एकरूपं स्थिरं स्वस्थं स्वच्छं सन्तापवर्जितम् । नेह सम्प्राप्यते किञ्चिद् अग्नौ हिमकणो यथा
ये ये राम महाभागा बहवो ऽबहवो ऽथ वा । नष्टा एवेह दृश्यन्ते ते ते कतिपयैर् दिनैः
परतात्मीयतान्यत्वत्वत्त्वमत्त्वादिभावनाः । नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा
अयं बन्धुः परश् चायम् अयं चाहम् अयं भवान् । एता मिथ्यादृशो राम विगलन्तु तवाधुना
क्रीडार्थं व्यवहारस्थ एताभिर् हतदृष्टिभिः । आमूलम् अन्तश् छिन्नाभिर् बहिर् विहर हेलया
संसारसरणाव् अस्यां तथा विहर सुव्रत । न यथैषि श्रमं श्रान्तो वासनाभारवान् यथा
यथा यथैषा कल्याणी वासनाक्षयकारिणी । विचारणा तवोदेति संशाम्यसि तथा तथा
अयं बन्धुर् अयं नेति गणना लघुचेतसाम् । उदारचरितानां तु विगतावरणैव धीः
न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मम । इति निर्णीतसाराणां विगतावरणैव धीः
नास्तम् एति न चोदेति यश् चिदाकाशवन् महान् । स सर्वं पश्यति स्वस्थः खस्थो भूमितलं यथा
सर्वा एव हि ते भूतजातयो राम बन्धवः । अत्यन्तासंस्तुता एतास् तव नाम न काश्चन
विविधजन्मशताहितसम्भ्रमे जगति बन्धुर् अबन्धुर् इति क्षणम् । भ्रमदशैव विवल्गति वस्तुतस् त्रिभुवनं चिरबन्धुर् अबन्ध्व् अपि
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । भ्रात्रोस् त्रिपथगातीरे संवादो मुनिपुत्रयोः
अयं बन्धुर् अयं नेति कथाप्रस्तावतस् स्मृतम् । इतिहासम् इमं पुण्यं साश्चर्यं शृणु राघव
अस्त्य् अस्य जम्बुद्वीपस्य कस्मिंश्चिद् दिङ्निकुञ्जके । वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः
कल्पद्रुमवनच्छायाविश्रान्तसुरकिन्नरः । शृङ्गैर् आततम् आकाशं जितवान् यस् समुन्नतैः
ब्रह्मलोकान्तरप्राप्तैश् शृङ्गकन्दरचारिभिः । सामवेदं प्रतिध्वानघुङ्घुमैर् गायतीव यः
यः पयोमेदुरैर् मेघैर् लुलितैश् शृङ्गकोटिषु । लताकुसुमसम्प्रोतैः कुन्तलैर् इव राजते
यस् तटोड्डयनोत्कानां शरभाणां विजृम्भितैः । विस्फूर्जति गुहावक्त्रैः कल्पाभ्राणि हसन्न् इव
येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः । समुद्रजलकल्लोलविलासो विजितो ऽभितः
तस्यैकदेशे वितते रत्नसानौ मनोरमे । मुनिभिस् स्नानपानार्थं व्योमगङ्गावतारिता
तस्यास् त्रिपथगायास् तु तीरे विकसितद्रुमे । रत्नाद्रितटविद्योतकचत्कनकपङ्कजे
आसीद् अभ्युदितज्ञानस् तपोराशिर् उदारधीः । मुनिर् दीर्घतपा नाम तपोमूर्तिम् इवास्थितः
मुनेर् बभूवतुस् तस्य द्वौ पुत्राव् इन्दुसुन्दरौ । पुण्यपावननामानौ द्वौ कचाव् इव वाक्पतेः
स ताभ्यां सह पुत्राभ्यां भार्यया सह चैकया । उवास सरितस् तीरे तस्मिन् सफलपादपे
अथ काले तयोस् तस्य पुत्रयोर् ज्ञानवान् अभूत् । पुण्यनामा वयोज्येष्ठो गुणज्येष्ठश् च राघव
पावनो ऽर्धप्रबुद्धो ऽभूत् पूर्वसन्ध्याम्बुजं यथा । मौर्ख्याद् अतिगतो नान्तः पदं लोलम् इवास्थितः
ततो वहत्य् अकलिते काले कलितकारणे । संवत्सरगणे क्षीणे दीने देहे गतायुषि
अस्माद् भङ्गुरभूताढ्याद् वृत्तान्तभरभीषणात् । रतिम् उत्सृज्य संसाराज् जराजर्जरजीवितः
कलनापक्षिणीनीडं देहं दीर्घतपा मुनिः । जहौ गिरिगुहागेहे भारं वैवधिको यथा