इदानीं भवता ज्ञातं यथाभूतम् अरिन्दम । सङ्कल्पाद् वर्धते चित्तं तद् एवाशु परित्यज
दृश्यम् आश्रयसीदं चेत् तत् सचित्तो ऽसि बन्धवान् । दृश्यं सन्त्यजसीदं चेत् तद् अचित्तो ऽसि मोक्षवान्
अयं गुणसमाहारो बन्धायैव समाश्रितः । सन्त्यक्त एव मोक्षाय यथेच्छसि तथा कुरु
नाहं नेदम् इति ध्यायंस् तिष्ठ त्वम् अचलाचलः । अनन्ताकाशसङ्काशहृदयो हृदयेश्वरः
आत्मनो जगतश् चान्तर् विभागकलनामलम् । राम द्वित्वमयं त्यक्त्वा शेषस्थस् सुस्थिरो भव
आत्मनो जगतश् चान्तर् द्रष्टृदृश्यदशान्तरे । दर्शनाख्ये स्वम् आत्मानं सर्वदा भावयन् भव
स्वाद्यस्वादकसन्त्यक्तं स्वाद्यस्वादकमध्यगम् । स्वदनान्तस्स्थितं ध्यायन् नित्यम् आत्ममयो भव
रामानुभवनीयस्य तथानुभवितुस् स्वयम् । अवलम्ब्य निरालम्बं मध्यम् अद्य स्थिरो भव
भवभावनया हीनं भावाभावदशोज्झितम् । भावयित्वैवम् आत्मानम् आत्मसंस्थस् स्वयं भव
आत्मसत्तां त्यजन्न् एनां चेत्यं भावयसि स्वयम् । यदा राम तदा यासि चित्तताम् अतिदुःखदाम्
चित्तताशृङ्खलाम् एनां स्वरूपज्ञानयुक्तिभिः । बलाच् छित्त्वा महाबाहो स्वात्मसिंहं विमोचय
परमात्मदशां त्यक्त्वा चेत्यं परिपतन् मलम् । यदा गच्छसि सङ्कल्पं चेत्यं सम्पद्यसे तदा
आत्मनो व्यतिरिक्तं सच् चेत्यम् इत्य् अङ्गसंविदा । मनस् सम्पद्यते दुःखि क्षीयते त्यक्तया तया
आत्मैवेदं जगत् सर्वम् इत्य् अन्तस् संविदोदये । क्व चेत्ता क्व च वा चित्तं किं चेत्यं चिन्तनं च किम्
अहम् आत्मेति जीवो ऽस्मीत्य् एतावच् चित्तकं विदुः । अनेनेदम् अनाद्यन्तं दुःखं राघव तन्यते
अहम् आत्मा न जीवाख्यास् सत्तास् सन्तीतराः क्वचित् । इत्य् एव चित्तोपशमः परमं सुखम् उच्यते
आत्मैवेदं जगद् इति जाते राघव निश्चये । असत्ता चेतसो जाता भवत्य् एव न संशयः
एवं सत्यावबोधेन स्वात्मैवेदम् इति स्थिते । मनस् सुगलितं विद्धि सूर्यभासा तमो यथा
मनस्सर्पश् शरीरस्थो यावत् तावन् महद् भयम् । तस्मिन्न् उत्सारिते योगाद् भयस्यावसरः कुतः
भ्रान्तिमात्रोत्थितश् चित्तवेतालो भवतानघ । सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम्
देहगेहाद् गते चित्तयक्षे बलवतां वर । निराधिर् विगतोद्वेगं तिष्ठ नास्ति भयं तव
नीराग एव निरुपाञ्जन एव चास्मीत्य् एतावतैव गलिता तव चित्तसत्ता । निर्दुःखम् उत्तमपदं परमं गतो ऽसि तिष्ठोपशान्तसकलैषण एवम् अन्तः
एनाम् अनुसरन् राम चित्तसत्ताम् अपावनीम् । संसारबीजकणिकां जीवबन्धनवागुराम्
आत्मा त्यक्तात्मरूपाभो मलिनाम् आपतन् दशाम् । चिन्तां समनुसन्धत्ते धत्ते च कलनामलम्
मूर्छमाना महामोहदायिनी भयकारिणी । तृष्णा विषलतारूपा मूर्छाम् एव प्रयच्छति
यदा यदोदेति तदा महामोहप्रदायिनी । तृष्णा कृष्णनिशेवेयम् अनन्तान्ध्यविकारिणी
कल्पानलशिखादाहं सोढुं शक्ता हरादयः । तृष्णानलशिखादाहं सोढुं शक्ता न केचन
तीक्ष्णा कृष्णा सुदीर्घा च वहत्य् अङ्गे सदा निजे । शीतलेवासुखोदर्का घोरा तृष्णाकृपाणिका
यान्य् एतानि दुरन्तानि दुर्धराण्य् उद्धतानि च । तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव
अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् । मनोबिलविलीनैषा तृष्णावनशुनी नृणाम्