असि चेत् त्वं तद् अन्येषु यातेषु बहुजन्मसु । ये बन्धवो ये विभवाः किं तान् अपि न शोचसि
बभूवुस् ते सुपुष्पासु स्थलीषु मृगयोनिषु । बहवो बन्धवो धन्यास् तान् कथं नानुशोचसि
बभूवुस् ते सपद्मासु तटीष्व् अम्बुधियोषिताम् । हंसस्य बन्धवो हंसास् तान् कथं नानुशोचसि
बभूवुस् ते लसत्पत्त्राश् चित्रासु वनराजिषु । बहवो बन्धवो वृक्षास् तान् कथं नानुशोचसि
बभूवुस् ते महाभ्रेषु शिखरेषु महीभृताम् । बहवो बन्धवस् सिंहास् तान् कथं नानुशोचसि
बभूवुस् ते स्रवन्तीषु सरस्स्व् अम्भोजिनीषु च । बहवो बन्धवो मत्स्याः किं तान् अपि न शोचसि
बभूविथ दशार्णेषु कपिलो वनवानरः । राजपुत्रस् तुखारेषु पुण्ड्रेषु वनवायसः
हेहयेषु च मातङ्गस् त्रिगर्तेषु च गर्दभः । साल्वेषु सरमापुत्रः पतत्री शवरद्रुमे
विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे । मन्दरे मर्कटो भूत्वा विप्राज् जातो ऽसि कन्दरे
कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः । अश्वो भूत्वा तुखारेषु जातस् त्वं ब्राह्मणाद् वने
यः कीटस् तालकन्दान्तर् दंशको य उदुम्बरे । यः प्राजिको विन्ध्यवने स त्वं पुत्र ममानुजः
हिमवत्कन्दराभूर्जतरुत्वग्रन्ध्रकोटरे । पिपीलको यष् षण् मासान् सो ऽयं त्वम् अनुजो मम
सुह्मसीमान्तकुग्रामगोमये यश् च वृश्चिकः । सार्धं संवत्सरं साधो सो ऽयं त्वम् अनुजो मम
पुलिन्दीस्तनपीठेषु निलीनं येन कानने । षट्पदेनेव पद्मेषु सो ऽयं त्वम् अनुजो मम
एतास्व् अन्यासु चान्यासु बह्वीषु जनयोनिषु । जातो ऽसि जम्बुद्वीपे ऽस्मिन् पुरा शतसहस्रशः
इत्थं तवात्मनश् चैव प्राक्तनं वासनाक्रमम् । पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया
ममापि बह्व्यो बहुधा योनयो मोहमन्थराः । समतीतास् स्मराम्य् अद्य ता ज्ञानोदितया दृशा
त्रिगर्तेषु शुको भूत्वा हंसो भूत्वा सरित्तटे । पक्कणे वायसो भूत्वा जातो ऽहम् इह कानने
भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् । उष्ट्रत्वम् अतिवाह्याद्रौ जातो ऽहम् इह कानने
यश् चातको हिमगिरौ यो राजा पुण्ड्रमण्डले । व्याघ्रो यस् सह्यकुञ्जेषु स एवेह तवाग्रजः
यो गृध्रो दशवर्षाणि यो मृगो मासपञ्चकम् । यस् समानां शतं सिंहस् स एवेह तवाग्रजः
अन्ध्रग्रामचकोरेण तुखारनृपवाजिना । श्रीशैलाचार्यपुत्रेण मयेदं तव कथ्यते
सर्वे विविधसंरम्भा विविधाचारचेष्टिताः । विलासा जन्मनां भ्रातस् स्मर्यन्ते प्राक्तना मया
एवं स्थिते जगज्जाताव् आवयोश् शतशो गताः । पितरो मातरश् चैव भ्रातरस् सुहृदस् तथा
कांस् तान् समनुशोचावो न शोचावश् च कान् अपि । बन्धून् किं वापि शोचाव ईदृश्य् एव जगत्स्थितिः
अनन्ताः पितरो यान्ति यान्त्य् अनन्ताश् च मातरः । इह संसारिणां पुंसां वनपादपपर्णवत्
किं प्रमाणम् अतः पुत्र दुःखस्यात्र सुखस्य वा । तस्मात् सर्वं परित्यज्य तिष्ठावस् स्वस्थतां गतौ
प्रपञ्चभावनां त्यक्त्वा मनस्य् अहम् इति स्थिताम् । तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः
इहाजवञ्जवीभावं पतनोत्पतनात्मकम् । नानुशोचन्ति सुधियश् चिकित्सन्ते च केवलम्
भावाभावविनिर्मुक्तं जरामरणवर्जितम् । संस्मरात्मानम् अव्यग्रो मा विमूढमना भव