एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति
यदातमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः तद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी
नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः
न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनं हृदा हृदिस्थं मनसा य एनम् एवं विदुर् अमृतास् ते भवन्ति
अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते रुद्र यत् दक्षिणं मुखम् तेन मां पाहि नित्यम्
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे
द्वे अक्षरे ब्रह्मपरे त्व् अनन्ते विद्याविद्ये निहिते यत्र गूढे क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या विद्याविद्ये ईशते यस् तु सो ऽन्यः
यो योनिं योनिम् अधितिष्ठत्य् एको विश्वानि रूपाणि योनीश् च सर्वाः ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति जायमानं च पश्येत्
एकैकं जालं बहुधा विकुर्वन्न् अस्मिन् क्षेत्रे संहरत्य् एष देवः भूयः सृष्ट्वा पतयस् तथेशः सर्वाधिपत्यं कुरुते महात्मा
सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद् वानड्वान् एवं स देवो भगवान् वरेण्यो योनिस्वभावान् अधितिष्ठत्य् एकः
यच् च स्वभावं पचति विश्वयोनिः पाच्यांश् च सर्वान् परिणामयेद् यः सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको गुणांश् च सर्वान् विनियोजयेद् यः
तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्मयोनिं ये पूर्वं देवा ऋषयश् च तद् विदुस् ते तन्मया अमृता वै बभूवुः
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता स विश्वरूपस् त्रिगुणस् त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः
अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः बुद्धेर् गुणेनात्मगुणेन चैव आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः
वालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते
नैव स्त्री न पुमान् एष न चैवायं नपुंसकः यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते
संकल्पनस्पर्शनदृष्टिमोहैर् ग्रासाम्बुवृष्ट्या चात्मविवृद्धिजन्म कर्मानुगान्य् अनुक्रमेन देही स्थानेषु रूपाण्य् अभिसंप्रपद्यते
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर् वृणोति क्रियागुणैर् आत्मगुणैश् च तेषां संयोगहेतुर् अपरो ऽपि दृष्टः
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपं विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः
भावग्राह्यम् अनीडाख्यं भावाभावकरं शिवं कलासर्गकरं देवं ये विदुस् ते जहुस् तनुम्
स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम्
येनावृतं नित्यम् इदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः तेनेशितं कर्म विवर्तते ह पृथिव्याप्तेजोऽनिलखानि चिन्त्यम्
तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम् एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्मगुणैश् च सूक्ष्मैः
आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः तेषाम् अभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतो ऽन्यः
आदिः स संयोगनिमित्तहेतुः परस् त्रिकालाद् अकलो ऽपि दृष्टः तं विश्वरूपं भवभूतम् ईड्यं देवं स्वचित्तस्थम् उपास्य पूर्वम्
स वृक्षकालाकृतिभिः परो ऽन्यो यस्मात् प्रपञ्चः परिवर्तते ऽयं धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थम् अमृतं विश्वधाम
तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम्
न तस्य कार्यं करणं च विद्यते न तत्समश् चाभ्यधिकश् च दृश्यते परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च
न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गं स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः
यस् तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः देव एकः स्वम् आवृणोति स नो दधाद् ब्रह्माप्ययम्