ऊर्मितां पुनर् आसाद्य पुनर् एति निरूर्मिताम् । यथा जलं तथैवायं तां ताम् एति क्रियां जनः
उन्मत्तचेष्टिताकारा पुनः पुनर् इयं क्रिया । जनं हासयति प्राज्ञं बाललीलोपमा मुहुः
कृतयाप्य् अनया नित्यं क्रियया कृतकार्यया । को ऽर्थस् स्यात् तादृशो येन पुनः कर्म न गच्छति
कियन्तम् अथ वा कालम् इदम् आडम्बरं महत् । इहास्माभिर् अनुष्ठेयं किं यावत् समवाप्यते
अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः । आवृत्त्या क्रियते व्यर्थम् अनर्थप्रसवार्थिभिः
फलम् एकं महोदारं नेह पश्यामि किञ्चन । कार्यम् अस्तीतरत् प्राप्ते यस्मिन् नाम न किञ्चन
भोगाद् ऋते किम् अत्यन्तं स्याद् रम्यम् अविनाशि च । एतत् सञ्चिन्तयाम्य् आशु दध्यौ मत्वेत्य् असौ बडिः
अथाभ्युवाचासुरराड् आ संस्मृतम् इति क्षणात् । आत्मन्य् एव मनस्य् अर्थं सभ्रूभङ्गं विमर्शयन्
पुरा किलेह भगवान् पृष्टो ऽभूत् स विरोचनः । पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः
यथा सकलदुःखानां सुखानां च महामते । यत्र सर्वे भ्रमाश् शान्ताः को ऽसौ सीमान्त उच्यताम्
क्वोपशान्तो मनोमोहः क्वातीतास् सकलैषणाः । विरामरहितं कुत्र तात विश्रमणं चिरम्
किं प्राप्येह समस्तेभ्यः प्राप्तेभ्यस् तृप्तिमान् पुमान् । किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्य् अलम्
अत्यन्तबहवो ऽप्य् एते भोगा हि न सुखावहाः । क्षोभयन्ति मनो मोहे पातयन्ति सताम् अपि
तत् तात विततानन्दसुन्दरं किञ्चिद् एव मे । तादृक् कथय यत्रस्थश् चिरं विश्रान्तिम् एम्य् अहम्
इत्य् आकर्ण्य पुरा निशाकरकरस्पर्धापरार्ध्योल्लसत्पुष्पापूरकृतावगुण्ठनपटस्योक्तं तले तेन मे । पित्रा स्वर्गहृतस्य सागरतरोस् संरोपितस्याजिरे स्फाराकाररसायनासवसमं मोहोपशान्त्यै वचः
अस्ति पुत्रातिविततो देशो विपुलकोटरः । त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्य् अपि
यत्र नाम्भोधरा नापि सागरा वा न चाद्रयः । न वनानि न तीर्थानि न नद्यो न सरांसि च
न मही नापि चाकाशो न द्यौर् नो पवनादयः । न चन्द्रार्कौ न लोकेशा न देवा न च दानवाः
न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः । न काष्ठतृणभूतानि स्थावराणि चराणि वा
नापो न ज्वलनं नाशा नोर्ध्वं नाधो न विष्टपम् । नालोको न तमो नाहं न हरीन्द्रहरादयः
एक एवास्ति सुमहांस् तत्र राजा महाद्युतिः । सर्वकृत् सर्वगस् सर्वस् स च तूष्णीं व्यवस्थितः
तेन सङ्कल्पितो मन्त्री सर्वसम्मन्त्रणोन्मुखः । अघटं घटयत्य् आशु घटं विघटयत्य् अलम्
भोक्तुं किञ्चिन् न शक्नोति न च जानाति किञ्चन । राजार्थं केवलं सर्वं करोत्य् अज्ञो ऽपि सन् सदा
स एव सर्वकार्यैककर्ता तस्य महीपतेः । राजा केवलम् एकान्ते स्वस्थ एवावतिष्ठते
आधिव्याधिविनिर्मुक्तः कस् स देशो महाद्युतिः । कथम् आसाद्यते वापि केन वाधिगतः प्रभो
कस् स तादृग्विधो मन्त्री राजा वापि महाबलः । हेलालूनजगज्जालैर् यो ऽस्माभिर् अपि नो जितः
अपूर्वम् एतद् आख्यानं ममामरभयप्रद । कथयापनयास्मान् मे हृद्व्योम्नस् संशयाम्बुदम्
स तत्र मन्त्री भगवान् देवासुरगणैस् सुत । समेतैर् लक्षगुणितैर् अपि नाक्रम्यते मनाक्
नासौ सहस्रनयनो न यमो न धनेश्वरः । नामरो नासुरो वापि यदि पुत्रक जीयते
तत्रासिमुसुलप्रासवज्रचक्रगदादयः । हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः