तम् एकम् एकया बुद्ध्या व्यामोहपरिहीनया । यदि जेतुं समर्थो ऽसि धीरस् तद् असि सुव्रत
तस्मिञ् जिते जिता लोका भवन्त्य् अविजिता अपि । अजिते त्व् अजिता एते चिरकालजिता अपि
तस्माद् अनन्तसिद्ध्यर्थं शाश्वताय सुखाय च । तज्जये यत्नम् आतिष्ठ कष्टयापि हि चेष्टया
ससुरम् असुरनागयक्षयुक्तं सनरमहोरगकिन्नरं समेतम् । त्रिजगद् अपि वशीकृतं समन्ताद् अतिबलिना ननु हेलयैव तेन
केनोपायेन बलवान् स तात परिजीयते । को ऽसौ वेति महावीर्य सर्वं प्रकथयाशु मे
मन्त्रिणस् तस्य तनय नित्याजेयस्थितेर् अपि । शृणु वच्मि सुसाधत्वं येनासौ परिजीयते
पुत्र युक्त्या गृहीतो ऽसौ क्षणाद् आयाति वश्यताम् । युक्तिं विना दहत्य् एष आशीविष इवोद्धतः
बालवल् लालयित्वैनं युक्त्या नियमयन्ति ये । राजानं तं समालोक्य पदम् आसादयन्ति ते
दृष्टे तस्मिन् महीपाले स मन्त्री वशम् एति वः । तस्मिंश् च मन्त्रिण्य् आक्रान्ते स राजा दृश्यते पुनः
यावन् न दृष्टो राजासौ तावन् मन्त्री न जीयते । मन्त्री च यावन् न जितस् तावद् राजा न दृश्यते
राजन्य् अदृष्टे दुर्मन्त्री स दुःखायोत्फलत्य् अति । मन्त्रिण्य् अनिर्जिते राजा सो ऽत्यन्तं यात्य् अदृश्यताम्
अभ्यासेनोभयं तस्मात् समम् एव समाहरेत् । राज्ञस् सन्दर्शनं तस्य मन्त्रिणश् च पराजयम्
पौरुषेण प्रयत्नेन स्वाभ्यासेन शनैश् शनैः । द्वयं सम्पादयन्न् एतद् देशम् आप्नोति शोभनम्
त्वम् अभ्यासे फलीभूते तं देशम् अधिगच्छसि । यदि दैत्येन्द्र तद् भूयो मनाग् अपि न शोचसि
संशान्तसकलायासा नित्यप्रमुदिताशयाः । साधवस् तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः
शृणु कः पुत्र देशो ऽसौ सर्वं प्रकटयामि ते । देशनाम्ना मयोक्तस् ते मोक्षस् सकलदुःखहा
राजा तु तत्र भगवान् आत्मा सर्वपदातिगः । तेन मन्त्री कृतः प्राज्ञो मनोनामा महामते
मनो विश्वतया विष्वग् इदं परिणतिं गतम् । घटत्वेनेव मृत्पिण्डं धूमो ऽम्बुदतयेव वा
तस्मिञ् जिते जितं सर्वं सर्वं चासादितं भवेत् । दुर्जयं तद् विजानीयाद् युक्त्यैव परिजीयते
या युक्तिर् भगवंस् तस्य चित्तस्याक्रमणे स्फुटा । तां मे कथय तत् तात यया जेष्यामि दारुणम्
विषयान् प्रति भोः पुत्र सर्वान् एव हि सर्वथा । अनास्था परमा यैषा सा युक्तिर् मनसो जये
एषैव परमा युक्तिर् अनयैव महामदः । स्वमनोमत्तमातङ्गो द्रागित्य् एवावदम्यते
एषा ह्य् अत्यन्तदुष्प्रापा सुप्रापा च महामते । अनभ्यस्ता हि दुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम्
क्रमाद् अभ्यस्यमानैषा विषयारतिर् आत्मज । सर्वतस् स्फुटताम् एति सेकसिक्ता लता यथा
नासाद्यते ह्य् अनभ्यस्ता काङ्क्षतापि शठात्मना । पुत्र शालिर् इवाव्युप्तस् तस्माद् एनां समाहरेत्
तावद् भ्रमन्ति दुःखेषु संसारावटवासिनः । विरतिं विषयेष्व् एते यावन् नायान्ति देहिनः
अभ्यासेन विना कश्चिन् नाप्नोति विषयारतिम् । अप्य् अत्यन्तमतां देही देशान्तरम् इवागतिः
ध्येयत्यागम् अतो ऽजस्रं ध्यायता देहधारिणा । भोगेष्व् अरतिर् अभ्यासाद् वृद्धिं नेया लता यथा
पुरुषार्थाद् ऋते पुत्र नेह सम्प्राप्यते शुभम् । पौरुषेणैव सर्वेषां कार्याणां फलम् आप्यते
क्रियाफले परिप्राप्ते हर्षामर्षादितो यथा । दैवम् इत्य् उच्यते लोके न दैवं देहवत् क्वचित्