सर्वगत्वाच् चिद् अन्येन केन सम्बध्यते किल । अखण्डशक्तेर् इन्द्रस्य केन स्यात् सह सङ्गरः
अतस् सम्बन्धिनो ऽभावात् सम्बन्धो ऽत्र न विद्यते । सम्बन्धेन विना कस्य सिद्धं तत् कीदृशं मनः
चित्स्पन्दयोर् एकतायां किं नाम मन उच्यते । का सेना हयमातङ्गसङ्घसङ्घट्टनं विना
तस्मान् नास्त्य् एव दुष्टात्म चित्तं नाम जगत्त्रये । एषा सम्यक्परिज्ञानाच् चेतसो जायते क्षतिः
मा मुधैवम् अनर्थाय मनस् सङ्कल्पयानघ । मनो मिथ्या समुदितं नास्त्य् एव परमार्थतः
मा त्वम् अन्तः क्वचित् किञ्चित् सङ्कल्पय महामते । मनस् सङ्कल्पकं नाम यस्मान् नास्तीह कुत्रचित्
असम्यग्ज्ञानसम्भूता कलनामृगतृष्णिका । हृन्मरौ तव संशान्ता सम्यगालोकनान् मुने
जडत्वान् निस्स्वरूपत्वात् सर्वदैव मृतं मनः । मृतेन मार्यते लोकश् चित्रेयं मौर्ख्यचक्रिका
यस्य नात्मा न देहो ऽस्ति नाधारो नापि चाकरः । तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा
सर्वसामग्र्यहीनेन हन्यते मनसापि यः । तस्योत्पलदलाघातैर् मन्ये दलति मस्तकम्
जडेन मूकेनान्धेन निहतो मनसापि यः । मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः
विद्यमानो हि यश् शूरो लोकस् तेनाभिभूयते । अविद्यमानम् एवेदं हन्त्य् अतो मुग्धतोदिता
मिथ्यासङ्कल्पकलितं मिथ्यैव स्थितिम् आगतम् । अन्विष्टम् अपि नो दृष्टं का तस्य किल शक्तता
अहो नु खलु चित्रेयं मायामयविधायिनी । चेतसाप्य् अतिलोलेन लोको यद् अभिभूयते
मौर्ख्यं सर्वापदां निष्ठा का हि नापद् अजानतः । पश्य मौर्ख्याद् इयं सृष्टिर् अजातेनैव जन्यते
हा कष्टम् अतिमुग्धेयं सृष्टिर् मौर्ख्यवशं गता । असतैव यद् एतेन जीवेनाप्य् उपताप्यते
मन्ये मूर्खमयी सृष्टिर् इयम् अत्यन्तपेलवा । तरङ्गासिप्रहारेण कणशः परिशीर्यते
नीलाब्जनालपातेन यन्त्रेणेव विदीर्यते । इन्दोर् आभोगपूर्णस्य करस्पर्शेन मुह्यते
रिपुभिर् नयनोन्मुक्तैर् दृष्टिसूत्रैर् निबध्यते । सङ्कल्पकृतया शूरसेनया परिभूयते
यस्मात् किलेयं मनसा न स्थितेनैव कुत्रचित् । कल्पितेन मुधान्येन कृपणेन विहन्यते
मूर्खलोकमयी सृष्टिर् मन एवासदुत्थितम् । या शक्ता न वशीकर्तुं न सा रामोपदिश्यते
अभिजातस्वरूपैषा प्रज्ञाक्षोदेषु न क्षमा । नोपदेशगिरां योग्या परिपूर्णेव संस्थिता
बिभेत्य् एषा हि वीणायास् तन्त्रीगुणतनुध्वनेः । बन्धोर् अपि सनिद्रस्य बिभेति वदनद्युतेः
हसतो ऽपि जनाद् उच्चैर्भीतभीता पलायते । स्वेनैव मनसाप्य् अज्ञा किलैषा विवशीकृता
सुखलवविवशा द्विषेव तप्ता हृदयगतेन निजेन चेतसैव । विधुरितधिषणा न वेत्ति सत्यं तद् अवितथं परिमोहिता मुधैव
संसारसागरासारकल्लोलेषूह्यमानया । मन एव न मूकं स्वं यया जनतया जितम्
आत्मलाभमयोदारफलाभिर् इह सा मया । विचारोक्तिभिर् एताभिश् शास्त्रे ऽस्मिन् नोपदिश्यते
न पश्यत्य् एव यो ह्य् अन्धस् तस्य कः खलु दुर्मतिः । विचित्रमञ्जरीचित्रं सन्दर्शयति काननम्
कः कुष्ठघर्घरघ्राणं नानामोदविचारणे । मूर्खम् आत्मोपदेशे च प्रमाणं कुरुते ऽमतिः
विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् । धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्य् अधीः