विरामवासनापास्तसमस्तभववासनाः । मुहूर्तम् अमृताम्भोधिवीचीविलुलिता इव
ता गिरो रामभद्रस्य तस्य चित्रार्पितैर् इव । संश्रुताश् शृणुकैर् अन्तर् आनन्दपरिपीवरैः
वसिष्ठविश्वामित्राद्यैर् मुनिभिस् संसदि स्थितैः । जयन्तघृष्टिप्रमुखैर् मन्त्रिभिर् मन्त्रकोविदैः
नृपैर् दशरथप्रख्यैः पौरैः पारशवादिभिः । सामन्तै राजपुत्रैश् च ब्राह्मणैर् ब्रह्मवादिभिः
तथा भृत्यैर् अमात्यैश् च पञ्जरस्थैश् च पक्षिभिः । क्रीडामृगैर् गतस्पन्दैस् तुरङ्गैर् गतचर्वणैः
कौसल्याप्रमुखैश् चैव निजवातायनस्थितैः । संशान्तभूषणारावैर् अस्पन्दैर् वनितागणैः
उद्यानवल्लीनिलयैर् विटङ्कनिलयैर् अपि । अक्षुब्धपक्षततिभिर् विहगैर् विरतारवैः
सिद्धैर् नभश्चरैश् चैव तथा गन्धर्वकिन्नरैः । नारदव्यासपुलहप्रमुखैर् मुनिपुङ्गवैः
अन्यैश् च देवदेवेशविद्याधरमहोरगैः । रामस्य ता विचित्रार्था महोदारा गिरश् श्रुताः
अथ तूष्णीं स्थितवति रामे राजीवलोचने । तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता । वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह
मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी । मदिरामोदसौन्दर्यमुदितोन्मदमानवा
व्योमवातविनुन्नेव तारकाणां परम्परा । पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा
वृष्टिष्व् एकशरन्मेघलवावलिर् इव च्युता । हैय्यङ्गवीनपिण्डानाम् ईरितेव परम्परा
हिमवृष्टिर् इवोदारा मुक्ताहारचयोपमा । ऐन्दवी रश्मिमालेव क्षीरोर्मीणाम् इवाततिः
किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका । सीत्कारगायदामोदमधुरानिलदोलिता
प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा । प्रपतत्कुन्दवलया वलत्कुवलयालया
आपूरिताङ्गनारामगृहच्छादनचत्वरा । उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता
निरभ्रोत्पलसङ्काशव्योमवृष्टिर् अनाकुला । अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया
अदृष्टपूर्वा सिद्धौघकरोत्करसमीरिता । सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह
आपूरितसभालोके शान्ते कुसुमवर्षणे । इमान् सिद्धगणालापाञ् शुश्रुवुस् ते सभासदः
आकल्पं सिद्धसेनासु भ्रमद्भिर् अभितो दिवम् । अपूर्वम् अद्य त्व् अस्माभिश् श्रुतं श्रुतिरसायनम्
यद् अनेन किलोदारम् उक्तं रघुकुलेन्दुना । वीतरागतया तद् धि वाक्पतेर् अप्य् अगोचरम्
अहो वत महत् पुण्यम् अद्यास्माभिर् इदं श्रुतम् । वचो राममुखोद्भूतम् अमृताह्लादकं धियः
उपशमामृतसुन्दरम् आदराद् अधिगतोत्तमतापदम् एष यत् । कथितवान् उचितं रघुनन्दनस् सपदि तेन वयं प्रतिबोधिताः
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना । निर्णयं श्रोतुम् उचितं वक्ष्यमाणं महर्षिभिः
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः । आगच्छताश्व् अविघ्नेन सर्व एव महर्षयः
पतामः परितः पुण्याम् एतां दाशरथीं सभाम् । नीरन्ध्रकनकाम्भोजां नलिनीम् इव षट्पदाः
इत्य् उक्त्वा सा समस्तैव व्योमावासनिवासिनी । आपपात सभां तत्र दिव्या मुनिपरम्परा
अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा । पयःपीनघनश्यामव्यासमेचकितान्तरा