आत्मतत्त्वैकसारो ऽहम् इति जातधियो भवैः । न ते रामास्ति सम्बन्धः किं बिभेषि जगद्भ्रमात्
अजातस्य सतो बन्धोर् बन्धुदुःखसुखक्रमैः । कस् ते राघव सम्बन्धो यद् एतान् अनुशोचसि
त्वं चेद् बभूविथ पुरा तथेदानीं भविष्यसि । यद्य् अथेह स्थितो ऽसीति ज्ञातवान् असि निश्चयम्
तद् अनन्ततरान् अन्यान् प्राग्योनिगणसंस्तुतान् । बन्धून् अतीतान् सुबहून् कस्मात् त्वं नानुशोचसि
पूर्वम् अद्य तथेदानीं बभूविथ भविष्यसि । यदि राम तथापि त्वं सद्रूपः किं विमुह्यसि
पुरा भूत्वाद्य भूत्वा च भूयश् चेन् न भविष्यसि । तथापि क्षीणसंसारः किमर्थम् अनुशोचसि
तस्मान् न दुःखिता युक्ता प्रकृते जागते क्रमे । न चैव मुदिता युक्ता युक्तं कार्यानुवर्तनम्
मा गच्छ दुःखितां राम सुखिताम् अपि मा व्रज । समताम् एहि सर्वत्र परमात्मासि सर्वगः
अनन्तस् स्वच्छरूपस् त्वं खम् इवातिततान्तरः । नित्यशुद्धः प्रकाशस् त्वं ज्वालाया इव कोटरम्
जागतानां पदार्थानाम् अदृश्याणुतनुस् तनुः । हृत्स्थो ऽसि हारमुक्तानाम् एकस् तन्तुर् इवाततः
संसारस्थितिर् एवेयं यद् भूत्वा भूयते पुनः । अज्ञेनैव न तु ज्ञेन ज्ञो ऽसि राम स्थिरो भव
स्वरूपम् इदम् अस्यास् तु संसृतेस् सन्ततं हि यत् । अज्ञानात् स्फारताम् एति ज्ञानवान् असि सन्मते
रूपं किम् अन्यद् भवतु भ्रममात्राद् ऋते भ्रमे । स्वप्नमात्राद् ऋते स्वप्ने भवत्य् अन्यो हि कः क्रमः
सर्वशक्तेर् इयं शक्तिर् भ्रममात्रमयी मता । रूढा संसारमायेति नासत्या नापि सन्मयी
केवलं ज्ञानवैरूप्याद् अपर्यालोचनात् तथा । राम दृश्यत एवेदम् आभानम् अतिभास्वरम्
न बन्धुः कस्यचित् कश्चिद् इह नो कश्चिद् अप्य् अरिः । सदा सर्वं च सर्वस्य सर्वस् सर्वेश्वरेच्छया
आलूनशीर्णम् अखिलम् इदम् अन्योऽन्यमिश्रितम् । अनारतं याति जगत् तरङ्गौघ इवाम्भसः
अध ऊर्ध्वत्वम् आयाति यात्य् ऊर्ध्वत्वम् अधस् तथा । संसारस्य चलस्यास्य चक्रनेमिर् इवाभितः
स्वर्गस्था नरकं यान्ति नारका यान्ति विष्टपम् । योनेर् योन्यन्तरं यान्ति द्वीपाद् द्वीपान्तरं जनाः
धीराः कार्पण्यम् आयान्ति कृपणा यान्ति धीरताम् । परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः
एकरूपं स्थिरं स्वस्थं स्वच्छं सन्तापवर्जितम् । नेह सम्प्राप्यते किञ्चिद् अग्नौ हिमकणो यथा
ये ये राम महाभागा बहवो ऽबहवो ऽथ वा । नष्टा एवेह दृश्यन्ते ते ते कतिपयैर् दिनैः
परतात्मीयतान्यत्वत्वत्त्वमत्त्वादिभावनाः । नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा
अयं बन्धुः परश् चायम् अयं चाहम् अयं भवान् । एता मिथ्यादृशो राम विगलन्तु तवाधुना
क्रीडार्थं व्यवहारस्थ एताभिर् हतदृष्टिभिः । आमूलम् अन्तश् छिन्नाभिर् बहिर् विहर हेलया
संसारसरणाव् अस्यां तथा विहर सुव्रत । न यथैषि श्रमं श्रान्तो वासनाभारवान् यथा
यथा यथैषा कल्याणी वासनाक्षयकारिणी । विचारणा तवोदेति संशाम्यसि तथा तथा
अयं बन्धुर् अयं नेति गणना लघुचेतसाम् । उदारचरितानां तु विगतावरणैव धीः
न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मम । इति निर्णीतसाराणां विगतावरणैव धीः
नास्तम् एति न चोदेति यश् चिदाकाशवन् महान् । स सर्वं पश्यति स्वस्थः खस्थो भूमितलं यथा