भावाद्वैतम् उपाश्रित्य सत्ताद्वैतमयात्मकः । कर्माद्वैतम् अनादृत्य द्वैताद्वैतमयो भव
भवभूमिषु भीमासु भवभावनयानया । मा पतोत्पातपूर्णासु नदीष्व् अन्धः करी यथा
द्वित्वं न सम्भवति सर्वगते महात्मन्य् आत्मन्य् अथैक्यम् अपि च द्वितयोदितात्म । अद्वैतम् ऐक्यरहितं सततोदितं च सर्वं न किञ्चिद् अपि चाहुर् अतस् स्वरूपम्
नैवाहम् अस्मि न च नाम जगन्ति सन्ति सर्वं च विद्यत इदं ननु निर्विकारम् । विज्ञानमात्रम् अवभासत एव शान्तं नासन् न सज् जगद् अहं च सदेति विद्धि
परमम् अमृतम् आद्यं भासनं सर्वभासाम् अजम् अजरम् अचिन्त्यं निष्क्रमं निर्विकारम् । विगतकरणजालम् जीवनं जीवशक्तेस् सकलकलनहीनं कारणं कारणानाम्
सततम् उदितम् ईशं व्यातते चित्प्रकाशे स्थितम् अनुभवबीजं स्वात्मभावोपदेश्यम् । स्वदनम् अनु चितो ऽन्तर् ब्रह्म सर्वं सदैतत् त्वम् अहम् अपि जगच् चेत्य् अस्तु ते निश्चयो ऽन्तः
मुक्ताशयानां महताम् अहतानां कुदृष्टिभिः । स्वभावो ऽयं महाबाहो लीलया चरताम् इह
विहरन्न् अपि संसारे जीवन्मुक्तमना मुनिः । आदिमध्यान्तविरसा विहसञ् जागतीर् गतीः
सर्वप्रकृतकार्यस्थो मध्यस्थस् सर्ववृत्तिषु । ध्येयं तं वासनात्यागम् अवलम्ब्य व्यवस्थितः
सर्वत्र विगतोद्वेगस् सर्वार्थपरिपोषकः । विवेकोद्यानतुष्टात्मा प्रबोधोपवने स्थितः
सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति
सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः । प्राप्तक्रमकरो ऽग्र्याणां संसारे नावसीदति
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति । मौनस्थः प्रकृतारम्भी संसारे नावसीदति
पृष्टस् सन् प्रकृतं वक्ता न पृष्टस् स्थाणुवत् स्थितः । ईहितानीहितैर् मुक्तस् संसारे नावसीदति
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आशयज्ञश् च भूतानां संसारे नावसीदति
युक्तायुक्तदशाग्रस्तम् आशोपहतचेष्टितम् । जानाति लोकवृत्तान्तं करकोटरबिल्ववत्
परं पदम् उपारूढो भङ्गुरां जागतीं स्थितिम् । अन्तश्शीतलया बुद्ध्या हसन्न् इव निरीक्षते
जितचित्ता महात्मानो ये हि दृष्टपरावराः । स्वभाव ईदृशस् तेषां कथितस् तव राघव
वक्तुं वयं तु मूर्खाणाम् अजितात्मीयचेतसाम् । भोगकर्दममग्नानां न विद्मो ऽभिमतं मतम्
तेषाम् अभिमता नार्यो हावभावविभूषणाः । ज्वाला नरकवह्नीनां यास् ताः कनकरोचिषः
अनर्थगहनाश् चार्था व्यर्थार्थनकदर्थनाः । दिशन्तो दुःखसंरम्भसहिता आहितापदः
फलबन्धीनि कर्माणि नानाचारमयानि च । सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः
पूर्णां दृष्टिम् अवष्टभ्य ध्येयत्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर राघव
अन्तस् सन्त्यक्तसर्वाशो वीतरागो विवासनः । बहिस् सर्वसमाचारो लोके विहर राघव
उदारः पेशलाचारस् सर्वाचारानुवृत्तिमान् । अन्तस् सर्वपरित्यागी लोके विहर राघव
प्रविचार्य दशास् सर्वा यद् अतुच्छतरं पदम् । तद् एव भावेनालम्ब्य लोके विहर राघव
अन्तर् नैराश्यम् आदाय बहिर् आशोन्मुखेहितः । बहिस् तप्तो ऽन्तर् आशीतो लोके विहर राघव
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिर् अकर्तान्तर् लोके विहर राघव
ज्ञातवान् असि सर्वेषां भावानां सत्यम् आन्तरम् । यथेच्छसि तया दृष्ट्या लोके विहर राघव
कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगदूषणः । कृत्रिमारम्भसंरम्भो लोके विहर राघव