इत्य् उक्ते मुनिनाथेन सन्देहवति पार्थिवे । खेदवत्य् आस्थिते मौनं कञ्चित् कालं प्रतीक्षिणि
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः
एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः । महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम्
तस्य यज्ञो ऽथ रक्षोभिस् तदा विलुलुपे किल । मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः
रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् । न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम्
ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः । विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम्
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह । शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनस् सुतम्
तस्य तद् वचनं श्रुत्वा द्वास्स्था राजगृहं ययुः । सम्भ्रान्तमनसस् सर्वे तेन वाक्येन चोदिताः
ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः । प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा
अथास्थानगतं भूपं राजमण्डलमालितम् । समुपेत्य त्वरायुक्तो याष्टीको ऽसौ व्यजिज्ञपत्
देव द्वारि महातेजा बालभास्करभास्वरः । ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः
सचामरपताकाढ्यं साश्वेभपुरुषायुधम् । कृतवांस् तं प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम्
वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि । विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा
इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात्
पदातिर् एव महतां राज्ञां वृन्देन पालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः
जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम्
केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा
जराजरढया नित्यं तपःप्रसररूक्षया । जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम्
उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम्
अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् । धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम्
करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः । ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः
सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् । आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः
मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम्
मुनिर् अप्य् अवनेर् ईशं भास्वान् इव शतक्रतुम् । तत्राभिवादयां चक्रे मधुरोदारया गिरा
ततो वसिष्ठप्रमुखास् सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयाम् आसुर् आदृताः
अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीतास् स्मो रविणेवाम्बुजाकराः
यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् । तद् आनन्दसुखं प्राप्ता अद्य त्वद्दर्शनान् मुने
अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः । भवदागमनस्येमे यद् वयं लक्ष्यतां गताः
एवं प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः । आसनेषु सभास्थानम् आस्थाय समुपाविशन्