प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् । पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम्
अथ भार्या मुनेर् देहं प्राणापानविवर्जितम् । दृष्ट्वाविलुठितं भूमौ विनालम् इव पङ्कजम्
चिरम् अभ्यस्तया योगयुक्त्या पतिवितीर्णया । तत्याज तनुम् अम्लानां षट्पदी पद्मिनीम् इव
भर्तारम् एवानुययौ जनस्यादृश्यतां गतम् । प्रभागगनकोशस्थम् अस्तं यातम् इवोडुपम्
मातापित्रोस् तु गतयोर् और्ध्वदैहिककर्मणि । पुण्य एव स्थिते ऽव्यग्रे पावनो दुःखम् आययौ
शोकोपहतचित्तो ऽसौ भ्रमन् काननवीथिषु । ज्यायांसम् अनवेक्ष्यैव पावनो विललाप ह
अथौर्ध्वदैहिकं कृत्वा मातापित्रोर् उदारधीः । आययौ विपिने पुण्यः पावनं शोकलालसम्
किं पुत्र घनतां शोकं नयस्य् आन्ध्यैककारणम् । बाष्पधाराकरं घोरं प्रावृट्काल इवाम्बुदम्
पिता तव महाप्राज्ञ गतस् सार्धं त्वदम्बया । स्वाम् एव परमां आत्मपदवीं मोक्षनामिकाम्
तत् स्थानं सर्वजन्तूनां तद् रूपं विदितात्मनाम् । स्वं भावम् अभिसम्पन्ने किं पितर्य् अभिशोचसि
किम् ईदृशी त्वया बद्धा भावनेह विमोहजा । संसारे यद् अशोच्यो ऽपि त्वया तातो ऽनुशोच्यते
न सैव भवतो माता नासाव् एव पिता तव । न भवान् एव तनयस् तयोर् निस्सङ्ख्यपुत्रयोः
मातापितृसहस्राणि समतीतानि ते सुत । बहून्य् अम्बुप्रवाहस्य निम्नानीव वने वने
असङ्ख्यपुत्रयोर् नैव भवान् एव सुतस् तयोः । सरित्तरङ्गवत् पुत्र गताः पुत्रगणा नृणाम्
अस्मत्पित्रोर् अतीतानि पुत्रलक्षाण्य् अनेकशः । पत्त्रकोरकवृन्दानि लतापादपयोर् इव
मित्रबान्धववृन्दानि जन्तोर् जन्मनि जन्मनि । ऋताव् ऋताव् अतीतानि फलानीव महातरोः
शोचनीया यदि स्नेहान् मातापितृसुतास् सुत । तद् अतीता न शोच्यन्ते किम् अजस्रं सहस्रशः
प्रपञ्चो ऽयं महाभाग दृश्यते जागतो भ्रमः । परमार्थेन तु प्राज्ञ नास्ति मित्रं न बान्धवः
मनाग् अपीह हि भ्रातः परमार्थे न विद्यते । महत्य् अपि चिरात् तप्ते मराव् इव पयोलवः
एता याः प्रेक्षसे लक्ष्मीश् छत्त्रचामरचञ्चलाः । स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा
दृष्ट्या तु पारमार्थिक्या पुत्र सत्यं विचारय । नेह त्वं नैव चेदं ते भ्रान्तिम् अन्तः परित्यज
अयं मृतो गतश् चाहम् इतीमा दृष्टयः पुनः । स्वसङ्कल्पोपतापोत्था दृश्यन्ते न तु सत्यतः
अज्ञानविस्तीर्णमरौ विलोलैश् शुभाशुभस्पन्दमयैस् तरङ्गैः । स्ववासनातापमरीचिवारि परिस्फुरत्य् एतद् अनन्तरूपम्
कः पिता किं च वा मित्रं का माता के च बन्धवः । स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः
बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः । स्वसञ्ज्ञामात्रकेणैव प्रपञ्चो ऽयं वितन्यते
बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः । विषामृतदशेवैषा स्थितिर् भावनिबन्धनी
एकत्वे वर्तमानस्य सर्वगस्य किलात्मनः । अयं बन्धुः परश् चायम् इत्य् असत्कलना कुतः
रक्तमांसास्थिसङ्घाताद् देहाद् एवास्थिपञ्जरात् । को ऽहं स्याम् इति चित्तेन स्वयं पुत्र विचारय
दृष्ट्या तु पारमार्थिक्या न कश्चित् त्वं न चाप्य् अहम् । मिथ्याज्ञानम् इदं पुण्यः पावनश् चेति वल्गति
कस् ते पिता कश् च सुहृत् का माता कश् च वा परः । खस्यानन्तविलासस्य किम् अस्वं किं स्वम् उच्यताम्