दश ग्राम्याणि धान्यानि भवन्तिः व्रीहियवास् तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च; तान्त्सार्धं पिष्ट्वादध्नामधुना घृतेनोपसिङ्चत्य् \^ ~ आज्यस्य जुहोति॥ 4
एषां वैभूतानां पृथिवीरसः, पृथिव्याआपो, अपामोषधय, ओषधीनां पुष्पाणि, पुष्पाणां फलानि, फलानां पुरुषः, पुरुषस्य रेतः
सह प्रजापतिरीक्षां चक्रेः हन्तास्मैप्रतिष्ठां कल्पयानीति; सस्त्रियँ ससृजे॥ ताँ सृष्ट्वाधउपास्तः तस्मात्स्त्रियमधउपासीत, श्रीर्ह्य् एशा . ॥. सएतं प्राङ्चं ग्रावाणमात्मन एवसमुदपारयत् तेनैनामभ्यसृजत
तस्या वेदिरुपस्थो, लोमानि बर्हिश्, चर्माधिषवणे, समिद्धो मध्यतस् तौमुष्कौ॥ सयावान्ह वैवाजपेयेन यजमनस्य लोकोभवति, तावानस्य लोकोभवति, यएवं विद्वानधोपहासं चरति; आस . स्त्रीणाँ सुकृतं वृङ्क्ते॥ अथ यइदमविद्वानधोपहासं चरति आस्य स्त्रियः सुकृतं वृङ्जते
एतद्ध स्म वैतद्विद्वानूद्दालक आरुनिराहैतद्ध स्म वैतद्विद्वान्णाको मौद्गल्य आहैतद्ध स्म वैतद्विद्वान्कुमारहारितआहः बहवो मर्या ब्राह्मनायनानिरिन्द्रियाविसुकृतोऽस्माल् लोकात्प्रयन्ति, यइदमविद्वाँसोऽधोपहासं चरन्तीति
बहुवाइदँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति
तदभिमृशेद् अनु वा मन्त्रयेतः यन्मेऽद्यरेतः पृथिवीमस्कान्त्सीद् यदोषधीरप्यसरद् यदप, इदमहं तद्रेत आददे; पुनर्मामैतु इन्द्रियं, पुनस् तेजः, पुनर्भगः; पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्य् अनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्
अथ यद्य् उदकआत्मानं पश्येत् तदभिमन्त्रयेतः मयि तेज इन्द्रियं यशो द्रविणँ सुकृतमिति
श्रीर्ह वाएषास्त्रीणां यन्मलोद्वासाः॥ तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत
साचेदस्मैनदद्यात् काममेनामपक्रिणीयात् साचेदस्मैनैवदद्यात् काममेनां यष्ट्यावा पाणिना वोपहत्यातिक्रामेद् इन्द्रियेन ते यशसा यश आदद, इत्य् अयशाएवभवति
. सा चेदस्मै दद्याद् इन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः
सयामिच्छेत् कामयेत मेति, तस्यामर्थं निष्ठाप्य ! मुखेन मुखँ संधायोपस्थमस्या अभिमृश्य, जपेद् अङ्गादङ्गात्संभवसि, हृदयादधिजायसे; सत्वमङ्गकषायोऽसि, दिग्धविद्धामिव मादयेति .
अथ यामिच्छेद् नगर्भं दधीतेति, तस्यामर्थं निष्ठाप्य मुखेन मुखँ संधायाभिप्राण्यापान्याद् इन्द्रियेण ते रेतसा रेत आदद, इत्यरेताएवभवति
अथ यामिच्छेद् गर्भं दधीतेति, तस्यामर्थं निष्ठाप्य मुखेन मुखँ संधायापान्याभिप्राण्याद् इन्द्रियेण ते रेतसा रेत आदधामीति; गर्भिण्य् एवभवति
अथ यस्य जायायै जारः स्यात् तं चेद्द्विष्याद् आमपात्रेऽग्निमुपसमाधाय, प्रतिलोमँ शरबर्हिः स्तीर्त्वा, तस्मिन्नेताः तिस्रः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ताजुहुयान् मम समिद्धेऽहौषीः अशापराकाशौत आददे, असाविति नाम गृभ्णाति मम समिद्धेऽहौषीः, पुत्रपशूँस् त आददे, असाविति नाम गृब्णाति मम समिद्धेऽहौषीः, प्राणापानौत आददे, असाविति नाम गृब्णाति सवाएषनिरिन्द्रियोविसुकृदस्माल् लोकाद्प्रैति, यमेवंविद्ब्राह्मणः शपति॥ तस्मादेवंवित्श्रोत्रियस्य जायायोपहासं नेच्छेद्; उतह्य् एवंवित्परो भवति
11 अथ यस्य जायायै जारः स्यात् तं चेद्द्विष्याद् आमपात्रेऽग्निमुपसमाधाय, प्रतिलोमँ शरबर्हिः स्तीर्त्वा, तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान् मम समिद्धेऽहौषीः, प्राणापानौ त आददे, असाविति॥ मम समिद्धेऽहौषीः, पुत्रपशूँस् त आददे, असाविति॥ मम समिद्धेऽहौषीः अशापराकाशौ त आददे असाविति॥ मम समिद्धेऽहौषीः इष्टासुकृते त आददे, असाविति॥ स वा एष निरिन्द्रियोविसुकृतोऽस्माल् लोकाद्प्रैति, यमेवंविद्ब्राह्मणः शपति॥ तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेद्; उत ह्य् एवंवित्परो भवति
