श्वेताश्वतरोपनिषद्
किंकारणं ब्रह्म कुतः स्म जाता जीवामः केन क्व च संप्रतिष्ठाः अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम्
कालः स्वभावो नियतिर् यदृच्छा भूतानि योनिः पुरुषेति चिन्त्यम् संयोग एषां न त्व् आत्मभावाद् आत्मा ह्य् अनीशः सुखदुःखहेतोः
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर् निगूढाम् यः कारणानि निखिलानि तानि कालात्मयुक्तान्य् अधितिष्ठत्य् एकः
तम् एकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः अष्टकैः षड्भिर् विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्
पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलां पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वाम् अधीमः
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति
उद्गीतम् एतत् परमं तु ब्रह्म तस्मिंस् त्रयं स्वप्रतिष्ठाक्षरं च अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः
संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः अनीशश् चात्मा बध्यते भोक्तृभावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः
ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृभोगार्थयुक्ता अनन्तश् चात्मा विश्वरूपो ह्य् अकर्ता त्रयं यदा विन्दते ब्रह्मम् एतत्
क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश् चान्ते विश्वमायानिवृत्तिः
ज्ञात्वा देवं सर्वपाशापहानिः क्षीनैः क्लेशैर् जन्ममृत्युप्रहाणिः तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः
एतज् ज्ञेयं नित्यम् एवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत्
वह्नेर् यथा योनिगतस्य मूर्तिर् न दृश्यते नैव च लिङ्गनाशः स भूय एवेन्धनयोनिगृह्यस् तद्वोभयं वै प्रणवेन देहे
स्वदेहम् अरणिं कृत्वा प्रणवं चोत्तरारणिं ध्याननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवत्
तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः एवम् आत्मा आत्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति
सर्वव्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम् आत्मविद्यातपोमूलं तद् ब्रह्मोपनिषत्परं तद् ब्रह्मोपनिषत्परम्
युञ्जानः प्रथमं मनस् तत्वाय सविता धियः अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत्
युक्तेन मनसा वयं देवस्य सवितुः सवे सुवर्गेयाय शक्त्या %
युक्त्वाय मनसा देवान् सुवर् यतो धिया दिवं बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान्
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिवियानि तस्थुः
अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते सोमो यत्रातिरिच्यते तत्र संजायते मनः
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् तत्र योनिं कृणवसे नहि ते पूर्तम् अक्षिपत्
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि
प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीने प्राणे नासिकयोच्छ्वसीत दुष्टाश्वयुक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्
नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकाशशीनाम् एतानि रूपाणि पुरःसराणि ब्रह्मण्य् अभिव्यक्तिकराणि योगे
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्
लघुत्वम् आरोग्यम् अलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च गन्धः शुभो मूत्रपुरीषम् अल्पं योगप्रवृत्तिं प्रथमां वदन्ति
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत् सुधान्तम् तद् वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः