अयं सो ऽहम् इदं तन् मे इति या कलना स्थिता । प्राणात्मतत्त्वयोस् तस्यास् सञ्ज्ञा जीवेति कथ्यते
धीश् चित्तं जीव इत्य् एतास् सङ्कल्पस्यासतस् सतः । सञ्ज्ञास् सङ्कल्पितास् तज्ज्ञैर् न राम परमार्थतः
न मनो नो मतिर् नापि जीवो न च शरीरकम् । अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा
आत्मैवेदं जगत् सर्वम् आत्मा कालक्रमस् तथा । सदाकाशाद् अच्छतरो नास्तीवास्त्य् एव वामलः
अच्छत्वाद् असदाभासस् संविद्रूपतया तु सत् । आत्मा सर्वपदातीतस् स्वानुभूत्यानुभूयते
मनस् तत्र परिक्षीणं यत्र संवित् परात्मनः । अन्धकारक्षयो यत्र तत्रालोकः प्रवर्तते
यत्रात्मसंविदो ऽच्छायास् सङ्कल्पोन्मुखता मनाक् । तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः
परस्य पुंसस् सङ्कल्पमयत्वं चित्तम् उच्यते । अचित्तत्वम् असङ्कल्पान् मोक्षनामाभिजायते
एतावच् चेतसो जन्म बीजं संसारभूरुहः । सङ्कल्पोन्मुखतास्यान्तस् संविदो यत् किलात्मनः
निर्विकल्पचितस् सत्ता सङ्कल्पाङ्ककलङ्किता । कलनेत्य् उच्यते नेह घटवद् विद्यते मनः
प्राणशक्तौ निरुद्धायां मनो नाम विलीयते । द्रव्यस्थायां तु तद् द्रव्यं प्राणरूपं हि मानसम्
देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् । स्पन्दवेदनतो यत् तन् मन इत्य् अभिधीयते
वैराग्यात् करणाभ्यासाद् युक्तितो वासनाक्षयात् । परमार्थावबोधाच् च रोध्यन्ते प्राणशक्तयः
दृषदो विद्यते शक्तिः कदाचित् स्वादने ऽन्धसाम् । न पुनर् मनसाम् अस्ति शक्तिस् स्पन्दावबोधने
स्पन्दः प्राणमरुच्छक्तिश् चलरूपैव सा जडा । चिच् चितस् स्वात्मनस् स्वस्था सर्वदा सर्वगैव सा
चिच्छक्तेस् स्पन्दशक्तेश् च सम्बन्धः कल्प्यते मनः । मिथ्यैव तत् समुत्पन्नं मिथ्याज्ञानं तद् उच्यते
एषा ह्य् अविद्या कथिता मायैषा सा निगद्यते । परम् एतत् तद् अज्ञानं संसाराधिविषप्रदम्
चिच्छक्तेस् स्पन्दशक्तेश् च सङ्गे सङ्कल्पकल्पनम् । न कृतं चेत् परिक्षीणास् तद् इमा भवभीतयः
वायुतस् स्पन्दशक्तिर् या सा चिता चेत्यते यदा । सचेत्यचित् तदैवान्तस् सङ्कल्पाद् याति चित्तताम्
चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् । अखण्डमण्डलाकारा स्पन्दसत्ता चिद् एव यत्
सर्वगत्वाच् चिद् अन्येन केन सम्बध्यते किल । अखण्डशक्तेर् इन्द्रस्य केन स्यात् सह सङ्गरः
अतस् सम्बन्धिनो ऽभावात् सम्बन्धो ऽत्र न विद्यते । सम्बन्धेन विना कस्य सिद्धं तत् कीदृशं मनः
चित्स्पन्दयोर् एकतायां किं नाम मन उच्यते । का सेना हयमातङ्गसङ्घसङ्घट्टनं विना
तस्मान् नास्त्य् एव दुष्टात्म चित्तं नाम जगत्त्रये । एषा सम्यक्परिज्ञानाच् चेतसो जायते क्षतिः
मा मुधैवम् अनर्थाय मनस् सङ्कल्पयानघ । मनो मिथ्या समुदितं नास्त्य् एव परमार्थतः
मा त्वम् अन्तः क्वचित् किञ्चित् सङ्कल्पय महामते । मनस् सङ्कल्पकं नाम यस्मान् नास्तीह कुत्रचित्
असम्यग्ज्ञानसम्भूता कलनामृगतृष्णिका । हृन्मरौ तव संशान्ता सम्यगालोकनान् मुने
जडत्वान् निस्स्वरूपत्वात् सर्वदैव मृतं मनः । मृतेन मार्यते लोकश् चित्रेयं मौर्ख्यचक्रिका
यस्य नात्मा न देहो ऽस्ति नाधारो नापि चाकरः । तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा
सर्वसामग्र्यहीनेन हन्यते मनसापि यः । तस्योत्पलदलाघातैर् मन्ये दलति मस्तकम्