निर्मूलकलनां कृत्वा वासनां यः क्षयं गतः । नेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन
ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया । जीवन्मुक्ता महात्मानस् सुजना जनका इव
नेयं तु वासनात्यागं कृत्वोपशमम् आगताः । विदेहमुक्तास् तिष्ठन्ति ब्रह्मण्य् एव परापरे
द्वाव् एतौ राघव त्यागौ समौ मुक्तपदस्थितौ । द्वाव् एव ब्रह्मतां यातौ द्वाव् एव विगतज्वरौ
मुक्ताव् उत्तमविश्वासे केवलं विमले ऽनघ । एकस् स्थितस् स्फुरद्देहश् शान्तदेहस् स्थितो ऽपरः
एकस् सदेहो निर्मुक्तस् तिष्ठत्य् अपगतज्वरः । त्यक्तदेहो विमुक्तो ऽन्यो वर्तते ऽनेयवासनः
आपतत्सु यथाकालं सुखदुःखेष्व् अनारतम् । न हृष्यति ग्लायति वा यस् स मुक्त इहोच्यते
ईप्सितानीप्सिते न स्तो यस्यान्तर् वस्तुदृष्टिषु । सुषुप्तवद् यश् चलति स मुक्त इति कथ्यते
हेयोपादेयकलने ममेत्य् अहम् इहेति च । यस्यान्तस् सम्परिक्षीणे स जीवन्मुक्त उच्यते
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः । न परामृश्यते यो ऽन्तस् स जीवन्मुक्त उच्यते
सुषुप्तवत् प्रशमितभाववृत्तिना स्थितं सदा जाग्रति येन चेतसा । कलान्वितो विधुर् इव यस् सदा मुदा निषेव्यते मुक्त इतीह स स्मृतः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
विदेहमुक्ता ये राम ते गिराम् इह गोचरे । नैव तिष्ठन्ति तस्मात् त्वं जीवन्मुक्तान् इमाञ् शृणु
प्रकृतान्य् एव कार्याणि ययारञ्जितयाच्छया । क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः
या स्थितिस् तृष्णया जन्तोर् बाह्यार्थे बद्धभावया । तं बन्धम् आहुर् आचार्यास् संसारनिगडं दृढम्
नूनम् उज्झितसङ्कल्पा हृदि बाह्ये विहारिणी । वासना योदिता सेह जीवन्मुक्तशरीरिणी
बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव । सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते
पूर्वं यस्यास् तु तृष्णाया वर्तमाने च शाश्वती । निर्दुःखता निष्कलता सा मुक्तैव बुधैस् स्मृता
इदम् अस्तु ममेत्य् अन्तर् यैषा राघव भावना । तां तृष्णां शृङ्खलां विद्धि कलनां च महामते
ताम् एतां सर्वभावेषु सत्स्व् असत्सु च सर्वदा । सन्त्यज्य परमोदारं पदम् एति महामनाः
बन्धाशाम् अथ मोक्षाशां सुखदुःखदशाम् अपि । त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत्
अजरामरम् आत्मानं बुद्ध्वा बुद्धिमतां वर । जरामरणशङ्काभिर् मा मनः कलुषं कृथाः
पदार्थजातं नेदं ते नायम् अप्य् असि राघव । किञ्चित् तदन्यद् एवेदम् अन्य एवासि शाश्वतः
असदभ्युत्थिते विश्वे सत्ये वा सततं स्थिते । त्वयि तत्ताम् उपगते तृष्णायास् सङ्गमः कुतः
अन्यश् च राम मनसि पुरुषस्य विचारिणः । जायते निश्चयस् साधो स्फाराकारश् चतुर्विधः
आपादमस्तकम् अहं मातापितृविनिर्मितः । इत्य् एको निश्चयो राम बन्धायासद्विलोकनात्
अतीतस् सर्वभावेभ्यो वालाग्राद् अप्य् अहं तनुः । इति द्वितीयो मोक्षाय निश्चयो जायते सताम्
जगज्जालपदार्थात्मा सर्वदैवाहम् अक्षतः । तृतीयो निश्चयश् चेत्थं मोक्षायैव रघूद्वह
अहं जगच् चासद् इदं शून्यं व्योमसमं सदा । एवम् एष चतुर्थो ऽपि निश्चयो मोक्षसिद्धये
निश्चयेषु चतुर्ष्व् एवं बन्धाय प्रथमस् स्मृतः । त्रयो मोक्षाय कथिताश् शुद्धभावनयोम्भिताः