तस्माद् आसाम् अनन्तानां तृष्णानां रघुनन्दन । उपायस् त्याग एवैको न नाम परिपालनम्
चिन्तनेनैधते चिन्ता स्विन्धनेनेव पावकः । नश्यत्य् अचिन्तनेनैव विनेन्धनम् इवानलः
ध्येयत्यागरथारूढः करुणोदारया दृशा । लोकम् आलोकयन् दीनं मा तिष्ठोत्तिष्ठ राघव
एषा ब्राह्मी स्थितिस् स्वच्छा निष्कामा विगतामया । एनां प्राप्य महाबाहो विमूढो ऽपि न मुह्यति
एकं विवेकं सुहृदम् एकां प्रौढसखीं धियम् । आदाय विहरन्न् एवं सङ्कटे ऽपि न मुह्यसि
विनिवारितसर्वार्थाद् अपहस्तितबान्धवात् । न स्वधैर्याद् ऋते कश्चिद् अभ्युद्धरति सङ्कटात्
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैर् अपि । यत्नेनापद्विघातार्थं स्वम् एवोन्नमयेन् मनः
न तत् त्रिभुवनैश्वर्यान् न कोशाद् रत्नधारिणः । फलम् आसाद्यते चित्ताद् यन् महत्त्वोपबृंहितात्
तावद् अस्मिञ् जगत्कुक्षौ पातोत्पातावदोलनैः । पतन्ति पुरुषा यावन् मनस् तेषां न विज्वरम्
पूर्णे मनसि सम्पूर्णं जगत् सर्वं सुधाद्रवैः । उपानद्गूढपादस्य किल चर्मावृतैव भूः
नैराश्यात् पूर्णताम् एति मनो ऽनाशावशानुगम् । आशया रिक्तताम् एति शरदीव सरो मनः
हृदयं शून्यताम् एति प्रकटीकृतकोटरम् । अगस्त्यपीतार्णववद् आशाविवशचेतसाम्
यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी । न वल्गति महत् तस्य राजते हृद्वनान्तरम्
पद्माक्षकोशस् त्रिजगद् गोष्पदं योजनव्रजः । निमेषार्धं महाकल्पस् तृष्णारहितचेतसाम्
शीतता सा न शीतांशौ न हिमाचलकन्दरे । न रम्भाचन्दनावल्यां निस्स्पृहेषु मनस्सु या
न तथा भाति पूर्णेन्दुर् न पूर्णः क्षीरसागरः । न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः
यथाभ्रलेखा शशिनं सुधालेपं मषी यथा । दूषयत्य् एवम् एषान्तर् नरम् आशापिशाचिका
आशाख्याश् चित्तवृक्षस्य शाखास् स्थगितदिक्तटाः । तासु च्छिन्नास्व् अरूपत्वं याति चित्तमहाद्रुमः
छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते । एकरूपतया धैर्यं प्रयाति शतशाखताम्
अनुत्तमेन धैर्येण तेन चित्ते क्षयं गते । तत् पदं प्राप्यते राम यत्र नाशो न विद्यते
एतासां चित्तवृत्तीनाम् आशानाम् उत्तमाशये । न ददासि प्ररोहं चेत् तद् भवान् अस्ति राघव
चित्तं वृत्तिविहीनं ते यदा यातम् अचित्तताम् । तदा मोक्षमयीम् अन्तस् सत्ताम् आप्नोषि तां तताम्
चित्तकौशिकपक्षत्या तृष्णया क्षुब्धयान्तरे । अमङ्गलानि विस्तारम् अलम् आयान्ति राघव
वर्तनं वृत्तिर् इत्य् उक्तं वर्तते चित्तम् आशया । चित्तवृत्तिम् अतो ह्य् आशां त्यक्त्वा निश्चित्ततां व्रज
यो यया वर्तते वृत्त्या स तयैव विना क्षयी । अतश् चित्तोपशान्त्यर्थं तद्वृत्तिं प्रक्षयं नयेत्
प्रशमितसकलैषणो महात्मन् भव भवबन्धम् अपास्य मुक्तचित्तः । मनसि निगडरज्जवः कदाशाः परिगलितासु च तासु को न मुक्तः
अथ वा रघुवंशाख्यनभःपूर्णनिशाकर । बडिवद् बुद्धिभेदेन ज्ञानम् आसादयामलम्
भगवन् सर्वधर्मज्ञ त्वत्प्रसादान् मया हृदि । प्राप्तं प्राप्तव्यम् अखिलं विश्रान्तो ऽस्म्य् अमले पदे
शरदीवाम्बराद् अभ्रम् अदभ्रं मम चेतसः । विभो व्यपगतं सर्वं कृष्णं मोहमहातमः
अमृतापूरितस् स्वच्छश् शीतलात्मा महाद्युतिः । तिष्ठाम्य् आनन्दवान् अन्तस् सायं पूर्ण इवोडुराट्