अथ योह वाअस्माल् लोकात्स्वं लोकमदृष्ट्वा प्रैति, सएनमविदितो नभुनक्ति; यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं॥ यदि ह वाअप्यनेवंविन्महत्पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एवात्मानमेवलोकमुपासीत॥ सयआत्मानमेवलोकमुपास्ते, नहास्य कर्म क्षीयते॥ अस्माद्ध्य् एवात्मनो यद्-यत्कामयते, तत्-तत्सृजते
अथो अयं वाआत्मासर्वेषां भूतानां लोकः; सयज् जुहोति, यद्यजते तेन देवानां लोको; अथ यदनुब्रूते, तेनर्षीणाम्; अथ यत्प्रजामिच्छते, यत्पितृभ्यो निपृणाति, तेन पित्ऱ्णाम्; अथ यन्मनुष्यान्वासयते, यदेभ्योऽशनं ददाति, तेन मनुष्याणाम्; अथ यत्पशुभ्यस् तृणोदकं विन्दति, तेन पशूनां; यदस्य गृहेषु श्वापदा वयाँस्य् आपिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोको॥ यथा ह वैस्वाय लोकायारिष्टिमिच्छेद् एवँ हैवंविदे सर्वदासर्वाणि भूतान्यरिष्टिमिच्छन्ति॥ तद्वाएतद्विदितं मीमाँसितम्
आत्मैवेदमग्र आसीद् एक एव॥ सोऽकामयतः जायामे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति॥ एतावान्वैकामो नेच्छँश्चनातो भूयो विन्देत्॥ तस्मादप्य् एतर्ह्य् एकाकीकामयतेः जायामे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति॥ सयावदप्य् एतेषामेकैकं नप्राप्नोति अकृत्स्न एवतावन्मन्यते॥ तस्यो कृत्स्नता
मन एवास्यात्मा; वाग्जाया; प्राणः प्रजा; चक्षुर्मानुषं वित्तं, चक्षुषा हितद्विन्दति; श्रोत्रं दैवं, श्रोत्रेण हितच्छृणोति आत्मैवास्य कर्मात्मना हिकर्म करोति॥ सएषपाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पाङ्क्तः पुरुषः, पाङ्क्तमिदँ सर्वं यदिदं किङ्च॥ तदिदँ सर्वमाप्नोति, यएवं वेद॥ 5 = 14.4.3.1-34=
यत्सप्तान्नानि मेधया तपसाजनयत्पितै- -कमस्य साधारणं, द्वेदेवानभाजयत्॥ त्रीण्य् आत्मनेऽकुरुत, पशुभ्य एकं प्रायच्छत्; तस्मिन्त्सर्वं प्रतिष्ठितं, यच्च प्राणिति यच्च न॥ कस्मात्तानि नक्षीयन्ते, अद्यमानानि सर्वदा॥ योवैतामक्षितिं वेद, सोऽन्नमत्ति प्रतीकेन, सदेवानपिगच्छति, सऊऋजमुपजीवतीति श्लोकाः
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति, मेधया हितपसाजनयत्पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं, यदिदमद्यते॥ सयएतदुपास्ते, नसपाप्मनो व्यावर्तते; मिश्रँ ह्य् एतत्
द्वेदेवानभाजयदिति, हुतं च प्रहुतं च; तस्माद्देवेभ्यो जुह्वति च प्रच जुह्वति॥ अथो आहुः दर्शपूर्णमासाविति॥ तस्मान्नेष्टियाजुकः स्यात्
पशुभ्य एकं प्रायच्छदिति, तत्पयः; पयो ह्य् एवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति॥ तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति, स्तनं वानुधापयन्ति;
अथ वत्सं जातमाहुः अतृणाद इति॥ तस्मिन्त्सर्वं प्रतिष्ठितं, यच्च प्राणिति यच्च नेति, पयसि हीदँ सर्वं प्रतिष्ठितं, यच्च प्राणिति यच्च न
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति, नतथा विद्याद्॥ यदहरेवजुहोति, तदहः पुनर्मृत्युमपजयत्य् एवं विद्वान्त्; सर्वँ हिदेवेभ्योऽन्नाद्यं प्रयच्छति॥ कस्मात्तानि नक्षीयन्तेऽद्यमानानि सर्वदेति
पुरुषो वाअक्षितिः, सहीदमन्नं पुनः-पुनर्जनयते॥ योवैतामक्षितिं वेदेति, पुरुषो वाअक्षितिः॥ सहीदमन्नं धिया-धिया जनयते कर्मभिः यद्धैतन्नकुर्यात् क्षीयेत ह॥ सोऽन्नमत्ति प्रतीकेनेति, मुखं प्रतीकं, मुखेनेत्य् एतत्॥ सदेवानपिगच्छति, सऊर्जमुपजीवतीति प्रशँसा
त्रीण्य् आत्मनेऽकुरुतेतिः मनो वाचं प्राणं; तान्य् आत्मनेऽकुरुतान्यत्रमना अभूवं, नादर्शम्; अन्यत्रमना अभूवं, नाश्रौषमितिः मनसा ह्य् एवपश्यति, मनसा शृणोति
कामः सङ्कल्पोविचिकित्साश्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्य् एतत्सर्वं मन एव॥ तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति
यः कश्च शब्दो, वागेवसैषाह्यन्तं आयत्तैषाहिन॥ प्राणोऽपानोव्यानउदानः समानोऽनइत्य् एतत्सर्वं प्राणएवैतन्मयो वाअयमात्माः वाङ्मयो, मनोमयः, प्राणमयः
त्रयो लोकाएतएवः वागेवायं लोको, मनोऽन्तरिक्षलोकः, प्राणोऽसौलोकः
त्रयो वेदा एतएवः वागेवर्ग्वेदो, मनो यजुर्वेदः, प्राणः सामवेदः
देवापितरो मनुष्याएतएवः वागेवदेवा, मनः पितरः, प्राणोमानुष्याः
पितामाताप्रजैतएवः मन एवपिता, वाङ् माता, प्राणः प्रजा
विज्ञातं विजिज्ञास्यमविज्ञातमेतएवः यत्किङ्च विज्ञातं वाचस् तद्रूपम् वाग्घिविज्ञाता, वागेनं तद्भूत्वावति
यत्किङ्च विजिज्ञास्यं मनसस् तद्रूपम् मनो हिविजिज्ञास्यं, मन एनं तद्भूत्वावति
यत्किङ्चाविज्ञातं प्राणस्य तद्रूपम् प्राणोह्यविज्ञातः, प्राणएनं तद्भूत्वावति
तस्यै वाचः पृथिवीशरीरं, ज्योती रूपमयमग्निः॥ तद्यावत्य् एववाक् तावती पृथिवी, तावानयमग्निः
अथैतस्य मनसो द्यौः शरीरं, ज्योती रूपमसावादित्यः॥ तद्यावदेवमनस् तावती द्यौः तावानसावादित्यः॥ तौमिथुनँ समैतां॥ ततः प्राणोऽजायत॥ सइन्द्रः, सएषोऽसपत्नो॥ द्वितीयो वैसपत्नो॥ नास्य सपत्नो भवति, यएवं वेद
अथैतस्य प्राणस्यापः शरीरं, ज्योती रूपमसौचन्द्रः॥ तद्यावानेवप्राणः तावत्य आपः तावानसौचन्द्रः
तएतेसर्व एवसमाः, सर्वेऽनन्ताः॥ सयोहैतानन्तवत उपास्ते, अन्तवन्तँ सलोकं जयति अथ योहैताननन्तानुपास्ते, अनन्तँ सलोकं जयति
सएषसंवत्सरः प्रजापतिष् षोडशकलः॥ तस्य रात्रय एवपङ्चदश कला; ध्रुवैवास्य षोडशीकला॥ सरात्रिभिरेवाच पूर्यते, अप च क्षीयते॥ सोऽमावास्याँ रात्रिमेतया षोडश्याकलया सर्वमिदं प्राणभृदनुप्रविश्य, ततः प्रातर्जायते॥ तस्मादेताँ रात्रिं प्राणभृतः प्राणं नविच्छिन्द्यादपि कृकलासस्यैतस्या एवदेवताया अपचित्यै
योवैससंवत्सरः प्रजापतिष् षोडशकालो, अयमेवसयोऽयमेवंवित्पुरुषः॥ तस्य वित्तमेवपङ्चदश कलाः आत्मैवास्य षोडशीकला॥ सवित्तेनैवाच पूर्यते, अप च क्षीयते॥ तदेतन्नभ्यं यदयमात्मा, प्रधिर्वित्तं॥ तस्माद्यदि अपि सर्वज्यानिं जीयत, आत्मना चेज् जीवति, प्रधिनागादित्य् आहुः
अथ त्रयो वावलोकाः मनुष्यलोकः, पितृलोको, देवलोकइति॥ सोऽयं मनुष्यलोकः पुत्रेणैवजय्यो, नान्येन कर्मणा; कर्मणा पितृलोको; विद्यया देवलोको॥ देवलोकोवैलोकानाँ श्रेष्ठस्; तस्माद्विद्यां प्रशँसन्ति
अथातः सम्प्रत्तिः॥ यदाप्रैष्यन्मन्यते, अथ पुत्रमाहः त्वं ब्रह्म, त्वं यज्ञः त्वं लोकइति॥ सपुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो, अहम्लोकइति
यद्वैकिङ्चानूक्तं, तस्य सर्वस्य ब्रह्मेत्य् एकता॥ येवैकेच यज्ञाः तेषाँ सर्वेषां यज्ञइत्य् एकता॥ येवैकेच लोकाः तेषाँ सर्वेषां लोकइत्य् एकतैतावद्वाइदँ सर्वम् एतन्मा सर्वँ सन्नयमितोभुनजदिति॥ तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः तस्मादेनमनुशासति॥ सयदैवंविदस्माल् लोकात्प्रैति अथैभिरेवप्राणैः सहपुत्रमाविशति॥ सयद्यनेन किङ्चिदक्ष्णयाकृतं भवति, तस्मादेनँ सर्वस्मात्पुत्रोमुङ्चति॥ तस्मात्पुत्रोनाम॥ सपुत्रेणैवास्मिल् लोकेप्रतितिष्ठति अथैनमेतेदेवाः प्राणाअमृता आविशन्ति