चेत्येन रहिता यैषा चित् तद् ब्रह्म सनातनम् । चेत्येन सहिता यैषा चित् सेयं कलनोच्यते
किञ्चिदस्पष्टरूपं यद् ब्रह्म तत् संस्थितं मनः । कलनाम् असद् एवैत्य सद् इवोपस्थितं हृदि
चित्तम् इत्य् एव रूढेह यदैव कलना चितः । तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता
सम्पन्ना कलनानाम्नी सङ्कल्पानुविधायिनी । व्यवच्छेदवती जाता हेयोपादेयधर्मिणी
सैषा चिद् एव जडताम् आगतेव स्वशक्तितः । न सम्प्रबोधिता यावद् रूपं तावन् न बुध्यते
अतश् शास्त्रविचारेण वैराग्येण परेण च । निग्रहेणेन्द्रियाणां च बोधयेत् कलनां स्वयम्
कलना सर्वजन्तूनां विज्ञानेन शमेन च । प्रबुद्धा ब्रह्मताम् एति भ्रमतीतरथा जगत्
व्यामोहमदिरामत्तां लुठितां विषयावटे । आत्मावबोधे संसुप्तां कलनाम् अवबोधयेत्
अप्रबुद्धा जडा ह्य् एषा न किञ्चिद् अवबुध्यते । सङ्कल्पललनेवान्तर् दृश्यमानाप्य् असन्मयी
तया परमया दृष्ट्या कलनैषान्तरस्थया । मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते
न तु सङ्कल्पिता यैषा कलनेति जगत्त्रये । सा हि किञ्चिद् विजानाति नित्यजाड्यैकधर्मिणी
चेतति क्व जडा नाम कलनोपलरूपिणी । पद्मिनीवातपेनासौ परेणैवावबोध्यते
यथा शिलामयी कन्या चोदितापि न नृत्यति । तथेयं कलना देहे न किञ्चिद् अवबुध्यते
लिपिकर्मनृपैर् युद्धं क्व कृतं घर्घरारवम् । क्व चित्रचन्द्रकिरणैर् ओषध्यः प्रविबोधिताः
अभूताविष्टगात्रैर् वा शवैः क्व परिवल्गितम् । क्व गीतं मधुरध्वानं वनपाषाणमण्डलैः
क्व पुस्तविहितैर् अर्कैः क्षपितं यामिनीतमः । क्व सङ्कल्पमयैश् छायाः क्रियन्ते व्योमकाननैः
क्व जडैर् उपलाकारैर् मिथ्याभ्रमभरोत्थितैः । मृगतृष्णामयैर् एभिर् मनोभिः क्रियते क्रिया
यथातपे स्थिते स्फारे मृगतृष्णातरङ्गिणी । कलना तद्वद् एवेयं स्फुरत्य् आत्मनि सत्य् अलम्
यद् एतत् स्पन्दनं राम मनसो ऽधिगतं शनैः । मरुतां विद्धि तां शक्तिम् अन्तःप्राणशरीरिणाम्
यैषा संविद् अनाक्रान्ता सङ्कल्पलवनिश्चयैः । अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी
अयं सो ऽहम् इदं तन् मे इति या कलना स्थिता । प्राणात्मतत्त्वयोस् तस्यास् सञ्ज्ञा जीवेति कथ्यते
धीश् चित्तं जीव इत्य् एतास् सङ्कल्पस्यासतस् सतः । सञ्ज्ञास् सङ्कल्पितास् तज्ज्ञैर् न राम परमार्थतः
न मनो नो मतिर् नापि जीवो न च शरीरकम् । अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा
आत्मैवेदं जगत् सर्वम् आत्मा कालक्रमस् तथा । सदाकाशाद् अच्छतरो नास्तीवास्त्य् एव वामलः
अच्छत्वाद् असदाभासस् संविद्रूपतया तु सत् । आत्मा सर्वपदातीतस् स्वानुभूत्यानुभूयते
मनस् तत्र परिक्षीणं यत्र संवित् परात्मनः । अन्धकारक्षयो यत्र तत्रालोकः प्रवर्तते
यत्रात्मसंविदो ऽच्छायास् सङ्कल्पोन्मुखता मनाक् । तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः
परस्य पुंसस् सङ्कल्पमयत्वं चित्तम् उच्यते । अचित्तत्वम् असङ्कल्पान् मोक्षनामाभिजायते
एतावच् चेतसो जन्म बीजं संसारभूरुहः । सङ्कल्पोन्मुखतास्यान्तस् संविदो यत् किलात्मनः
निर्विकल्पचितस् सत्ता सङ्कल्पाङ्ककलङ्किता । कलनेत्य् उच्यते नेह घटवद् विद्यते मनः