परं वा एतदात्मनो रूपं यदन्नमन्नमयो ह्ययं प्राणोऽथ न यद्यश्नात्यमन्ताऽश्रोताऽस्प्रष्टाऽद्रष्टाऽवक्ताऽघ्रातारसयिता भवति प्राणांश्चोत्सृजतीति एवं ह्याहाथ यदि खल्वश्नाति प्राणसमृद्धो भूत्वा मन्ता भवति श्रोता भवति स्प्रष्टा भवति वक्ता भवति रसयिता भवति घ्राता भवति द्रष्टा भवतीति एवं ह्याह अन्नाद्वै प्रजाः प्रजायन्ते याः कश्चित्पृथिवीशृताः । अतोऽन्नेनैव जीवन्ति अथैतदपि यन्ति अन्ततः
अथान्यत्रापि उक्तम् सर्वाणि ह वा इमानि भूतान्यहरहः प्रपतन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं तेनासौ तपत्यन्नेनाभिषिक्ताः पचन्तीमे प्राणा अग्निर्वा अन्नेनोज्ज्वलत्यन्नकामेनेदं प्रकल्पितं ब्रह्मणा अतोऽन्नमात्मेत्युपासीतेत्वेयं ह्याह । अनाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते
अथान्यत्रापि उक्तम् \: विश्वभृद्वै नामैषा तनुर्भगवतो विष्णोर्यदिदमन्नं प्राणो वा अन्नस्य रसो मनः प्राणस्य विज्ञानं मनस आनन्दं विज्ञानस्येति अन्नवान् प्राणवान् मनश्वान् विज्ञानवान् आनन्दवान् च भवति यो हैवं वेद यावान्तीह वै भूतान्यन्नमदन्ति तावत्स्वन्तस्थोऽन्नमत्ति यो हैवंवेद । अन्नमेव विजरन्नमन्नं संवननं स्मृतम् । अन्नं पशूनां प्राणोऽन्नं ज्येष्ठमन्नं भिषक् स्मृतम्
अथान्यात्रप्युक्तम् \: अन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य सूर्यो योनिः कालस्य तस्यैतद्रूपं यन् निमेषादिकालात्सम्भृतं द्वादशात्मकं वत्सरमेतस्याग्नेयमर्धमर्धं वारुणं मघाद्यं श्रविष्ठार्धमाग्नेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तं सौम्यम् तत्रैकैकमात्मनो नवांशकं सचारकविधम् सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव प्रमीयते हि कालः न विना प्रमाणेन प्रमेयस्योपलब्धिः प्रमेयोऽपि प्रमाणतां पृथक्त्वादुपैत्यात्मसम्बोधनार्थमित्येवं ह्याह । यावत्यो वै कालस्य कलास्तावतीषु चरत्यसौ यः कालं ब्रह्मेत्युपासीत कालस्तस्यातिदूरमपसरतीति एवं ह्याह \: कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च । काले चास्तं नियच्छन्ति कालो मूर्तिरमूर्तिमान्
द्वे वाव ब्रह्मणो रुपे कालश्चाकालश्चाथ यः प्रागादित्यात्सोऽकालोऽकालोऽथ य आदित्यद्यः स कालः सकलः सकलस्य वा एतद्रूपं यत्संवत्सरः संवत्सरात्खल्वेवेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वै जाता विवर्धन्ते संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो वै प्रजापतिः कालोऽन्नं ब्रह्मनीडमात्मा चेत्येवं ह्याह कालः पचति भूतानि सर्वाण्येव महात्मनि । यस्मिन् तु पच्यते कालो यस्तं वेद स वेदवित्
विग्रहवानेष कालः सिन्धुराजः प्रजानाम् एष तत्स्थः सविताख्यो यस्मादेवेमे चन्द्रर्क्षग्रह संवत्सरादयः सूयन्ते अथैभ्यः सर्वमिदमत्र वा यत्किञ्चित्शुभाशुभं दृश्यन्तेह लोके तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासीतादित्यो ब्रह्मेत्येकेऽथ एवं ह्याह । होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजापतिः । सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले
ब्रह्म ह वा इदमग्र आसीत् एकोऽनन्तः प्रागनन्तो दक्षिणोऽनन्तः प्रतीच्यनन्त उदीच्यनन्त ऊर्ध्वान् चाऽवान् च सर्वतोऽनन्तः न ह्यास्य प्राच्यादि दिशः कल्पन्तेऽथ तिर्यग्वान् चोर्ध्वं वा अनूह्य एष परमात्माऽपरिमितोऽतर्क्योऽचिन्त्य एष आकाशात्मा एवैष कृत्स्नक्षय एको जागर्तीति एतस्मादाकाशादेष खल्विदं चेतामात्रं बोधयति अनेनैव चेदम् ध्यायते अस्मिन् च प्रत्यस्तं याति अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपति अग्नौ चाधुमके यज्ज्योतिश्चित्रतरमुदरस्तोऽथ वा यः पचत्यन्नम् इत्येवं ह्याह यश्चैषोऽग्नौ यश्चायं हृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति य एवं वेद
तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः षडङ्गा इत्युच्यते योगः अनेन यदा पश्यन्पश्यति रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदा विद्वान्पुण्यपापे विहाय परेऽव्यये सर्वमेकीकरोति एवं ह्याह \: यथा पर्वतमादीप्तं नाश्रयन्ति मृगद्विजाः । तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन
अथान्यत्राप्युक्तम् \: यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थान् च प्राणो निवेशयित्वा निःसङ्कल्पस्ततस्तिष्ठेत् अप्राणादिह यस्मात्सम्भूतः प्राणसंज्ञको जीवस्तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणम् इत्येवं ह्याह \: अचित्तं चित्तमध्यस्तमचिन्त्यं गुह्यमुत्तमम् । तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम्
अथान्यत्राप्युक्तम् \: अतः परास्य धारणा तालुरसनाग्रनिपीडना\- द्वाङ्मनःप्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदात्मनाऽऽत्मान\- मणोरणीयांसं द्योतमानं मनःक्षयात्पश्यति तदात्मनात्मानं दृष्ट्वा निरात्मा भवति निरात्मकत्वादसङ्ख्योऽयोनिश्चिन्त्यो मोक्षलक्षणमित्येतत्परं रहस्यम् इत्येवं ह्याह \: चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति
अथान्यत्राप्युक्तम् \: ऊर्ध्वगा नाडी सुषुम्नाख्या प्राणसञ्चारिणी ताल्वन्तर्विच्छिन्ना तया प्राणोङ्कारमनोयुक्तयोर्ध्वमुत्क्रमेत् ताल्वध्याग्रं परिवर्त्य इन्द्रियाण्यसंयोज्य महिमा महिमानं निरीक्षेता ततो निरात्वकमेति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभता इत्येवं ह्याह \: परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः । तीर्त्वा पारमपारेण पश्चाद्युञ्जीत मूर्ध्वनि
अथान्यत्राप्युक्तम् \: द्वे वा व ब्रह्मणी अभिध्येये शब्दश्चाशब्दश्च अथ शब्देनैवाशब्दमाविष्क्रियते अथ तत्र ओमिति शब्दोऽनेनोर्ध्वमुत्क्रान्तोऽशब्दे निधनमेति अथाहैषा गतिरेतदमृतम् अतत्सायुज्यत्वम् निर्वृतत्वम् तथा चेति अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वा व खल्वासावभिध्याता ओमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते अन्यथा परे शब्दवादिनः \: श्रवणाङ्गुष्ठयोगेनान्तर्हृदयाकाशशब्दमाकर्णयन्ति सप्तविधेयं तस्योपमा यथा नद्यः किङ्किणी कांस्यचक्रकभेक विःकृन्दिका वृष्टिर्निवाते वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तं गताः तत्र तेऽपृथग्धर्मिणोऽपृथग्विवेक्या यथा सम्पन्ना मधुत्वं नानारसा इत्येवं ह्याह \: द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
अथान्यत्राप्युक्तम् \: यः शब्दस्तदोमित्येतदक्षरम् यदस्याग्रं तच्छान्तमशब्दमभयमशोकमानन्दं तृप्तं स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय तदेता उपसीतेत्येवं ह्याह \: योऽसौ परापरो देवा ॐकारो नाम नामतः । निःशब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत्
अथान्यत्राप्युक्तम् \: धनुः शरीरम् ओमित्येतच्छरः शिखास्य मनः तमोलक्षणं भित्वा तमोऽतमाविष्टमागच्छति अथाविष्टं भित्वाऽलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्म तमसः पर्यमपश्यद्यदमुष्मिन्नादित्येऽथ सोमेऽग्नौ विद्युति विभाति अथ खल्वेनं दृष्ट्वाऽमृतत्वं गच्छतीत्येवं ह्याह \: ध्यानमन्तःपरे तत्त्वे लक्ष्येषु च निधीयते । अतोऽविशेषविज्ञानं विशेषमुपगच्छति ॥ मानसे च विलीने तु यत्सुखं चात्मसाक्षिकम् । तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः
अथान्यत्राप्युक्तम् \: निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वप्न इव यः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं विशोकं च सोऽपि प्रणवाख्यः प्रणेता भारूपः विगत निद्रः विजरः विमृत्युर्विशोको भवतीत्येवं ह्याह \: एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा । युनक्ति युञ्जते वापि यस्माद्योग इति स्मृतः ॥ एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च । सर्वभावपरित्यागो योग इत्यभिधीयते
अथान्यत्राप्युक्तम् \: यथा वाप्सु चारिणः शाकुनिकः सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वा व खल्विमान्प्राणानोमित्यनेनोद्धृत्यानामयेऽग्नौ जुहोति अतस्तप्तोर्विवसोऽथ यथा तप्तोर्वि सार्पिस्तृणकाष्ठसंस्पर्शे\- नोज्ज्वलतीत्येवं वा व खल्वसावप्राणाख्यः प्राणसंस्पर्शेनोज्ज्वलति अथ यदुज्ज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमं पदम् चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चात्मानं विभज्य पूरयतीमां लोकानित्येवं ह्याह \: वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य प्राणादयो वै पुनरेव तस्माद् अभ्युच्चरन्तीह यथाक्रमेण
अथान्यत्राप्युक्तम् \: ब्रह्मणो वा वैतत्तेजः परस्यामृतस्याशरीरस्य यच्छरीरस्यौष्ण्यमस्यैतद्घृतमथाविः सन् नभसि निहितं वैतदेकाग्रेणैवमन्तर्हृदयाकाशं विनुदन्ति यत्तस्य ज्योतिरिव सम्पद्यतीति अतस्तद्भावम् अचिरेणैति भूमावयस्पिण्डं निहितं यथाऽचिरेणैति भूमित्वम् मृद्वत्संस्थमयस्पिण्डं यथाग्न्ययस्कारादयो नाभिभवन्ति प्रणश्यति चित्तं तथाश्रयेण सहैवमित्येवं ह्याह \: हृद्याकाशमयं कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः
अथान्यत्राप्युक्तम् \: भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं धृतिदण्डं धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्म द्वारपारं निहत्याद्यं संमोहमौली तृष्णेर्ष्याकुण्डली तन्द्रीराघवेत्र्यभिमानाध्यक्षः क्रोधज्यं प्रलोभदण्डं धनुर्गृहीत्वेच्छामयेन चैवेषुणेमानि खलु भूतानि हन्ति तं हत्वोंकारप्लवेनान्तर्हृदयाकाशस्य पारं तीर्त्वाविर्भूते अन्तराकाशे शनकैरवटैवावटकृद्धातुकामः संविशत्येवं ब्रह्मशालां विशेत् ततश्चतुर्जालं ब्रह्मकोशं प्रणुदेत् गुर्वागमेनेति \: अतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठति अतः स्वे महिम्नि तिष्ठमानम् दृष्ट्वाऽवृत्तचक्रमिव सञ्चारचक्रमालोकयति इत्येवं ह्याह \: षड्भिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ॥ रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन
एवमुक्त्वाऽन्तर्हृदयः शकायन्यस्तस्मै नमस्कृत्वाऽनया ब्रह्मविद्यया राजन् ब्रह्मणः पन्थानमारूढाः पुत्राः प्रजापतेरिति सन्तोषं द्वन्द्वतितिक्षां शान्तत्वं योगाभ्यासादवाप्नोतीति एतद्गुह्यतमं नापुत्राय नाशिष्याय नाशान्ताय कीर्तयेदिति अनन्यभक्ताय सर्वगुणसम्पन्नाय दद्यात्
ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी सद्ध्यायी सद्याजी स्यादिति । अतः सद्ब्रह्मणि सत्यभिलाषिणि निर्वृत्त्योऽनस्तत्फलच्छिन्नपाशो निराशः परेष्वात्मवद्विगतभयो निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । परमं वै शेवधेरिव परस्योद्धरणं यन्निष्कामत्वम् । स हि सर्वकाममयः पुरुषोऽध्यवसायसङ्कल्पाभिमानलिङ्गो बद्दः । अतस्तद्विपरीतो मुक्तः । अत्रैक आहुर्गुणः प्रकृतिभेदवशासध्यवसायात्मबन्धमुपागतो। अध्यवसायस्य दोषक्षयाद्धि मोक्षः मनसा ह्येव पश्यति मनसा शृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव गुणौघैरुह्यमानः कलुषीकृतश्चास्थिरश्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयात इति अहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मान्ं जालेनेव खेचरः । अतः पुरुषोऽध्यावसायसङ्कल्पाबिमानलिङ्गो बद्दः अतस्तद्विपरीतो मुक्तः तस्मान्निरध्यवसायो निःसङ्कल्पो निरभिमानस्तिष्ठेत् एतन्मोक्षलक्षणम् एषात्र ब्रह्मपदवी एषोऽत्र द्वारविवरोऽनेनास्य तमसः पारं गमिष्यति । अत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति \: यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश न विचेष्टते तामाहुः परमां गतिम् ॥ एतदुक्त्वान्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिः एषोऽत्र ब्रह्मपथः सौरं स्द्वारं भित्त्वोर्द्ध्वेन विनिर्गता इत्यत्रोदाहरन्ति अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भिभित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन देवनिकायानां स्वधामानि प्रपद्यते ॥ ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवषः । तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति
किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेषामिह को नियन्ता वेत्याह । प्रत्याहात्मात्मकानीत्यात्मा ह्येषामुद्गन्ता वाप्सरसो भानवीयाश्च मरीचयो नाम अथ पञ्चभिः रश्मिभिर्विषयानत्ति कतम आत्मेति योऽयं शुद्धः पूतः शून्यः शान्तादिलक्षणोक्तः स्वकैर्लिङ्गैरुपगृह्यः तस्यैतल्लिङ्गमलिङ्गस्याग्नेर्यदौष्ण्यमाविष्टं चापां यः शिवतमोरस इत्येके । अथ वाक्ष्रोत्रं चक्षुर्मनः प्राण इत्येके, अथ बुद्धिर्धृतिः स्मृतिः प्रज्ञा तदित्येके अथ ते एतस्यैवं यथैवेह बीजस्याङ्कुरावाथधूमार्चिर्विष्फुलिङ्गा इवाग्नेश्चेति अत्रोदाहरन्ति \: वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्मा\- दभ्युच्चरन्तीह यथाक्रमेण
तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति अथ यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसा इतिहासः पुराणम् विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि विश्वा भूतानि
पञ्चेष्टको वा एषोऽग्निः संवत्सरः तस्येमा इष्टका यो वसन्तो ग्रीष्मो वर्षाः शरद्धेमन्तः स शिरःपक्षसीपृच्छपृष्टवान् एषोऽग्निः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः करैर्यजमानमन्तरिक्षमुत्क्षिओप्त्वा वायवे प्रायच्छत् प्राणो वै वायुः प्राणोऽग्निस्तस्येमा इष्टका यः प्राणो व्यानोऽपानः समान उदानः स शिरःपक्षसीपृष्ठपुच्छवानेषोऽग्निः पुरुषविदस्तदिदमन्तरिक्षं प्रजापतेर्द्वितीया चितिः करैर्यजमानं दिवमुत्क्षिप्तेन्द्राय प्रायच्छत् असौ वा आदित्य इन्द्रः सैषोऽग्निः तस्येमा इष्टका यदृग्यजुः सामाथर्वाङ्गिरसा इतिहासं पुराणं स शिरःपक्षसीपुच्छपृष्ठवानेषोऽग्निः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीया चितिः करैर्यजमानस्यात्मविदेऽवदानं करोति यथात्मविदुत्क्षिप्य ब्रह्मणे प्रायच्छत् तत्रानन्दी मोदी भवति
पृथिवीगार्हपत्योऽन्तरिक्षं दक्षिणाग्निर्द्यौराहवनीयः तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य यज्ञम् यतः पवमानपावकशुचिसंघातो हि जाठरः तस्मादग्निर्यष्टव्यः चेतव्यः स्तोतव्योऽभिध्यातव्यः यजमानो हविर्गृहीत्वा देवताभिध्यानमिच्छति \: हिरण्यवर्णः शकुनो हृद्यादित्ये प्रतिष्ठितः मद्गुर्हंसस्तेजोवृषः सोऽस्मिन्नग्नौ यजामहे इति चापि मन्त्रार्थं विचिनोति । तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं यो बुद्ध्यन्तस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव धत्तेऽत्रेमे श्लोका भवन्ति \: १ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यते । २ स्वयोनावुपशान्तस्य मनसः सत्यकामतः इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः । ३ चित्तमेव हि संसारम् तत्प्रयत्नेन शोधयेत् यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् । ४ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते । ५ समासक्तं यथा चित्तं जन्तोर्विषयगोचरे यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् । ६ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च अशुद्धं कामसम्पर्कात् शुद्धं कामविवर्जितम् । ७ लय विक्षेपरहितं मनः कृत्वा सुनिश्चलम् यदा यात्यमनीभावं तदा तत्परमं पदम् । ८ तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम् एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः । ९ समाधिनिर्धौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते । १० अपामापोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत् एवमन्तर्गतं यस्य मनः स परिमुच्यते । ११ मन एव मनुष्याणं कारणं बन्धमोक्षयोः बन्धाय विषयासंगिं मोक्षो निर्विषयं स्मृतम् । अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्राह्मणः पदव्योमानुस्मरणं विरुद्धम् तस्मादग्निर्यष्टव्यः चेतव्यः स्तोतव्योऽभिध्यातव्यः
नमोऽग्नये पृथिवी क्षिते लोकस्मृते लोकम्स्मै यजमानाय धेहि नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लकमस्मै यजमानाय धेहि नम आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे योऽसा आदित्ये पुरुषः सोऽसा अहम् एष ह वै सत्यधर्मो यदादित्यस्य आदित्यत्वं तच्छुक्लम् पुरुषम् अलिङ्गम् नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्य इवेत्य् अक्षिण्यग्नौ चैतद्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्ये अमृतं यस्य हि सोमः प्राणा वा अप्ययंकुरा एतक़्द्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोऽंशमात्रम् एतद्यदादित्यस्य मध्ये यजुर्दीप्यत्यौमापोज्योतिरसोऽमृतंब्रह्म भूर्भुवः स्वरोम् । अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् द्विधर्मोऽन्धं तेजसेन्धं सर्वं पश्यन्पश्यति नभसोऽन्तर्गतस्य तेजसोऽन्शमात्रमेतद्यदादित्यस्य मध्ये उदित्वा मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप