यद्य् अहङ्कारसन्त्यागं करोमि तद् इमं प्रभो । त्यजामि देहनामानं सन्निवेशम् अशेषतः
जानुस्तम्भेन महता धार्यते सुतरुर् यथा । अहङ्कारेण देहो ऽयं तथैव किल धार्यते
अहङ्कारक्षये देहः किलावश्यं विनश्यति । मूले क्रकचसंलूने सुमहान् इव पादपः
तत् कथं सन्त्यजाम्य् एनं जीवामि च कथं मुने । एकम् अर्थं विनिश्चित्य वद मे वदतां वर
सर्वत्र वासनात्यागो राम राजीवलोचन । द्विविधः कथ्यते तज्ज्ञैर् ध्येयो नेयश् च नामतः
अहम् एषां पदार्थानाम् एते च मम जीवितम् । नाहम् एभिर् विना कश्चिन् न मयैते विना किल
इत्य् अन्तर् निश्चयं त्यक्त्वा विचार्य मनसा सह । नाहं पदार्थस्य न मे पदार्थ इति भाविते
अन्तश्शीतलया बुद्ध्या कुर्वन्त्या लीलया क्रियाः । यो नूनं वासनात्यागो ध्येयो नाम स कीर्तितः
सर्वं सर्विकया बुद्ध्या यं कृत्वा वासनाक्षयम् । जहाति निर्मना देहं स नेयो वासनाक्षयः
अहङ्कारमयीं त्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसन्त्यागी स जीवन्मुक्त उच्यते
निर्मूलकलनां कृत्वा वासनां यः क्षयं गतः । नेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन
ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया । जीवन्मुक्ता महात्मानस् सुजना जनका इव
नेयं तु वासनात्यागं कृत्वोपशमम् आगताः । विदेहमुक्तास् तिष्ठन्ति ब्रह्मण्य् एव परापरे
द्वाव् एतौ राघव त्यागौ समौ मुक्तपदस्थितौ । द्वाव् एव ब्रह्मतां यातौ द्वाव् एव विगतज्वरौ
मुक्ताव् उत्तमविश्वासे केवलं विमले ऽनघ । एकस् स्थितस् स्फुरद्देहश् शान्तदेहस् स्थितो ऽपरः
एकस् सदेहो निर्मुक्तस् तिष्ठत्य् अपगतज्वरः । त्यक्तदेहो विमुक्तो ऽन्यो वर्तते ऽनेयवासनः
आपतत्सु यथाकालं सुखदुःखेष्व् अनारतम् । न हृष्यति ग्लायति वा यस् स मुक्त इहोच्यते
ईप्सितानीप्सिते न स्तो यस्यान्तर् वस्तुदृष्टिषु । सुषुप्तवद् यश् चलति स मुक्त इति कथ्यते
हेयोपादेयकलने ममेत्य् अहम् इहेति च । यस्यान्तस् सम्परिक्षीणे स जीवन्मुक्त उच्यते
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः । न परामृश्यते यो ऽन्तस् स जीवन्मुक्त उच्यते
सुषुप्तवत् प्रशमितभाववृत्तिना स्थितं सदा जाग्रति येन चेतसा । कलान्वितो विधुर् इव यस् सदा मुदा निषेव्यते मुक्त इतीह स स्मृतः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
विदेहमुक्ता ये राम ते गिराम् इह गोचरे । नैव तिष्ठन्ति तस्मात् त्वं जीवन्मुक्तान् इमाञ् शृणु
प्रकृतान्य् एव कार्याणि ययारञ्जितयाच्छया । क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः
या स्थितिस् तृष्णया जन्तोर् बाह्यार्थे बद्धभावया । तं बन्धम् आहुर् आचार्यास् संसारनिगडं दृढम्
नूनम् उज्झितसङ्कल्पा हृदि बाह्ये विहारिणी । वासना योदिता सेह जीवन्मुक्तशरीरिणी
बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव । सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते
पूर्वं यस्यास् तु तृष्णाया वर्तमाने च शाश्वती । निर्दुःखता निष्कलता सा मुक्तैव बुधैस् स्मृता
इदम् अस्तु ममेत्य् अन्तर् यैषा राघव भावना । तां तृष्णां शृङ्खलां विद्धि कलनां च महामते
ताम् एतां सर्वभावेषु सत्स्व् असत्सु च सर्वदा । सन्त्यज्य परमोदारं पदम् एति महामनाः