सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति
सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः । प्राप्तक्रमकरो ऽग्र्याणां संसारे नावसीदति
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति । मौनस्थः प्रकृतारम्भी संसारे नावसीदति
पृष्टस् सन् प्रकृतं वक्ता न पृष्टस् स्थाणुवत् स्थितः । ईहितानीहितैर् मुक्तस् संसारे नावसीदति
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आशयज्ञश् च भूतानां संसारे नावसीदति
युक्तायुक्तदशाग्रस्तम् आशोपहतचेष्टितम् । जानाति लोकवृत्तान्तं करकोटरबिल्ववत्
परं पदम् उपारूढो भङ्गुरां जागतीं स्थितिम् । अन्तश्शीतलया बुद्ध्या हसन्न् इव निरीक्षते
जितचित्ता महात्मानो ये हि दृष्टपरावराः । स्वभाव ईदृशस् तेषां कथितस् तव राघव
वक्तुं वयं तु मूर्खाणाम् अजितात्मीयचेतसाम् । भोगकर्दममग्नानां न विद्मो ऽभिमतं मतम्
तेषाम् अभिमता नार्यो हावभावविभूषणाः । ज्वाला नरकवह्नीनां यास् ताः कनकरोचिषः
अनर्थगहनाश् चार्था व्यर्थार्थनकदर्थनाः । दिशन्तो दुःखसंरम्भसहिता आहितापदः
फलबन्धीनि कर्माणि नानाचारमयानि च । सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः
पूर्णां दृष्टिम् अवष्टभ्य ध्येयत्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर राघव
अन्तस् सन्त्यक्तसर्वाशो वीतरागो विवासनः । बहिस् सर्वसमाचारो लोके विहर राघव
उदारः पेशलाचारस् सर्वाचारानुवृत्तिमान् । अन्तस् सर्वपरित्यागी लोके विहर राघव
प्रविचार्य दशास् सर्वा यद् अतुच्छतरं पदम् । तद् एव भावेनालम्ब्य लोके विहर राघव
अन्तर् नैराश्यम् आदाय बहिर् आशोन्मुखेहितः । बहिस् तप्तो ऽन्तर् आशीतो लोके विहर राघव
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिर् अकर्तान्तर् लोके विहर राघव
ज्ञातवान् असि सर्वेषां भावानां सत्यम् आन्तरम् । यथेच्छसि तया दृष्ट्या लोके विहर राघव
कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगदूषणः । कृत्रिमारम्भसंरम्भो लोके विहर राघव
त्यक्ताहङ्कृतिर् आश्वस्तमतिर् आकाशशोभनः । अगृहीतकलङ्काङ्को लोके विहर राघव
आशापाशशतोन्मुक्तस् समस् सर्वासु वृत्तिषु । बहिः प्रकृतकार्यस्थो लोके विहर राघव
न बन्धो ऽस्ति न मोक्षो ऽस्ति देहिनः परमार्थतः । मिथ्येयम् इन्द्रजालश्रीस् संसारपरिवर्तना
भ्रान्तिमात्रम् इदं मोहाज् जगद् राघव दृश्यते । जनितप्रत्ययं स्फारे जलं तीव्रातपे यथा
अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् । बन्धस् स्यात् तदभावे तु मोक्षः कस्य विधीयते
अतत्त्वज्ञानजातेयं सांसारी भ्रान्तिर् आतता । तत्त्वज्ञानात् क्षयं याति रज्ज्वाम् इव भुजङ्गधीः
ज्ञातवान् असि तत्त्वं स्वम् अनया सूक्ष्मया धिया । जातो ऽसि निरहङ्कारो व्योमवत् तिष्ठ निर्मलः
नासि चेत् त्वं तद् अखिलास् सुहृद्बान्धवभावनाः । सन्त्यजासत्स्वभावस्य का नाम किल भावना
असि चेत् त्वं तद् अत्यन्तसत्त्ववान् अनुमीयसे । इदम्प्रथमतां प्राप्तः परमाद् असि कारणात्
भोगबन्धुजगद्भावैः कर्मभिश् च शुभाशूभैः । आत्मनो नास्ति सम्बन्धः किम् एनम् अनुशोचसि