अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मर्त्यभीक्ष्णं संकल्पः ॥
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥
उपनिषदं भो ब्रूहीत्युुक्ता त उपनिषद् ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ इति केनोपनषदि चतुर्थः खण्डः ॥ ॥ सामवेदीय केनोपनिषद् समाप्तः ॥