स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम्
येनावृतं नित्यम् इदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः तेनेशितं कर्म विवर्तते ह पृथिव्याप्तेजोऽनिलखानि चिन्त्यम्
तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम् एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्मगुणैश् च सूक्ष्मैः
आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः तेषाम् अभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतो ऽन्यः
आदिः स संयोगनिमित्तहेतुः परस् त्रिकालाद् अकलो ऽपि दृष्टः तं विश्वरूपं भवभूतम् ईड्यं देवं स्वचित्तस्थम् उपास्य पूर्वम्
स वृक्षकालाकृतिभिः परो ऽन्यो यस्मात् प्रपञ्चः परिवर्तते ऽयं धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थम् अमृतं विश्वधाम
तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम्
न तस्य कार्यं करणं च विद्यते न तत्समश् चाभ्यधिकश् च दृश्यते परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च
न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गं स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः
यस् तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः देव एकः स्वम् आवृणोति स नो दधाद् ब्रह्माप्ययम्
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश् च
एको वशी निष्क्रियाणां बहूणाम् एकं बीजं बहुधा यः करोति तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषां
नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् तत् कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति
एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय
स विश्वकृद् विश्वविद् आत्मयोनिर् ज्ञः कालकालो गुणी सर्वविद्यः प्रधानक्षेत्रज्ञपतिर् गुणेशः संसारमोक्षस्थितिबन्धहेतुः
स तन्मयो ह्य् अमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता स ईशे अस्य जगतो नित्यम् एव नान्यो हेतुर् विद्यत ईशनाय
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै तं ह देवम् आत्मबुद्धिप्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् अमृतस्य परं सेतुं दग्धेन्धनम् इवानलम्
यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति
तपःप्रभावाद् देवप्रसादात् ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान् अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यग् ऋषिसङ्घजुष्टम्
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मनः