विनाशायैव जायन्ते जडदेहेष्व् अबुद्धयः । अनारतोदयापाया बुद्बुदा जलधिष्व् इव
कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् । सूनावद्भिर् निहन्यन्ते केवात्र परिदेवना
अर्बुदान्य् अनिलो हन्ति क्षुपाजालेषु चान्वहम् । दंशानां मषकानां च केवात्र परिदेवना
दिशं प्रति गिरीन्द्रेषु पुलिन्दौघा वने वने । निघ्नन्ति प्राणिलक्षाणि केवात्र परिदेवना
जले जलचरव्यूहात् तनुं स्थूलो निकृन्तति । ग्रासाय प्रत्यहं मत्स्यः केवात्र परिदेवना
गृध्रश्येनादयो व्योम्नि पक्षिपूगं विहङ्गमाः । अनारतं विलुम्पन्ति केवात्र परिदेवना
लिक्षाम् अणुकणक्षामां क्षुधा खादति मक्षिका । तां कोशकारः क्षुधितो दंशस् तम् अपि चञ्चलः
तं दंशं दर्दुरो भुङ्क्ते व्यालस् तम् अपि दर्दुरम् । सर्पम् उग्रखरो हन्ति बभ्रुश् चैनं निकृन्तति
बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति । ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति
सिंहो ऽभिभवति व्याघ्रं शरभस् सिंहम् अत्ति च । शरभो नाशम् आयाति मत्तमेघविलङ्घने
मेघा वातैर् विधूयन्ते वायवो गिरिभिर् जिताः । गिरयो वज्रनिष्पिष्टाश् शक्रस्य वशगः पविः
विष्णुना ध्रियते शक्रो विष्णुर् गच्छति जन्तुताम् । सुखदुःखदशावेशजरामरणमालिताम्
जन्तवो ऽपि महाकाया अपि विद्यायुधान्विताः । लिक्षाभिर् अङ्गलग्नाभिर् उपजीव्यन्त एव हि
अजस्रम् एवम् आलूनविशीर्णं भूतजङ्गलम् । परस्परम् अलं मोहाद् भक्ष्यते रक्ष्यते ऽपि च
अनारतं विनश्यन्ति विविधा भूतजातयः । अनारतं च जायन्ते विचित्राः ककुभं प्रति
जलकोशेषु जायन्ते मत्स्येभमकरादयः । भूमाव् अन्तः प्रजायन्ते कीटौघा वृश्चिकादयः
अन्तरिक्षे ऽपि जायन्ते आकाशे विहगादयः । वनवीथीषु जायन्ते सिंहव्याघ्रमृगादयः
प्राण्यङ्गेष्व् अपि जायन्ते लिक्षायूकापिपीलकाः । स्थावरेषु च जायन्ते घुणाजगरजातयः
शिलान्तरेषु जायन्ते कीटभेकघुणादयः । विष्ठायाम् अपि जायन्ते नानाकीटगणास् तथा
एवम् अन्येष्व् असङ्ख्येषु जन्मस्व् अपचयेषु च । अजस्रं करुणावन्तो नन्दन्तूपरुदन्तु वा
अनारतमृताव् अस्मिन्न् अनारतसमुद्भवे । संसारसम्भ्रमे युक्ता न तुष्टिर् न च दुःखिता
पङ्क्तयस् त्व् एवम् एवेमा वृक्षपर्णगणैस् सह । उत्पत्योत्पत्य लीयन्ते भूतानां भूरिसम्भवाः
यः प्रवृत्तः कुबुद्धीनां दयावान् दुःखमार्जने । स हस्तच्छत्त्रनिर्मृष्टसूर्यांशुः खेदम् एत्य् अलम्
न तिर्यक्समधर्माण उपदेश्या नरा भुवि । कथाप्रकथनेनार्थः कस् स्थाणुविकटे वने
किं किलोत्फालमनसां पशूनां च विशेषणम् । कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः
स्वचित्तपङ्कमग्नानां स्वाशांशरचितात्मनाम् । मूर्खाणाम् आपदम् दृष्ट्वा प्ररुदन्त्य् उपला अपि
अनिर्जितात्मचित्तानाम् अनन्ता दुःखराशयः । तन्मार्जने कृतप्रज्ञो नातस् सम्प्रतिपद्यते
विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन । सुनिवार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम्
मनो नास्ति महाबाहो मा मुधैतत् प्रकल्पय । अनेन कल्पितेन त्वं वेतालेनेव हन्यसे
यावद् विस्मृतवान् आत्मतत्त्वं मूढो ऽभवद् भवान् । तावत् तव मनोव्यालो बभूवाभ्युदितस् ततः