क्वोपशान्तो मनोमोहः क्वातीतास् सकलैषणाः । विरामरहितं कुत्र तात विश्रमणं चिरम्
किं प्राप्येह समस्तेभ्यः प्राप्तेभ्यस् तृप्तिमान् पुमान् । किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्य् अलम्
अत्यन्तबहवो ऽप्य् एते भोगा हि न सुखावहाः । क्षोभयन्ति मनो मोहे पातयन्ति सताम् अपि
तत् तात विततानन्दसुन्दरं किञ्चिद् एव मे । तादृक् कथय यत्रस्थश् चिरं विश्रान्तिम् एम्य् अहम्
इत्य् आकर्ण्य पुरा निशाकरकरस्पर्धापरार्ध्योल्लसत्पुष्पापूरकृतावगुण्ठनपटस्योक्तं तले तेन मे । पित्रा स्वर्गहृतस्य सागरतरोस् संरोपितस्याजिरे स्फाराकाररसायनासवसमं मोहोपशान्त्यै वचः
अस्ति पुत्रातिविततो देशो विपुलकोटरः । त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्य् अपि
यत्र नाम्भोधरा नापि सागरा वा न चाद्रयः । न वनानि न तीर्थानि न नद्यो न सरांसि च
न मही नापि चाकाशो न द्यौर् नो पवनादयः । न चन्द्रार्कौ न लोकेशा न देवा न च दानवाः
न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः । न काष्ठतृणभूतानि स्थावराणि चराणि वा
नापो न ज्वलनं नाशा नोर्ध्वं नाधो न विष्टपम् । नालोको न तमो नाहं न हरीन्द्रहरादयः
एक एवास्ति सुमहांस् तत्र राजा महाद्युतिः । सर्वकृत् सर्वगस् सर्वस् स च तूष्णीं व्यवस्थितः
तेन सङ्कल्पितो मन्त्री सर्वसम्मन्त्रणोन्मुखः । अघटं घटयत्य् आशु घटं विघटयत्य् अलम्
भोक्तुं किञ्चिन् न शक्नोति न च जानाति किञ्चन । राजार्थं केवलं सर्वं करोत्य् अज्ञो ऽपि सन् सदा
स एव सर्वकार्यैककर्ता तस्य महीपतेः । राजा केवलम् एकान्ते स्वस्थ एवावतिष्ठते
आधिव्याधिविनिर्मुक्तः कस् स देशो महाद्युतिः । कथम् आसाद्यते वापि केन वाधिगतः प्रभो
कस् स तादृग्विधो मन्त्री राजा वापि महाबलः । हेलालूनजगज्जालैर् यो ऽस्माभिर् अपि नो जितः
अपूर्वम् एतद् आख्यानं ममामरभयप्रद । कथयापनयास्मान् मे हृद्व्योम्नस् संशयाम्बुदम्
स तत्र मन्त्री भगवान् देवासुरगणैस् सुत । समेतैर् लक्षगुणितैर् अपि नाक्रम्यते मनाक्
नासौ सहस्रनयनो न यमो न धनेश्वरः । नामरो नासुरो वापि यदि पुत्रक जीयते
तत्रासिमुसुलप्रासवज्रचक्रगदादयः । हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः
गम्यो ऽसौ नास्त्रशस्त्राणां न भटोत्कटकर्मणाम् । तेन देवासुरास् सर्वे सर्वदैव वशीकृताः
अविष्णुनापि तेनैव हिरण्याक्षादयो ऽसुराः । पातिताः कल्पवातेन मेरुकल्पद्रुमा इव
नारायणादयो देवा अपि सर्वावबोधिनः । तेनाक्रम्य यथाकामम् अवटेषु निवेशिताः
तत्प्रसादेन साटोपं पञ्चमात्रशरस् स्मरः । त्रैलोक्यम् इदम् आक्रम्य सम्राड् इव विवल्गति
सुरासुरौघगर्ह्यो ऽपि गुणहीनो ऽपि दुर्मतिः । दुराकृतिर् अपि क्रोधस् तत्प्रसादेन जृम्भते
देवासुरसमूहानां सङ्गरो यत् पुनः पुनः । तद् एतत् क्रीडनं तस्य मन्त्रिणो मन्त्रशालिनः
स मन्त्री केवलं पुत्र तेनैव प्रभुणा यदि । जीयते तत् सुजेयो ऽसाव् अन्यथा त्व् अचलाचलः
तस्यैव तत्प्रभोः काले जेतुं तं मन्त्रिणं निजम् । इच्छा सञ्जायते तेन जीयते ऽसाव् अयत्नतः
त्रैलोक्यवलनामल्लम् उल्लासितजगत्त्रयम् । जेतुं चेद् अस्ति ते शक्तिस् तत् पराक्रमवान् असि
तस्मिन्न् अभ्युदिते सूर्ये त्रैलोक्यकमलाकराः । इमे विकासम् आयान्ति विलीयन्ते लयं गते