अथ यस्य जायामार्तवं विन्देत् त्र्यहं कँसेनपिबेदहतवासा; नैनां वृषलो, नवृषल्य् उपहन्यात् त्रिरात्रान्तआप्लूय व्रीहीनवघातयेत्
सयइच्छेत् पुत्रोमे गौरो जायेत, वेदमनुब्रुवीत, सर्वमायुरियादिति, क्षीरौदनं पाचयित्वासर्पिष्मन्तमश्नीयाताम्; ईश्वरौजनयितवै
अथ यइच्छेत् पुत्रोमे कपिलः पिङ्गलोजायेत, द्वौवेदावनुब्रुवीत, सर्वमायुरियादिति, दध्योदनं पाचयित्वासर्पिष्मन्तमश्नीयाताम्; ईश्वरौजनयितवै
अथ यइच्छेत् पुत्रोमे श्यामोलोहिताक्षोजायेत, त्रीन्वेदाननुब्रुवीत, सर्वमायुरियादिति उदौदनं पाचयित्वासर्पिष्मन्तमश्नीयाताम्; ईश्वरौजनयितवै
अथ यइच्छेद् दुहितामे पण्डिताजायेत, सर्वमायुरियादिति, तिलौदनं पाचयित्वासर्पिष्मन्तमश्नीयाताम्; ईश्वरौजनयितवै
अथ यइच्छेत् पुत्रोमे पण्डितोविजिगीथः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत, सर्वान्वेदाननुब्रुवीत, सर्वमायुरियादिति, माँसौदनं पाचयित्वासर्पिष्मन्तमश्नीयाताम्; ईश्वरौजनयितवाइ॥ अउक्ष्णेण वार्षभेण वा
अथाभिप्रातरेवस्थालीपाकावृताज्यँ चेष्टित्वा, स्थालीपाकस्योपघातं जुहोति आग्नये स्वाहा- -नुमतये स्वाहा देवाय षवित्रेसत्यप्रसवाय स्वाहेति, हुत्वोद्धृत्य प्राश्नाति॥ प्राश्येतरस्याः प्रयच्छति॥ प्रक्षाल्य पाणी, उदपात्रं पूरयित्वा, तेनैनां त्रिरभ्युक्षति उत्तिष्ठातो, विश्वावसौ अन्यामिच्छ प्रफर्व्यम् सं जायां पत्या सहेति
अथैनामभिपद्यतेः अमोऽहमस्मि, सात्वँ; सात्वमसि अमोऽहँ; सामाहमस्मि ऋक्त्वं; द्यौरहं, पृथिवीत्वं॥ तावेहि सँरभावहै, सहरेतो दधावहै पुँसेपुत्राय वित्तय इति
अथास्या ऊरूविहापयतिः विजिहीथां द्यावापृथिवीइति॥ तस्यामर्थं निष्ठाप्य मुखेन मुखँ संधाय, त्रिरेनामनुलोमामनुमार्ष्टिः विष्णुर्योनिं कल्पयतु, ट्वष्टा रूपाणि पिंशतु आसिन्चतु प्रजापतिः धाता गर्भं दधातु ते॥ गर्भं धेहि, षिनीवालि; गर्भं धेहि, पृथुष्टुके॥ गर्भं ते आश्विनौ देवाव् आधत्तां पुष्करस्रजौ
हिरण्यनी अरणी याभ्यां निर्मन्थतामाश्विनौ देवौ . तं ते गर्भँ हवामहे, दशमेमासिसूतवे यथाग्निगर्भा पृथिवी, यथा द्यौर्९न्द्रेण गर्भिणी, वायुर्दिशां यथा गर्भ, एवं गर्भं दधामि ते, असाविति नाम गृह्णाति . \`॥.
सोष्यन्तीमद्भिरभ्युक्षतिः यथा वातः पुष्करिणीँ समिङ्गयति सर्वत एवाते गर्भ एजतु, सहावैतु जरायुणे- -न्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयस्; तम् ईन्द्र, निर्जहि गर्भेण सावराँ सहेति
जातेऽग्निमुपसमाधायाङ्कआधाय, कँसेपृषदाज्यँ संनीय, पृषदाज्यस्योपघातं जुहोति अस्मिन्त्सहस्रं पुष्यासम् एधमानः स्वगृहे \^ अस्योपसद्यां .\` माछैत्सीत् प्रजया च पशुभिश्च, स्वाहा॥ मयि प्राणाँस् त्वयि मनसा जुहोमि, स्वाहा
यत्कर्मणात्यरीरिचं, यद्वा न्यूनमिहाकरम् आग्निस् तत्स्विष्टकृद्विद्वान्त् स्विष्टँ सुहुतं करोतु नः, स्वाहेति॥ 25 25 25-26; अथास्यायुष्यं करोति दक्षिणं कर्णमभिनिधायः वाग्वागिति त्रिः॥ अथास्य नामधेयं करोतिः वेदोऽसीति, तदस्यैतद्गुह्यमेवनाम स्याद्॥ अथ दधि मधु घृतँ सँसृज्यानन्तर्हितेन जातरूपेण प्राशयतिः भूस् त्वयि दधामि, भुवस् त्वयि दधामि, स्वस् त्वयि दधामि; भूर्भुवः स्वः सर्वं त्वयि दधामीति
अथास्य दक्षिणं कर्णमभिनिधायः वाग्वागिति त्रिः॥ अथ, दधि मधु घृतँ संनीयानन्तर्हितेन जातरूपेण प्राशयतिः भूस् ते दधामि, भुवस् ते दधामि, स्वस् ते दधामि; भूर्भुवः स्वः सर्वं त्वयि दधामीति