यो गृध्रो दशवर्षाणि यो मृगो मासपञ्चकम् । यस् समानां शतं सिंहस् स एवेह तवाग्रजः
अन्ध्रग्रामचकोरेण तुखारनृपवाजिना । श्रीशैलाचार्यपुत्रेण मयेदं तव कथ्यते
सर्वे विविधसंरम्भा विविधाचारचेष्टिताः । विलासा जन्मनां भ्रातस् स्मर्यन्ते प्राक्तना मया
एवं स्थिते जगज्जाताव् आवयोश् शतशो गताः । पितरो मातरश् चैव भ्रातरस् सुहृदस् तथा
कांस् तान् समनुशोचावो न शोचावश् च कान् अपि । बन्धून् किं वापि शोचाव ईदृश्य् एव जगत्स्थितिः
अनन्ताः पितरो यान्ति यान्त्य् अनन्ताश् च मातरः । इह संसारिणां पुंसां वनपादपपर्णवत्
किं प्रमाणम् अतः पुत्र दुःखस्यात्र सुखस्य वा । तस्मात् सर्वं परित्यज्य तिष्ठावस् स्वस्थतां गतौ
प्रपञ्चभावनां त्यक्त्वा मनस्य् अहम् इति स्थिताम् । तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः
इहाजवञ्जवीभावं पतनोत्पतनात्मकम् । नानुशोचन्ति सुधियश् चिकित्सन्ते च केवलम्
भावाभावविनिर्मुक्तं जरामरणवर्जितम् । संस्मरात्मानम् अव्यग्रो मा विमूढमना भव
न ते दुःखं न ते जन्म न ते माता न ते पिता । आत्मैवासि न सद्बुद्धे त्वम् अन्यः कश्चिद् एव हि
अस्यां संसारयात्रायां नानाभिनयदायिनः । अज्ञा एव नटास् साधो रसभावसमन्विताः
मध्यस्थदृष्टयस् स्वस्था यथाप्राप्तार्थदर्शिनः । तज्ज्ञास् तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः
कर्तारो ऽपि न कर्तारो यथा दीपा निशागमे । आलोककर्मणाम् एवं तज्ज्ञा लोकस्थिताव् इह
प्रतिबिम्बैर् न दूष्यन्ते स्वात्मबिम्बगतैर् अपि । यथा दर्पणरत्नाद्यास् तथा कार्यैर् महाधियः
सर्वैषणामयकलङ्कविवर्जितेन स्वच्छात्मभावकलितेन हृदब्जमध्ये । पुत्रात्मनात्मनि महामणिनामुनैव सन्त्यज्य सम्भ्रमम् अलं परितोषम् एहि
एवं प्रबोधितस् तेन तदा पुण्येन पावनः । प्रबोधम् आप प्राकाश्यं प्रभात इव भूतलम्
उभाव् अपि ततस् सिद्धौ ज्ञानविज्ञानपारगौ । विचेरतुर् वने तस्मिन् यावदिच्छम् अनिन्दितौ
ततः कदाचित् कालेन निर्वाणपदम् आगतौ । तौ विदेहौ गतस्नेहौ दीपाव् इव शमं गतौ
एवं प्राग्भुक्तदेहानाम् अनन्ता धनबन्धुजाः । आशाः किं गृह्यते ताभ्यः किं वा सन्त्यज्यते ऽनघ
तस्माद् आसाम् अनन्तानां तृष्णानां रघुनन्दन । उपायस् त्याग एवैको न नाम परिपालनम्
चिन्तनेनैधते चिन्ता स्विन्धनेनेव पावकः । नश्यत्य् अचिन्तनेनैव विनेन्धनम् इवानलः
ध्येयत्यागरथारूढः करुणोदारया दृशा । लोकम् आलोकयन् दीनं मा तिष्ठोत्तिष्ठ राघव
एषा ब्राह्मी स्थितिस् स्वच्छा निष्कामा विगतामया । एनां प्राप्य महाबाहो विमूढो ऽपि न मुह्यति
एकं विवेकं सुहृदम् एकां प्रौढसखीं धियम् । आदाय विहरन्न् एवं सङ्कटे ऽपि न मुह्यसि
विनिवारितसर्वार्थाद् अपहस्तितबान्धवात् । न स्वधैर्याद् ऋते कश्चिद् अभ्युद्धरति सङ्कटात्
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैर् अपि । यत्नेनापद्विघातार्थं स्वम् एवोन्नमयेन् मनः
न तत् त्रिभुवनैश्वर्यान् न कोशाद् रत्नधारिणः । फलम् आसाद्यते चित्ताद् यन् महत्त्वोपबृंहितात्
तावद् अस्मिञ् जगत्कुक्षौ पातोत्पातावदोलनैः । पतन्ति पुरुषा यावन् मनस् तेषां न विज्वरम्
पूर्णे मनसि सम्पूर्णं जगत् सर्वं सुधाद्रवैः । उपानद्गूढपादस्य किल चर्मावृतैव भूः