दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः । यो ऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः
अहम् बद्धो विमुक्तस् स्याम् इति यस्यास्ति निश्चयः । नात्यन्ततज्ज्ञो नातज्ज्ञस् सो ऽस्मिञ् शास्त्रे ऽधिकारवान्
कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयो ऽभिजायते
अस्मिन् रामायणे नाम कथोपायान् महाफलान् । एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन
शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् इवार्थिने
तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन् मेरुगहने ब्रह्मणो ऽग्र उदाहृताः
अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति समुवाच महाशयः
भगवन् भूतभव्येश वरो ऽयं मे ऽद्य रोचते । येनेयं जनता दुःखान् मुच्यते तद् उदाहर
गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत् समारब्धं रामायणम् अनिन्दितम्
तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति । सेतुनेवाम्बुधेः पारम् अपारगुणशालिना
इत्य् उक्त्वा स भरद्वाजं परमेष्ठी ममाश्रमम् । अभ्यागमत् समं तेन भरद्वाजेन भूतकृत्
तूर्णं सम्पूजितो देवस् सो ऽर्घ्यपाद्यादिना मया । अवोचन् मां महासत्त्वस् सर्वभूतहिते रतः
रामस्वभावकथनाद् अस्माद् वरमुने त्वया । नोद्योगस् सम्परित्याज्य आ समाप्तेर् अनिन्दितात्
ज्ञातेनानेन लोको ऽयम् अस्मात् संसारसङ्कटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात्
वक्तुं तवैतम् एवार्थम् अहम् आगतवान् अयम् । कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः
मम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः । मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः
तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः । पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया
किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे । इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मे ऽनघ
एतद् उक्तम् भगवता यथा रामायणं कुरु । सर्वलोकहितायाशु संसारार्णवपोतकम्
मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे । रामो व्यवहृतो ऽप्य् अस्मिन् भरतश् च महामनाः
शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी । रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः
निर्दुःखतां कथं ते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् । तथैवाहं तरिष्यामि ततो जनतया सह
भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् । तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुं प्रवृत्तवान्
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन सम्मोहम् अलं दूरीकरिष्यसि
तथा व्यवहर प्राज्ञ यथा व्यवहृतस् सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः
लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस् तथा
कृतास्थश् चाविरोधश् च बोधपारम् उपागतः । वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे
घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च । विभीषणस् सुषेणश् च हनुमान् इन्द्रजित् तथा
एते ऽष्टाविंशतिः प्रोक्तास् समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः
एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् । तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात्