देहगेहाद् गते चित्तयक्षे बलवतां वर । निराधिर् विगतोद्वेगं तिष्ठ नास्ति भयं तव
नीराग एव निरुपाञ्जन एव चास्मीत्य् एतावतैव गलिता तव चित्तसत्ता । निर्दुःखम् उत्तमपदं परमं गतो ऽसि तिष्ठोपशान्तसकलैषण एवम् अन्तः
एनाम् अनुसरन् राम चित्तसत्ताम् अपावनीम् । संसारबीजकणिकां जीवबन्धनवागुराम्
आत्मा त्यक्तात्मरूपाभो मलिनाम् आपतन् दशाम् । चिन्तां समनुसन्धत्ते धत्ते च कलनामलम्
मूर्छमाना महामोहदायिनी भयकारिणी । तृष्णा विषलतारूपा मूर्छाम् एव प्रयच्छति
यदा यदोदेति तदा महामोहप्रदायिनी । तृष्णा कृष्णनिशेवेयम् अनन्तान्ध्यविकारिणी
कल्पानलशिखादाहं सोढुं शक्ता हरादयः । तृष्णानलशिखादाहं सोढुं शक्ता न केचन
तीक्ष्णा कृष्णा सुदीर्घा च वहत्य् अङ्गे सदा निजे । शीतलेवासुखोदर्का घोरा तृष्णाकृपाणिका
यान्य् एतानि दुरन्तानि दुर्धराण्य् उद्धतानि च । तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव
अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् । मनोबिलविलीनैषा तृष्णावनशुनी नृणाम्
क्षणम् उल्लासम् आयाति क्षणम् आयाति शून्यताम् । जडा विदलयत्य् आशु तृष्णाप्रावृट्तरङ्गिणी
दृष्टदैन्यो हतस्वान्तो हतौजा याति नीचताम् । मुह्यते रौति पतति तृष्णयाभिहतो जनः
न स्थिता कोटरे यस्य तृष्णाकृष्णभुजङ्गमी । तस्य प्राणानिलास् स्वस्थाः पुंसो हृदयरन्ध्रगाः
नूनम् अस्तङ्गतो यत्र तृष्णाकृष्णनिशाक्रमः । पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः
यो न तृष्णाघुणावल्या क्षतः पुरुषपादपः । पुण्यप्रसूनेन सदा सो ऽवभाति विकासिना
अनन्ताकुलकल्लोला विवर्तावर्तसङ्कुला । प्रवहत्य् आशयारण्ये तृष्णामोहनदी नृणाम्
तृष्णयेमे जनास् सर्वे सूत्रयन्त्रपतत्रिवत् । उह्यन्ते प्रविशीर्यन्ते संह्रियन्ते च भूरिशः
मूलान्य् अपि सुसूक्ष्मापि कठिनायसकर्कशा । तृष्णा परशुधारेव लगन्ती विनिकृन्तति
निपतत्य् अवटे मूढस् तृष्णाम् अनुसरञ् जनः । नीलाम् अनुपतञ् श्वभ्रतृणशाखां यथैणकः
नापन् नापि जरा न क्षुत् तथा जरयति क्षणात् । यथा जरयति क्षामं तृष्णा हृदयरूपिका
तृष्णयाशयकौशिक्या हृद्य् अमङ्गलभूतया । रूढया भगवान् एष विष्णुर् वामनतां गतः
कयाचिद् एव दैविक्या हृदि ग्रथितयानया । तृष्णया भ्राम्यते व्योम्नि रज्ज्वेवार्को ऽन्वहं किल
सर्वदुःखमयाकारां कारां जगति जीवतः । तृष्णां परिहर क्रूराम् उरगीम् इव दूरतः
तृष्णया पवना वान्ति शैलास् तिष्ठन्ति तृष्णया । तृष्णयैव धरा धात्री त्रैलोक्यं तृष्णया वृतम्
सर्वैव लोकयात्रेयं प्रोता तृष्णावरत्रया । रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केचन
तस्माद् राघव तृष्णां त्वं त्यज सङ्कल्पवर्जनात् । मनस् सङ्कल्पकं नास्ति निर्णीतम् इति युक्तितः
अयं नामाहम् इत्य् एव प्रथमं तावद् आशये । मा दुराशां महाबाहो सङ्कल्पय तमोमयीम्
एतां दुःखप्रसविनीम् अनात्मन्य् आत्मभावनाम् । न भावयसि चेद् राम तद् बहुज्ञेषु गण्यसे
एनाम् अहम्भावमयीम् अपुण्यां छित्त्वा स्वयम्भावशलाकयैव । स्वभावनां भव्य भवान्तभूमौ भवाभिभूताखिलभीतिभूतिः
अतिगम्भीरम् एतत् तु भगवन् वचनं तव । यद् अहङ्कारतृष्णे त्वं मा गृहाणेति वक्षि माम्