वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय
यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति किंचित् वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम्
ततो यद् उत्तरतरं यद् अरूपम् अनामयम् य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापियन्ति
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः सर्वव्यापी स भगवांस् तस्मात् सर्वगतः शिवः
महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः
अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो वृत्वा अत्यतिष्ठद् दशाङ्गुलम्
पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्वस्येशानो यद् अन्नेनातिरोहति
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखं सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत्
नवद्वारे पुरे देही हंसो लेलायते बहिः वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च
अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम्
अणोर् अणीयान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः तम् अक्रतुं पश्यति वीतशोको धातुप्रसादान् महिमानम् ईशम्
वेदाहम् एतम् अजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम्
य एको ऽवर्णो बहुधा शक्तियोगाद् वर्णान् अनेकान् निहितार्थो दधाति वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः तद् एव शुक्रं तद् ब्रह्म तद् आपस् तत् प्रजापतिः
त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः
नीलः पतङ्गो हरितो लोहिताक्षस् तडिद्गर्भ ऋतवः समुद्राः अनादिमांस् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा
अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति
समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति मुह्यमानः जुष्टं यदा पश्यत्य् अन्यम् ईशं अस्य महिमानम् इति वीतशोकः
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेधुः यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे समासते
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच् च वेदा वदन्ति अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः
मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं तस्यावयवभूतैस् तु व्याप्तं सर्वं इदं जगत्
यो योनिं-योनिम् अधितिष्ठत्य् एको यस्मिन्न् इदं सं च वि चैति सर्वम् तम् ईशानं वरदं देवम् ईड्यं निचाय्येमां शान्तिम् अत्यन्तम् एति
यो देवानां प्रभवश् चोद्भवश् च विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु
यो देवानाम् अधिपो यस्मिंल् लोका अधिश्रिताः य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपं विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च तम् एवं ज्ञात्वा मृत्युपाशांश् छिनत्ति
घृतात् परं मण्डम् इवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः