषु रतिर् यावत् स्थिता सम्मोहकारिणी । तावद् भवदशादोलाविलोलान्दोलनं स्थितम्
अभ्यासेन विना पुत्र न कदाचन दुःखदा । भोगभोगिभरप्रोत्था कदाशा विनिवर्तते
भोगेष्व् अरतिर् एषान्तः कथं सर्वासुरेश्वर । स्थितिम् आयाति जीवस्य दीर्घजीवितदायिनी
आत्मानम् आलोकयतः फलितं फलति स्फुटम् । जीवस्य भोगेष्व् अरतिश् शरदीव महालता
आत्मावलोकनेनैषा विषयारतिर् उत्तमे । हृदये स्थितिम् आयाति श्रीर् इवाम्भोजकोटरे
तस्मात् प्रज्ञानिकाषेण विचारेणातिचारुणा । देवम् आलोकयेद् भोगाद् रतिं चापहरेत् समम्
चित्तस्य भोगैर् द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् । गुरुशुश्रूषया चैकम् अव्युत्पन्नस्य सत्क्रमे
किञ्चित्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् । गुरुशुश्रूषया भागं भागं शास्त्रार्थचिन्तया
व्युत्पत्तिम् अनुयातस्य पूरयेच् चेतसो ऽन्वहम् । द्वौ भागौ शास्त्रवैराग्यैर् द्वौ ध्यानगुरुपूजनैः
साधुताम् आगतो जीवो योग्यो ज्ञानकथाक्रमे । निर्मलाकृतिर् आदत्ते पट उत्तमरञ्जनाम्
शनैश् शनैर् लालनया युक्तिभिः पावनोक्तिभिः । शास्त्रार्थपरिणामेन पालयेच् चित्तबालकम्
परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् । ज्योत्स्नाभिन्नस्फटिकवच् चेतश् शीतं विराजते
प्रज्ञया परया ऋज्व्या भोगानाम् ईश्वरस्य च । समम् एवाथ देहस्य रूपम् आश्व् अवलोकयेत्
प्रज्ञाविचारवशतस् समम् एव सदा सुत । आत्मावलोकनं तृष्णासन्त्यागं च समाहरेत्
परे दृष्टे वितृष्णत्वं तृष्णानाशे च दृक् परा । एते मिथो धृते दृष्टी नौनाविकदशे यथा
भोगपूगे गतस्वादे दृष्टे देवे परापरे । परे ब्रह्मणि विश्रान्तिर् अनन्तोदेति शाश्वती
चिराय फलितानन्दम् अनन्तोदेति निर्वृतिः । न कदाचन जीवानाम् आत्मविश्रमणाद् ऋते
न तपोभिर् न दानेन न तीर्थैर् अपि जायते । भोगेषु विरतिर् जन्तोस् स्वभावालोकनाद् ऋते