गृहीततृष्णाशफरि वासनाजालम् आबिलम् । संसारवारि प्रसृतं चिन्तातन्तुभिर् आततम्
अनया तीक्ष्णया तात च्छिन्द्धि बुद्धिशलाकया । वात्ययेवाम्बुदं कालो वहन्त्या वितते पदे
अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् । धुर्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया
मनसैव मनश् छित्त्वा विस्मृत्य चरमं मनः । वर्तमानम् अपि च्छित्त्वा च्छिन्नसंसारतां व्रज
मोहो विस्मृत्य संसारं न भूयः परिरोहति
तिष्ठन् गच्छञ् श्वसन् राम निवसन्न् उत्पतन् पतन् । असद् एवेदम् इत्य् अन्तर् निश्चित्यास्थां परित्यज
समताम् अलम् आश्रित्य सम्प्राप्तं कार्यम् आहरन् । अचिन्तयंस् तथाप्राप्तं विहरेह हि राघव
यथा सर्वर्तुलिङ्गानि न बिभर्ति बिभर्ति च । खम् एवम् इह कार्याणि कुरु मा कुरु वानघ
त्वम् एव वेत्ता त्वम् अजस् त्वम् आत्मा त्वं महेश्वरः । आत्मनो ऽव्यतिरिक्तं सत् त्वयेदम् आततं ततम्
येनास्माद् दृश्यसम्भाराद् अभितो भावनोज्झिता । स न सङ्गृह्यते दोषैर् हर्षामर्षविषादजैः
रागद्वेषविनिर्मुक्तस् समलोष्टाश्मकाञ्चनः । मुक्त इत्य् उच्यते योगी त्यक्तसंसारवासनः
स यत् करोति यद् भुङ्क्ते यद् ददाति निहन्ति यत् । तत्र मुक्तधियस् तस्य समता सुखदुःखयोः
प्राप्तं कर्तव्यम् एवेति त्यक्त्वेष्टानिष्टभावनम् । प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित्
चित्सत्तामात्रम् एवेदम् इति निश्चयवन् मनः । त्यक्तभोगाभिमननं शमम् एति महामते
मनः प्रकृत्यैव जडं चित्तत्त्वम् अनुधावति । मांसगर्धेन मार्जारो वने मृगपतिं यथा
सिंहवीर्यवशाल् लब्धं मांसं भुङ्क्ते हि जम्बुकः । चिद्वीर्यवशतः प्राप्तं दृश्यम् आश्रयते मनः
मन एवम् असत्कल्पं चित्प्रसादेन जीवति । भावयंश् चितम् एवैकां चित्ताम् एत्य चिद् अप्य् अतः
जडं यत् किल निर्हीनं चिता दीपिकयोज्झितम् । तन् मनश् शवसङ्काशम् अचिद् उत्तिष्ठते कथम्
चित्स्वभावपरामृष्टा स्पन्दशक्तिर् मरुन्मयी । कलना चित्तम् इत्य् उक्त्या कथ्यते शास्त्रदर्शिभिः
यश् चितः क्षुब्ध आकारस् सैवेयं कलनोच्यते । चिद् एवाहम् इति ज्ञात्वा सा चित्ताम् एव गच्छति
चेत्येन रहिता यैषा चित् तद् ब्रह्म सनातनम् । चेत्येन सहिता यैषा चित् सेयं कलनोच्यते
किञ्चिदस्पष्टरूपं यद् ब्रह्म तत् संस्थितं मनः । कलनाम् असद् एवैत्य सद् इवोपस्थितं हृदि
चित्तम् इत्य् एव रूढेह यदैव कलना चितः । तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता
सम्पन्ना कलनानाम्नी सङ्कल्पानुविधायिनी । व्यवच्छेदवती जाता हेयोपादेयधर्मिणी
सैषा चिद् एव जडताम् आगतेव स्वशक्तितः । न सम्प्रबोधिता यावद् रूपं तावन् न बुध्यते
अतश् शास्त्रविचारेण वैराग्येण परेण च । निग्रहेणेन्द्रियाणां च बोधयेत् कलनां स्वयम्
कलना सर्वजन्तूनां विज्ञानेन शमेन च । प्रबुद्धा ब्रह्मताम् एति भ्रमतीतरथा जगत्
व्यामोहमदिरामत्तां लुठितां विषयावटे । आत्मावबोधे संसुप्तां कलनाम् अवबोधयेत्
अप्रबुद्धा जडा ह्य् एषा न किञ्चिद् अवबुध्यते । सङ्कल्पललनेवान्तर् दृश्यमानाप्य् असन्मयी
तया परमया दृष्ट्या कलनैषान्तरस्थया । मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते