वसिष्ठविश्वामित्रौ तान् पूजयाम् आसतुः क्षणात् । अर्घ्यैः पाद्यैर् वचोभिश् च नभश्चरमहागणान्
सर्वाचारेण सिद्धौघं पूजयाम् आस भूपतिः । सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्त्तया
तैस् तैः प्रणयसंरम्भैर् अन्योऽन्यं प्राप्तसत्क्रियाः । उपाविशन् विष्टरेषु नभश्चरमहीचराः
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः । रामं तं पूजयाम् आसुः पुरः प्रणतम् आस्थितम्
आसां चक्रे च तत्रासौ राजलक्ष्म्या विराजितः । विश्वामित्रो वसिष्ठश् च वामदेवश् च मन्त्रिणः
नारदो देवपुत्रश् च व्यासश् च मुनिपुङ्गवः । मरीचिर् अथ दुर्वासा मुनिर् आङ्गिरसस् तथा
क्रतुः पुलस्त्यः पुलहश् शरलोमा मुनीश्वरः । वात्स्यायनो भरद्वाजो वाल्मीकिर् मुनिपुङ्गवः
उद्दालक ऋचीकश् च शर्यातिश् च्यवनस् तथा । ऊष्मपाश् च घृतार्चिश् च शालुडिर् वालुडिस् तथा
एते चान्ये च बहवो वेदवेदाङ्गपारगाः । ज्ञातज्ञेया महात्मानस् संस्थितास् तत्र नायकाः
वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः । इदम् ऊचुर् अनूचाना रामम् आनमिताननम्
अहो वत कुमारेण कल्याणगुणशालिनी । वाग् उक्ता परमोदारविरागरसगर्भिणी
परिनिष्ठितवाक्यार्थसुबोधम् उचितं स्फुटम् । उदारं प्रियचर्यार्हम् अविह्वलम् अविप्लुतम्
अभिव्यक्तपदस्पष्टम् इष्टं पुष्टं च तुष्टिमत् । करोति राघवप्रोक्तं वचः कस्य न विस्मयम्
शताद् एकतमस्यैव सर्वोदारचमत्कृतेः । ईप्सितार्थार्पणैकान्तदक्षा भवति भारती
कुमार त्वां विना कस्य विवेकफलशालिनी । एवं विकासम् आयाति प्रज्ञावनलता नवा
प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता । प्रज्वलत्य् अलम् आलोककारिणी स पुमान् स्मृतः
रक्तमांसास्थियन्त्राणि बहून्य् अतिततानि च । पदार्थान् अपकर्षन्ति नास्ति तेषु सचेतनम्
जन्ममृत्युजरादुःखम् अनुयान्ति पुनः पुनः । विमृशन्ति न संसारं पशवः परिमोहिताः
कथञ्चित् क्वचिद् एवैको दृश्यते विमलाशयः । पूर्वापरविचारार्हो यथायम् अरिसूदनः
अनुत्तमचमत्कारफलास् सुभगमूर्तयः । भव्या हि विरला लोके सहकारद्रुमा इव
सम्यग्दृष्टिर् जगज्जातौ स्वविवेकचमत्कृतिः । अस्मिन् भव्यमताव् अन्तर् इयम् अन्येव दृश्यते
सुलभास् सुभगा लोकाः फलपल्लवशालिनः । जायन्ते तरवो देशे न तु चन्दनपादपाः
वृक्षाः प्रतिवने सन्ति सत्यं सुफलपल्लवाः । न त्व् अपूर्वचमत्कारो लवङ्गस् सुलभस् सदा
ज्योत्स्नेव शीतमहसस् सुतरोर् इव मञ्जरी । पुष्पाद् आमोदलेखेव दृष्टा रामाच् चमत्कृतिः
अस्माद् उद्दामदौरात्म्यदैवनिर्माणनिर्मितेः । द्विजेन्द्रा दग्धसंसारात् सारो ह्य् अत्यन्तदुर्लभः
यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धिया । धन्या धुरि सतां गण्यास् त एव पुरुषोत्तमाः
न रामेण समो ऽस्तीह त्रिषु लोकेषु कश्चन । विवेकवान् उदारात्मा महात्मा चेति नो मतिः
सकललोकचमत्कृतिकारिणो ऽप्य् अभिमतं यदि राघवचेतसः । फलति नो तद् इमे वयम् एव हि स्फुटतरं मुनयो हतबुद्धयः
नारदेनेति महता वचस्य् उक्ते सभागतः । रामम् अग्रगतं प्रीत्या विश्वामित्रो ऽप्य् उवाच ह
तव राघव नास्त्य् अन्यज् ज्ञेयं ज्ञानवतां वर । स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवान् असि