एतदग्निरेतद्वायुरेतत्प्राण एतदाप एतच्चन्द्रमा एतच्छुक्रमेतदमृतमेतद्ब्रह्मविषयमेतद्भानुरर्णवस्तस्मिन्नेव यजमानः सैन्धव इव व्लीयन्त एषा वै ब्रह्मैकतात्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति \: अंशुधारय इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम् यो हैवंवित्स सवित् स द्वैतवित् सैकधामेतः स्यात्तदात्मकश्च \: ये विन्दव इवाभ्युच्चरन्त्यजस्रम् विद्युदिवाभ्रार्चिषः परमे व्योमन् तेऽऋचिषो वै यशस आश्रयवासाज्जटाभिरूपा इव कृष्णवर्त्मनः
द्वे वा व खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकं समृद्धं चैकम् अथ यच्छन्तं तस्याधारं खम् अथ यत्समृद्धमिदं तस्यान्नम् तस्मान्मन्त्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्त\- र्वेद्यामास्न्यवशिष्टैरन्नपानैश्चास्यमाहवनीयमिति मत्वा तेजसः समृद्ध्यै पुण्यलोकविजित्यर्थायामृतत्वाय चात्रोदाहरन्ति \: अग्निहोत्रं जुहुयात्स्वर्गकामो यमराज्यमग्निष्टोमेनाभिययति सोमराज्यमुक्थेन सूर्यराज्यं षोडशीना स्वाराज्यमतिरात्रेण प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति \: वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः । अन्तर्याण्डोपयोगादिमौ स्थितावात्मशिची तथा
तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्त्रेधभिहितमग्नावादित्ये प्राणेऽथैषा नाड्यन्नबहुमित्येषाग्नौ हुतमादित्यं गमयति अतो यो रसोऽस्रवत् स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा इत्यत्रोदाहरन्ति \: यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मिभिर्वर्षति तेनान्नं भवति अन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह \: अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति अतः संमोहं छित्वा न क्रोधान्स्तुन्वानः काममभिध्यायमानस्ततश्चतुर्जालं ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि सौर सौम्याग्नेयसात्विकानि मण्डलानि भित्त्वा ततः शुद्धः सत्त्वान्तरस्थमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितम् सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तम् स्वतन्त्रम् चैतन्यम् स्वे महिम्नि तिष्ठमानं पश्यति अत्रोदाहरन्ति \: रविमध्ये स्थितः सोमः सोममध्ये हुताशनः । तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥ शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यन्वयं ध्यात्वातःपरमतां गच्छति अत्र हि सर्वे कामाः समाहिता इति अत्रोदाहरन्ति \: अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्विस्त्रिधा हि तद्ब्रह्माभिष्टूयमानं महो देवो भुवनान्याविवेश । ॐ नमो ब्रह्मणे नमः
इति षष्ठः प्रपाठकः ॥ प्रपाठक ७ । अग्निर्गायत्रं त्रिवृद्रथन्तरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विश्नति अन्तर्विवएणेक्षन्ति अचिन्त्योऽमूर्तो गभीरो गुणभुग्भयोऽनिर्वृत्तिर्योगीश्वरः सर्वज्ञो मघोऽप्रमेयोऽनाद्यन्तः श्रीमान् अजो धीमाननिर्देश्यः सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः सर्वस्यान्तरान्तरः
इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण ईक्षन्ति \: अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरप्रयोज्यः स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः