विषयान् प्रति भोः पुत्र सर्वान् एव हि सर्वथा । अनास्था परमा यैषा सा युक्तिर् मनसो जये
एषैव परमा युक्तिर् अनयैव महामदः । स्वमनोमत्तमातङ्गो द्रागित्य् एवावदम्यते
एषा ह्य् अत्यन्तदुष्प्रापा सुप्रापा च महामते । अनभ्यस्ता हि दुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम्
क्रमाद् अभ्यस्यमानैषा विषयारतिर् आत्मज । सर्वतस् स्फुटताम् एति सेकसिक्ता लता यथा
नासाद्यते ह्य् अनभ्यस्ता काङ्क्षतापि शठात्मना । पुत्र शालिर् इवाव्युप्तस् तस्माद् एनां समाहरेत्
तावद् भ्रमन्ति दुःखेषु संसारावटवासिनः । विरतिं विषयेष्व् एते यावन् नायान्ति देहिनः
अभ्यासेन विना कश्चिन् नाप्नोति विषयारतिम् । अप्य् अत्यन्तमतां देही देशान्तरम् इवागतिः
ध्येयत्यागम् अतो ऽजस्रं ध्यायता देहधारिणा । भोगेष्व् अरतिर् अभ्यासाद् वृद्धिं नेया लता यथा
पुरुषार्थाद् ऋते पुत्र नेह सम्प्राप्यते शुभम् । पौरुषेणैव सर्वेषां कार्याणां फलम् आप्यते
क्रियाफले परिप्राप्ते हर्षामर्षादितो यथा । दैवम् इत्य् उच्यते लोके न दैवं देहवत् क्वचित्
अवश्यभवितव्याख्या येहया नियतिश् च वा । उच्यते दैवशब्देन सा नरैर् एव नेतरैः
यद् यथेह सदा यत्र सम्पन्नं फलतां गतम् । हर्षामर्षविनाशाय तद् दैवम् इति कथ्यते
दैवं नियतिरूपं च पौरुषेणावजीयते । सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा
यथा सङ्कल्प्यते यद् यत् पौरुषेण तथैव तत् । तलवत्तागृहीतं खं तलवत्तासुखप्रदम्
कर्त्र् अतो मन एवेह यत् कल्पयति तत् तथा । नियतिं यादृशीम् एतत् सङ्कल्पयति सा तथा
नियतान् नियतान् कांश्चिद् भावान् अनियतान् अपि । करोति चित्तं तेनैतच् चित्तं नियतियोजकम्
नियतां नियतिं कुर्वन् कदाचित् सार्थनामिकाम् । स्फुरत्य् अस्मिञ् जगत्कोशे जीवो व्योम्नीव मारुतः
नियत्या रहितां कुर्वन् कदाचिन् नियतिं मनः । सञ्ज्ञार्थरूढानियतिशब्दां स्फुरति वातवत्
तस्माद् यावन् मनस् तावन् न दैवं नियतिर् न च । मनस्य् अस्तङ्गते साधो यद् भवत्य् अस्तु तत् तथा
जीवो हि पुरुषो जातः पौरुषेण स यद् यथा । सङ्कल्पयति लोके ऽस्मिंस् तत् तथा तस्य नान्यथा
पुरुषार्थाद् ऋते पुत्र न किञ्चिद् इह विद्यते । परं पौरुषम् आश्रित्य भोगेष्व् अरतिम् आहरेत्
न भोगेष्व् अरतिर् यावज् जातेह जयदायिनी । न परा निर्वृतिस् तावत् प्राप्यते भवनाशिनी
विषयेषु रतिर् यावत् स्थिता सम्मोहकारिणी । तावद् भवदशादोलाविलोलान्दोलनं स्थितम्
अभ्यासेन विना पुत्र न कदाचन दुःखदा । भोगभोगिभरप्रोत्था कदाशा विनिवर्तते
भोगेष्व् अरतिर् एषान्तः कथं सर्वासुरेश्वर । स्थितिम् आयाति जीवस्य दीर्घजीवितदायिनी
आत्मानम् आलोकयतः फलितं फलति स्फुटम् । जीवस्य भोगेष्व् अरतिश् शरदीव महालता
आत्मावलोकनेनैषा विषयारतिर् उत्तमे । हृदये स्थितिम् आयाति श्रीर् इवाम्भोजकोटरे
तस्मात् प्रज्ञानिकाषेण विचारेणातिचारुणा । देवम् आलोकयेद् भोगाद् रतिं चापहरेत् समम्
चित्तस्य भोगैर् द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् । गुरुशुश्रूषया चैकम् अव्युत्पन्नस्य सत्क्रमे
किञ्चित्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् । गुरुशुश्रूषया भागं भागं शास्त्रार्थचिन्तया