अनर्थगहनाश् चार्था व्यर्थार्थनकदर्थनाः । दिशन्तो दुःखसंरम्भसहिता आहितापदः
फलबन्धीनि कर्माणि नानाचारमयानि च । सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः
पूर्णां दृष्टिम् अवष्टभ्य ध्येयत्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर राघव
अन्तस् सन्त्यक्तसर्वाशो वीतरागो विवासनः । बहिस् सर्वसमाचारो लोके विहर राघव
उदारः पेशलाचारस् सर्वाचारानुवृत्तिमान् । अन्तस् सर्वपरित्यागी लोके विहर राघव
प्रविचार्य दशास् सर्वा यद् अतुच्छतरं पदम् । तद् एव भावेनालम्ब्य लोके विहर राघव
अन्तर् नैराश्यम् आदाय बहिर् आशोन्मुखेहितः । बहिस् तप्तो ऽन्तर् आशीतो लोके विहर राघव
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिर् अकर्तान्तर् लोके विहर राघव
ज्ञातवान् असि सर्वेषां भावानां सत्यम् आन्तरम् । यथेच्छसि तया दृष्ट्या लोके विहर राघव
कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगदूषणः । कृत्रिमारम्भसंरम्भो लोके विहर राघव
त्यक्ताहङ्कृतिर् आश्वस्तमतिर् आकाशशोभनः । अगृहीतकलङ्काङ्को लोके विहर राघव
आशापाशशतोन्मुक्तस् समस् सर्वासु वृत्तिषु । बहिः प्रकृतकार्यस्थो लोके विहर राघव
न बन्धो ऽस्ति न मोक्षो ऽस्ति देहिनः परमार्थतः । मिथ्येयम् इन्द्रजालश्रीस् संसारपरिवर्तना
भ्रान्तिमात्रम् इदं मोहाज् जगद् राघव दृश्यते । जनितप्रत्ययं स्फारे जलं तीव्रातपे यथा
अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् । बन्धस् स्यात् तदभावे तु मोक्षः कस्य विधीयते
अतत्त्वज्ञानजातेयं सांसारी भ्रान्तिर् आतता । तत्त्वज्ञानात् क्षयं याति रज्ज्वाम् इव भुजङ्गधीः
ज्ञातवान् असि तत्त्वं स्वम् अनया सूक्ष्मया धिया । जातो ऽसि निरहङ्कारो व्योमवत् तिष्ठ निर्मलः
नासि चेत् त्वं तद् अखिलास् सुहृद्बान्धवभावनाः । सन्त्यजासत्स्वभावस्य का नाम किल भावना
असि चेत् त्वं तद् अत्यन्तसत्त्ववान् अनुमीयसे । इदम्प्रथमतां प्राप्तः परमाद् असि कारणात्
भोगबन्धुजगद्भावैः कर्मभिश् च शुभाशूभैः । आत्मनो नास्ति सम्बन्धः किम् एनम् अनुशोचसि
आत्मतत्त्वैकसारो ऽहम् इति जातधियो भवैः । न ते रामास्ति सम्बन्धः किं बिभेषि जगद्भ्रमात्
अजातस्य सतो बन्धोर् बन्धुदुःखसुखक्रमैः । कस् ते राघव सम्बन्धो यद् एतान् अनुशोचसि
त्वं चेद् बभूविथ पुरा तथेदानीं भविष्यसि । यद्य् अथेह स्थितो ऽसीति ज्ञातवान् असि निश्चयम्
तद् अनन्ततरान् अन्यान् प्राग्योनिगणसंस्तुतान् । बन्धून् अतीतान् सुबहून् कस्मात् त्वं नानुशोचसि
पूर्वम् अद्य तथेदानीं बभूविथ भविष्यसि । यदि राम तथापि त्वं सद्रूपः किं विमुह्यसि
पुरा भूत्वाद्य भूत्वा च भूयश् चेन् न भविष्यसि । तथापि क्षीणसंसारः किमर्थम् अनुशोचसि
तस्मान् न दुःखिता युक्ता प्रकृते जागते क्रमे । न चैव मुदिता युक्ता युक्तं कार्यानुवर्तनम्
मा गच्छ दुःखितां राम सुखिताम् अपि मा व्रज । समताम् एहि सर्वत्र परमात्मासि सर्वगः
अनन्तस् स्वच्छरूपस् त्वं खम् इवातिततान्तरः । नित्यशुद्धः प्रकाशस् त्वं ज्वालाया इव कोटरम्
जागतानां पदार्थानाम् अदृश्याणुतनुस् तनुः । हृत्स्थो ऽसि हारमुक्तानाम् एकस् तन्तुर् इवाततः