साधुवादगिरा सार्धं सिद्धसार्थसमीरिता । वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह
मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी । मदिरामोदसौन्दर्यमुदितोन्मदमानवा
व्योमवातविनुन्नेव तारकाणां परम्परा । पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा
वृष्टिष्व् एकशरन्मेघलवावलिर् इव च्युता । हैय्यङ्गवीनपिण्डानाम् ईरितेव परम्परा
हिमवृष्टिर् इवोदारा मुक्ताहारचयोपमा । ऐन्दवी रश्मिमालेव क्षीरोर्मीणाम् इवाततिः
किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका । सीत्कारगायदामोदमधुरानिलदोलिता
प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा । प्रपतत्कुन्दवलया वलत्कुवलयालया
आपूरिताङ्गनारामगृहच्छादनचत्वरा । उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता
निरभ्रोत्पलसङ्काशव्योमवृष्टिर् अनाकुला । अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया
अदृष्टपूर्वा सिद्धौघकरोत्करसमीरिता । सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह
आपूरितसभालोके शान्ते कुसुमवर्षणे । इमान् सिद्धगणालापाञ् शुश्रुवुस् ते सभासदः
आकल्पं सिद्धसेनासु भ्रमद्भिर् अभितो दिवम् । अपूर्वम् अद्य त्व् अस्माभिश् श्रुतं श्रुतिरसायनम्
यद् अनेन किलोदारम् उक्तं रघुकुलेन्दुना । वीतरागतया तद् धि वाक्पतेर् अप्य् अगोचरम्
अहो वत महत् पुण्यम् अद्यास्माभिर् इदं श्रुतम् । वचो राममुखोद्भूतम् अमृताह्लादकं धियः
उपशमामृतसुन्दरम् आदराद् अधिगतोत्तमतापदम् एष यत् । कथितवान् उचितं रघुनन्दनस् सपदि तेन वयं प्रतिबोधिताः
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना । निर्णयं श्रोतुम् उचितं वक्ष्यमाणं महर्षिभिः
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः । आगच्छताश्व् अविघ्नेन सर्व एव महर्षयः
पतामः परितः पुण्याम् एतां दाशरथीं सभाम् । नीरन्ध्रकनकाम्भोजां नलिनीम् इव षट्पदाः
इत्य् उक्त्वा सा समस्तैव व्योमावासनिवासिनी । आपपात सभां तत्र दिव्या मुनिपरम्परा
अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा । पयःपीनघनश्यामव्यासमेचकितान्तरा
भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता । च्यवनोद्दालकोशीरशरलोमादिपालिता
परस्परपरामर्शाद् दुस्संस्थानमृगाजिना । लोलाक्षमालावलया सुकमण्डलुधारिणी
तारावलिर् इवान्योऽन्यं कृतशोभातिशायिनी । कौसुमी वृष्टिर् अन्येव द्वितीयेवार्कमण्डली
ताराजाल इवाम्भोदो व्यासो ह्य् अत्र व्यराजत । तारौघ इव शीतांशुर् नारदो ऽत्र व्यराजत
देवेष्व् इव सुराधीशः पुलस्त्यो ऽत्र व्यराजत । आदित्य इव देवानाम् अङ्गिराश् च व्यराजत
अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसात् । उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा
मिश्रीभूता विरेजुस् ते नभश्चरमहीचराः । परस्परवृताङ्गाभा भासयन्तो दिशो दश
वेणुघण्टावृतकरा लीलाकमलधारिणः । दूर्वाङ्कुराक्रान्तशिखास् सचूडामणिमूर्धजाः
जटाकटप्रकपिला मौलिमालितमस्तकाः । प्रकोष्ठगाक्षवलया माणिक्यवलयान्विताः
चीरवल्कलसंवीतास् स्रक्कौशेयावगुण्ठिताः । विलोलमेखलापाशाश् चलन्मुक्ताकलापिनः