ज्ञात्वा देवं सर्वपाशापहानिः क्षीनैः क्लेशैर् जन्ममृत्युप्रहाणिः तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः
एतज् ज्ञेयं नित्यम् एवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत्
वह्नेर् यथा योनिगतस्य मूर्तिर् न दृश्यते नैव च लिङ्गनाशः स भूय एवेन्धनयोनिगृह्यस् तद्वोभयं वै प्रणवेन देहे
स्वदेहम् अरणिं कृत्वा प्रणवं चोत्तरारणिं ध्याननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवत्
तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः एवम् आत्मा आत्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति
सर्वव्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम् आत्मविद्यातपोमूलं तद् ब्रह्मोपनिषत्परं तद् ब्रह्मोपनिषत्परम्
युञ्जानः प्रथमं मनस् तत्वाय सविता धियः अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत्
युक्तेन मनसा वयं देवस्य सवितुः सवे सुवर्गेयाय शक्त्या %
युक्त्वाय मनसा देवान् सुवर् यतो धिया दिवं बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान्
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिवियानि तस्थुः
अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते सोमो यत्रातिरिच्यते तत्र संजायते मनः
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् तत्र योनिं कृणवसे नहि ते पूर्तम् अक्षिपत्
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि
प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीने प्राणे नासिकयोच्छ्वसीत दुष्टाश्वयुक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्
नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकाशशीनाम् एतानि रूपाणि पुरःसराणि ब्रह्मण्य् अभिव्यक्तिकराणि योगे
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्
लघुत्वम् आरोग्यम् अलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च गन्धः शुभो मूत्रपुरीषम् अल्पं योगप्रवृत्तिं प्रथमां वदन्ति
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत् सुधान्तम् तद् वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः
यद् आत्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् अजं ध्रुवं सर्वतत्त्वैर् विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः
एष ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः स एव जातः स जनिष्यमानः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः
यो देवो अग्नौ यो अप्सु यो विश्वं भुवनम् आविवेश य ओषधीषु यो वनस्पतीषु तस्मै देवाय नमो नमः
य एको जालवान् ईशत ईशनीभिः सर्वांल् लोकान् ईशत ईशनीभिः य एवैक उद्भवे संभवे च य एतद् विदुर् अमृतास् ते भवन्ति
एको हि रुद्रो न द्वितीयाय तस्थे य इमांल् लोकान् ईशत ईशनीभिः प्रत्यङ् जनास् तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव एकः
यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी तया नस् तनुवा शंतमया गिरिशन्ताभिचाकशीहि
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत्
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वामृता भवन्ति