कश् शवं वा श्मशानस्थं समुपायकथां शठः । परिपृच्छति सन्देहे कश् च मूर्खं प्रशास्ति वै
येनाशयबिलस्थो हि मूको ऽन्धो ऽपि न निर्जितः । मनोव्यालस् स दुर्बुद्धिः कथं नामोपदिश्यते
जितम् एव मनो विद्धि वस्तुतो यन् न विद्यते । निकटात् सा चिरास्तैव या शिला नैव विद्यते
मनो न विजितं राम येनासद् अपि दुर्धिया । तेनाग्रस्तविषेणैव म्रियते विषमूर्छया
ज्ञः पश्यति सदैवात्मा स्पन्दन्ते ज्ञानशक्तयः । इन्द्रियाणि स्वधर्मेषु मनो नाम किम् उच्यते
प्राणानां स्पन्दिनी शक्तिर् ज्ञा शक्तिः परमात्मनः । इन्द्रियाणां निजा शक्तिर् एवं को ऽत्र निबध्यते
सर्वाश् च शक्तयस् तस्य सर्वशक्तेः किलात्मनः । पृथक्ता चान्यता चेयं कुतो नामेतरोत्थिता
किं नाम जीव इत्य् उक्तं येनेहान्धीकृतं जगत् । चित्तं चैवासद् एव त्वं विद्धि कास्त्य् अस्य शक्तता
मनोनिर्दग्धदृष्टीनां दृष्ट्वा दुःखपरम्पराः । मतिर् मे करुणाक्रान्ता राम मुग्धेव तप्यते
कः किलात्र कुतः खेदो यन् मूर्खः परितप्यते । दुःखायैव हि जायन्ते करभाः प्राकृतास् तथा
विनाशायैव जायन्ते जडदेहेष्व् अबुद्धयः । अनारतोदयापाया बुद्बुदा जलधिष्व् इव
कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् । सूनावद्भिर् निहन्यन्ते केवात्र परिदेवना
अर्बुदान्य् अनिलो हन्ति क्षुपाजालेषु चान्वहम् । दंशानां मषकानां च केवात्र परिदेवना
दिशं प्रति गिरीन्द्रेषु पुलिन्दौघा वने वने । निघ्नन्ति प्राणिलक्षाणि केवात्र परिदेवना
जले जलचरव्यूहात् तनुं स्थूलो निकृन्तति । ग्रासाय प्रत्यहं मत्स्यः केवात्र परिदेवना
गृध्रश्येनादयो व्योम्नि पक्षिपूगं विहङ्गमाः । अनारतं विलुम्पन्ति केवात्र परिदेवना
लिक्षाम् अणुकणक्षामां क्षुधा खादति मक्षिका । तां कोशकारः क्षुधितो दंशस् तम् अपि चञ्चलः
तं दंशं दर्दुरो भुङ्क्ते व्यालस् तम् अपि दर्दुरम् । सर्पम् उग्रखरो हन्ति बभ्रुश् चैनं निकृन्तति
बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति । ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति
सिंहो ऽभिभवति व्याघ्रं शरभस् सिंहम् अत्ति च । शरभो नाशम् आयाति मत्तमेघविलङ्घने
मेघा वातैर् विधूयन्ते वायवो गिरिभिर् जिताः । गिरयो वज्रनिष्पिष्टाश् शक्रस्य वशगः पविः
विष्णुना ध्रियते शक्रो विष्णुर् गच्छति जन्तुताम् । सुखदुःखदशावेशजरामरणमालिताम्
जन्तवो ऽपि महाकाया अपि विद्यायुधान्विताः । लिक्षाभिर् अङ्गलग्नाभिर् उपजीव्यन्त एव हि
अजस्रम् एवम् आलूनविशीर्णं भूतजङ्गलम् । परस्परम् अलं मोहाद् भक्ष्यते रक्ष्यते ऽपि च
अनारतं विनश्यन्ति विविधा भूतजातयः । अनारतं च जायन्ते विचित्राः ककुभं प्रति
जलकोशेषु जायन्ते मत्स्येभमकरादयः । भूमाव् अन्तः प्रजायन्ते कीटौघा वृश्चिकादयः
अन्तरिक्षे ऽपि जायन्ते आकाशे विहगादयः । वनवीथीषु जायन्ते सिंहव्याघ्रमृगादयः
प्राण्यङ्गेष्व् अपि जायन्ते लिक्षायूकापिपीलकाः । स्थावरेषु च जायन्ते घुणाजगरजातयः
शिलान्तरेषु जायन्ते कीटभेकघुणादयः । विष्ठायाम् अपि जायन्ते नानाकीटगणास् तथा
एवम् अन्येष्व् असङ्ख्येषु जन्मस्व् अपचयेषु च । अजस्रं करुणावन्तो नन्दन्तूपरुदन्तु वा