मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोकमानन्दम् तृप्तम् स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं धाम
विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या उत्तरत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति अन्तःशुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्मानन्तः
मित्रावरुणौ पङ्क्तिस्त्रिणवत्रयस्त्रिंशो शाक्वररैवते हेमन्त शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारम् भारूपम् विगतनिद्रम् विजरम् विमृत्युम् विशोकम्
शनिराहुकेतुरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतः भान्तः क्षान्तः शान्तः
एष हि खल्वात्मन्तर्हृदयेऽणीयानिद्धोऽग्निरिव विश्वरूपोऽस्यैवान्नमिदं सर्वमस्मिन्नोता इमाः प्रजाः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसङ्कल्पः सत्यकामः एष परमेश्वरः एष भूताधिपतिः एष भूतपालः एष सेतुः विधरणः एष हि खल्वात्मेशानः शम्भुर्भवओरुद्रः प्रजापतिर् विश्वसृखिरण्यगर्भः सत्यं प्राणो हंसः शस्ताच्युतो विष्णुर्नारायणः यश्चैषोऽग्नौ यश्चायं हृदयेवयश्चासावादित्ये स एष एकः तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः
अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिः यदस्वर्गैः सह स्वर्गस्यैष वाट्ये पुरस्तादुक्तेऽप्यधः स्तम्बेनाश्लिष्यन्ति अथ ये चान्ये ह नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचनका नित्यं शिल्पोपजीविनोऽथ ये चान्ये ह पुरयाचका अयाज्ययाचकाः शुद्रशिष्याः शूद्रश्च शास्त्रविद्वांसोऽथ ये चान्ये ह चाटजटनटभटप्रव्रजितरङ्गावतारिणो राजकर्मणि पतितादयोऽथये चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थं पुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा कषायकुण्डलिनः कापालिनोऽथ ये चान्ये ह वृथा तर्कदृष्टान्तकुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवस्त् प्रकाश्यभूता वै ते तस्करा अस्वर्ग्या इत्येवं ह्याह \: नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः । भ्राम्यन्लोको न जानाति वेदविद्यान्तरन्तु यत्
बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमामविद्यामसृजत् तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति वदन्ति अतो नैनामभिधीयेतान्यथैषा बन्ध्येवैषा रतिमात्रं फलमस्या वृत्तच्युतस्येव नारम्भणीयेत्येवं ह्याह \: दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सितुं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते ॥ अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः । दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः
देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयाताः तस्मै नमस्कृत्वोचुः भगवन् वयमात्मकामाः स त्वं नो ब्रूहीति अतश्चिरं ध्यात्वाऽमन्यतान्यतामानो वै तेऽसुरा अतोऽन्यतममेतेषामुक्तम् तदिमे मूढा उपजीवन्त्यभिष्वङ्गिणस्तर्याभिघातिनोऽनृताभिशंसिनः सत्यमिवानृतं पश्यन्तीन्द्रजालवदित्यतो यद्वेदेष्वाभिहितं तत्सत्यं यद्वेदेषूक्तं तद्विद्वांस उपजीवन्ति तस्माद्ब्राह्मणो नावैदिकमधीयीतायमर्थः स्यादिति
एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं तेजस्तत्त्रेधाभिहितमग्ना आदित्ये प्राण एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरमनेनैव तदुद्बुध्न्यति उदयति उच्छ्वसति अजस्रं ब्रह्मधीयालम्बं वात्रैवैतत्समीरणे नभसि प्रसाखयैवोत्क्रम्य स्कधात्स्कन्धमनुसर्त्यप्सु प्रक्षेपको लवणस्येव घृतस्य चौष्ण्यमिवाभिध्यातुर्विस्तृतिरिवैतदित्यात्रोदाहरन्ति \: अथ कस्मादुच्यते वैद्युतो यस्मादुच्चारितमात्र एव सर्वं शरीरं विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजः । १ पुरुषश्चक्षुषो योऽयं दक्षिणोऽक्षिण्यवस्थितः । इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्यवस्थिता ॥ २ समागमस्तयोरेव हृदयान्तर्गते सुषौ । तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥ ३ हृदयादायाति तावच्चक्षुष्यस्मिन्प्रतिष्ठिता । सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥ ४ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ॥ ५ खजाग्नियोगाद् हृदि सम्प्रयुक्तमणोर्ह्यणुर्द्विरणुः कण्ठदेशे । जिह्वाग्रदेशे त्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥ ६ न पश्यन्मृत्युम्ं पश्यति न रोगं नोत दुःखताम् । सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः ॥ ७ चाक्षुषः स्वप्नचारी च सुप्तः सुप्तात्परश्च यः । भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्यं महत्तरम् ॥ ८ त्रिष्वेकपाच्चरेद्ब्रह्म त्रिपाच्चरति चोत्तरे । सत्यानृतोपभोगार्थाः द्वैतीभावो महात्मन इति द्वैतीभावो महात्मन इति
इति सप्तमः प्रपाठकः ॥ ॐ आप्यायन्त्विति शान्तिः ॥ इति मैत्रायण्युपनिषत्समाप्ता ॥ Eन्चोदेद् ब्य् षुन्देर् ःअत्तन्गदि ठे प्रपाठक ६ अन्द् ७ अरे अवैलब्ले इन् ड्र्। ऱधक्रिश्नन्'स् बूक्। षे ओथेर् रेफ़ेरेन्चेस् इन् ईन्देक्षेक्ष्त्र। Pलेअसे सेन्द् चोर्रेच्तिओन्स् तो सन्स्क्रित् अत् चीर्फ़ुल् दोत् च् ओम् ळस्त् उप्दतेद् \तोदय् ह्त्त्प्स्://सन्स्क्रित्दोचुमेन्त्स्।ओर्ग्