अशेषसंशयाम्भोदशरत्समय किं त्व् अहम् । तृप्तिम् एषां न गच्छामि वचसां वदतस् तव
बडिविज्ञानसम्प्राप्तिं पुनर् मद्बोधवृद्धये । विभो कथय खिद्यन्ते सन्तो नावनतं प्रति
शृणु राघव ते वक्ष्ये बडिवृत्तान्तम् उत्तमम् । श्रुतेन येन तेन त्वं बोधम् आप्स्यसि शाश्वतम्
अस्त्य् अस्मिञ् जगतः कोशे कस्मिंश्चिद् दिक्तटान्तरे । पातालम् इति विख्यातो लोको भूमेर् अधस् स्थितः
क्षीरोदार्णवजाताभिर् दिग्धाभिर् अमृताम्बुभिः । क्वचिद् दानवकन्याभिर् भाति निर्विवरान्तरः
जिह्वाचरोद्दामरवैर् विषभारभरायुधैः । क्वचिद् भोगिभिर् आपूर्णस् सहस्रशतमस्तकैः
हेलाविवलिताशेषविश्वोद्धरणघस्मरैः । क्वचिद् दनुसुतैर् व्याप्तश् चलद्भिर् इव मेरुभिः
कटकुड्याग्रविश्रान्तवसुधामण्डलोद्धुरैः । क्वचिद् दिग्दन्तिभिर् दन्तद्रुमाद्रिभिर् उपाश्रितः
महाकटकटाशब्ददग्धभूतपरम्परैः । क्वचिद् दुर्गन्धिदिग्भागो ध्वनन् नरकमण्डलैः
आभूतलम् अभिप्रोतसप्तपातालमण्डलैः । क्वचिद् रत्नाकरैर् व्याप्तः पातालैर् इतरैर् इव
सुरासुरशिरस्सुप्तपादाम्भोरुहपांसुना । क्वचिद् भगवता तेन कपिलेन पवित्रितः
असुरीसम्भृतानन्तपूजनक्रीडनैषिणा । क्वचिद् भगवता तेन हाटकेशेन पालितः
तस्मिन्न् असुरदोस्स्तम्भधार्यमाणमहाभरे । बभूव दानवो राजा विरोचनसुतो बडिः
स्वाक्रान्तेन समं सर्वैस् सुरविद्याधरोरगैः । पादसंवाहनं यस्य सुरराजेन वाञ्छितम्
कोशस् त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् । धर्ता भुवनधर्माणां यस्य प्रणतवान् हरिः
ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः । केकयेवाहिहृन्नाड्यो जग्मुर् आजग्मुर् आर्तताम्
प्रतापोग्रोष्मभिर् यस्य कल्पकाल इवाब्धयः । ययुश् शोषोन्मुखास् सप्त तप्ततां कुपिताकृतेः
यदध्वराज्यधूमाभ्रराजयो वलिताद्रयः । ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः
यस्य दृष्टिदृढापाताद् अनुपातकुलाचलाः । विनमन्ति दिशस् सर्वा लताः फलनता इव
लीलाविजितनिश्शेषभुवनाभोगभूषणः । दशकोटीस् स वर्षाणां दैत्यो राज्यं चकार ह
अथ गच्छत्स्व् अनल्पेषु युगेष्व् आवर्तवृत्तिषु । सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च
अजस्रम् उपभुक्तेषु त्रैलोक्योदरवर्तिषु । भोगेष्व् अभजद् उद्वेगं बडिर् दानवनायकः
मेरुशृङ्गशिखादन्तदिग्धवातायने स्थितः । एकदा चिन्तयाम् आस स्वयं संसारसंस्थितिम्
किमन्तम् इदम् अक्षुण्णशक्तिनैव मयाधुना । साम्राज्यम् इह कर्तव्यं विहर्तव्यं जगत्त्रये
महता मम राज्येन त्रैलोक्याद्भुतकारिणा । किं वा भवति भुक्तेन भूरिभोगातिभारिणा
आपातमात्रमधुरम् आवश्यकपरिक्षयम् । भोगोपभोगमात्रं मे किं नामेदं सुखावहम्
पुनर् दिनैककलना शार्वरीसंस्थितिः पुनः । पुनस् तान्य् एव कर्माणि लज्जायै न तु तुष्टये
पुनर् आलिङ्ग्यते कान्ता पुनर् एव च भुज्यते । सेयं शिशुजनक्रीडा लज्जायै महताम् इह
तम् एव शुक्तविरसं व्यापारौघं पुनः पुनः । दिवसे दिवसे कुर्वन् प्राज्ञः कस्मान् न लज्जते
पुनर् दिनं पुना रात्रिः पुनः कार्यपरम्परा । पुनः पुनर् अहं मन्ये प्राज्ञस्येयं विडम्बना