एतेषां प्रथमः प्रोतस् तृष्णया बन्धयोग्यया । शुद्धतृष्णास् त्रयस् स्वच्छा जीवन्मुक्ता विलासिनः
सर्वम् आत्माहम् एवेति निश्चयो यो महामते । तम् आदाय विषादाय न भूयो याति ते मतिः
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमात्मनः । सर्वम् आत्मेति तेनान्तर् निश्चयेन न बध्यसे
शून्यं प्रकृतिमाये च ब्रह्म विज्ञानम् इत्य् अपि । शिवः पुरुष ईशेति नित्यम् आत्मैव कथ्यते
सदा सर्वं सद् एवेदं नेह द्वित्वान्यते क्वचित् । विद्यते विद्यया व्याप्तं जगन् नेतरयान्धया
आपातालम् अनन्तात्मा पूरितो ऽम्बुभिर् अम्बुधिः । आब्रह्मस्तम्बपर्यन्तं जगद् आपूर्णम् आत्मना
ऋतं सर्वम् इदं नित्यं नानृतं विद्यते क्वचित् । वार्य् एव सकलो ऽम्भोधिर् न तरङ्गादयः पृथक्
पृथक् कटककेयूरनूपुरादि न काञ्चनात् । भिन्नास् तरुतृणाकारकोटयश् चैव नात्मनः
द्वैताद्वैतसमुद्भेदैर् जगन्निर्माणलीलया । परमात्ममयी शक्तिर् अद्वैतैव विजृम्भते
आत्मीये परकीये च सर्वस्मिन्न् एव सर्वदा । नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा
भावाद्वैतम् उपाश्रित्य सत्ताद्वैतमयात्मकः । कर्माद्वैतम् अनादृत्य द्वैताद्वैतमयो भव
भवभूमिषु भीमासु भवभावनयानया । मा पतोत्पातपूर्णासु नदीष्व् अन्धः करी यथा
द्वित्वं न सम्भवति सर्वगते महात्मन्य् आत्मन्य् अथैक्यम् अपि च द्वितयोदितात्म । अद्वैतम् ऐक्यरहितं सततोदितं च सर्वं न किञ्चिद् अपि चाहुर् अतस् स्वरूपम्
नैवाहम् अस्मि न च नाम जगन्ति सन्ति सर्वं च विद्यत इदं ननु निर्विकारम् । विज्ञानमात्रम् अवभासत एव शान्तं नासन् न सज् जगद् अहं च सदेति विद्धि
परमम् अमृतम् आद्यं भासनं सर्वभासाम् अजम् अजरम् अचिन्त्यं निष्क्रमं निर्विकारम् । विगतकरणजालम् जीवनं जीवशक्तेस् सकलकलनहीनं कारणं कारणानाम्
सततम् उदितम् ईशं व्यातते चित्प्रकाशे स्थितम् अनुभवबीजं स्वात्मभावोपदेश्यम् । स्वदनम् अनु चितो ऽन्तर् ब्रह्म सर्वं सदैतत् त्वम् अहम् अपि जगच् चेत्य् अस्तु ते निश्चयो ऽन्तः
मुक्ताशयानां महताम् अहतानां कुदृष्टिभिः । स्वभावो ऽयं महाबाहो लीलया चरताम् इह
विहरन्न् अपि संसारे जीवन्मुक्तमना मुनिः । आदिमध्यान्तविरसा विहसञ् जागतीर् गतीः
सर्वप्रकृतकार्यस्थो मध्यस्थस् सर्ववृत्तिषु । ध्येयं तं वासनात्यागम् अवलम्ब्य व्यवस्थितः
सर्वत्र विगतोद्वेगस् सर्वार्थपरिपोषकः । विवेकोद्यानतुष्टात्मा प्रबोधोपवने स्थितः
सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति
सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः । प्राप्तक्रमकरो ऽग्र्याणां संसारे नावसीदति
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति । मौनस्थः प्रकृतारम्भी संसारे नावसीदति
पृष्टस् सन् प्रकृतं वक्ता न पृष्टस् स्थाणुवत् स्थितः । ईहितानीहितैर् मुक्तस् संसारे नावसीदति
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आशयज्ञश् च भूतानां संसारे नावसीदति
युक्तायुक्तदशाग्रस्तम् आशोपहतचेष्टितम् । जानाति लोकवृत्तान्तं करकोटरबिल्ववत्
परं पदम् उपारूढो भङ्गुरां जागतीं स्थितिम् । अन्तश्शीतलया बुद्ध्या हसन्न् इव निरीक्षते
जितचित्ता महात्मानो ये हि दृष्टपरावराः । स्वभाव ईदृशस् तेषां कथितस् तव राघव
वक्तुं वयं तु मूर्खाणाम् अजितात्मीयचेतसाम् । भोगकर्दममग्नानां न विद्मो ऽभिमतं मतम्
तेषाम् अभिमता नार्यो हावभावविभूषणाः । ज्वाला नरकवह्नीनां यास् ताः कनकरोचिषः