साह वागुवाचः यद्वाअहं वसिष्ठास्मि, त्वं तद्वसिष्ठोऽसीति॥ चक्षुर् यद्वाअहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठो! ऽसीति॥ श्रोत्रं यद्वाअहँ संपदस्मि, त्वं तत्संपदसीति॥ मनो यद्वाअहमायतनमस्मि, त्वं तदायतनमसीति॥ रेतो यद्वाअहं प्रजातिरस्मि, त्वं तत्प्रजातिरसीति॥ तस्यो मे किमन्नं, किं वास इति॥ यदिदं किङ्चाश्वभ्य, आक्रिमिभ्य \^ आकीटपतङ्गेभ्यः तत्तेऽन्नम्; आपो वास इति॥ नह वाअस्यानन्नं जग्धं भवति, नानन्नं प्रतिगृहीतं यएवमेतदनस्यान्नं वेद
तद्विद्वाँसः श्रोत्रिया अशिष्यन्त आचामन्ति अशित्वाचामन्ति एतमेवतदन्नमनग्नं कुर्वन्तो मन्यन्ते॥ तस्मादेवंविदशिष्यनाचमेद् अशित्वाचमेद्॥ एतमेवतदनमनग्नं कुरुते . ॥. 3
सयः कामयतेः महत्प्राप्नुयामिति उदगयनआपूर्यमाणपक्षे पुण्याहे, द्वादशाहमुपसद्व्रतीभूत्वौदुम्बरे कँसेचमसेवा सर्वौषधं फलानीति संभृत्य, परिसमुह्य, परिलिप्याग्निमुपसमाधायावृताज्यँ , \^. सँस्कृत्य, पुँसानक्षत्रेण मन्थँ संनीय, जुहोतिः
यावन्तो देवास् त्वयि, जातवेदः तिर्यङ्चो घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि, तेमा तृप्ताः . कामैस् तर्पयन्तु, स्वाहा
यातिरश्ची निपद्यसेः अहं विधरणीइति, तां त्वा घृतस्य धारया यजे सँराधनीमहँ॥ स्वाहा॥ प्रजायते नत्वदेतान्यन्यइति तृतीयं जुहोति. . \`॥.
ज्येष्ठाय स्वाहा, श्रेष्ठाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ प्राणाय स्वाहा, वसिष्ठायै स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ वाचेस्वाहा, प्रतिष्ठायै स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ चक्षुषे स्वाहा, संपदे स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ श्रोत्राय स्वाहायतनाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ मनसे स्वाहा, प्रजात्यै स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ रेतसे स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ 5 3, ; भूताय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ भविष्यते स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ विश्वाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ सर्वाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ पृथिव्यैस्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ अन्तरिक्षाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ दिवेस्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ दिग्भ्यः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ ब्रह्मणे स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ क्षत्राय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ 7 3, ; भूः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ भुवः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ स्वः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ भूर्भुवः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ 8 3, ; अग्नये स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ सोमाय स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ तेजसे स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ श्रियैस्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ लक्ष्म्यैस्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ सवित्रेस्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ सरस्वत्यै स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ विश्वेभ्यो देवेभ्यः स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति॥ प्रजापतये स्वाहेति अग्नौहुत्वा, मन्थे सँस्रवमवनयति
5-8; अग्नये स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ सोमाय स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ भूः स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ भुवः स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ स्वः स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ भूर्भुवः स्वः स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ ब्रह्मणे स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ क्षत्राय स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ भूताय स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ भविष्यते स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ विश्वाय स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ सर्वाय स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति॥ प्रजापतये स्वाहेति अग्नौ हुत्वा, मन्थे सँस्रवमवनयति
अथैनमभिमृशतिः भ्रम् असि, ज्वलदसि, पूर्णमसि, प्रस्तब्धमसि एकसभमसि, हिङ्कृतमसि, हिङ्क्रियमानमसि उद्गीथमसि उद्गीयमानमसि, श्रावितमसि, प्रत्याश्रावितमसि आर्द्रे संदीप्तमसि, विभूरसि, प्रभूरसि, ज्योतिरसि अन्नमसि, , निधनमसि, संवर्गोऽसीति
अथैनमुद्यच्छति आमोऽस्य् . आमँ हिते मयि सहिराजेशानोऽधिपतिः, समाँ राजेशनोऽधिपतिं करोत्विति
अथैनमाचामतिः तत्षवितुर्वरेण्यं मधु वाता ऋतायते मधु क्षरन्ति सिन्धवो; माध्वीर्नः सन्त्वोषधीः॥ भूः स्वाहा
भर्गो देवस्य धीमहि मधु नक्तमुतोषसो, मधुमत्पार्थिवँ रजो, मधु द्यौरस्तु नः पिता॥ भुवः स्वाहा
धियोयोनः प्रचोदयाद्॥ मधुमान्नो वनस्पतिः मधुमाँ२ अस्तु सूर्यो, माध्वीर्गवो भवन्तु नः॥ स्वः स्वाहेति॥ सर्वां च सावित्रीमन्वाह, सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीर् . ॥. अहमेवेदँ सर्वं भूयासं॥ भूर्भुवः स्वः स्वाहेति॥ अन्ततआचम्य, प्रक्षाल्य पाणी जघनेनाग्निं प्राक्षिराः संविशति
प्रातरादित्यमुपतिष्ठतेः दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति॥ यथेतमेत्य, जघनेनाग्निमासीनो वँशं जपतिः
तँ हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति
एतमु हैववाजसनेयोयाज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति
एतमु हैवमधुकः पैङ्ग्यश्चूडाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति
एतमु हैवचूडो भागवित्तिर्जानकय अयस्थूणायान्तेवासिन उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति
एतमु हैवजानकिरायस्थूणः षत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति
एतमु हैवषत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि यएनँ शुष्के स्थाणौनिषिङ्चेद् जायेरङ्छाखाः, प्ररोहेयुः पलाशानीति॥ तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात्
चतुरौदुम्बरोभवति औदुम्बरश्चमस औदुम्बरः स्रुव औदुम्बर इध्म, औदुम्बर्या उपमन्थन्यौ
दश ग्राम्याणि धान्यानि भवन्तिः व्रीहियवास् तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च; तान्त्सार्धं पिष्ट्वादध्नामधुना घृतेनोपसिङ्चत्य् \^ ~ आज्यस्य जुहोति॥ 4
एषां वैभूतानां पृथिवीरसः, पृथिव्याआपो, अपामोषधय, ओषधीनां पुष्पाणि, पुष्पाणां फलानि, फलानां पुरुषः, पुरुषस्य रेतः
सह प्रजापतिरीक्षां चक्रेः हन्तास्मैप्रतिष्ठां कल्पयानीति; सस्त्रियँ ससृजे॥ ताँ सृष्ट्वाधउपास्तः तस्मात्स्त्रियमधउपासीत, श्रीर्ह्य् एशा . ॥. सएतं प्राङ्चं ग्रावाणमात्मन एवसमुदपारयत् तेनैनामभ्यसृजत
तस्या वेदिरुपस्थो, लोमानि बर्हिश्, चर्माधिषवणे, समिद्धो मध्यतस् तौमुष्कौ॥ सयावान्ह वैवाजपेयेन यजमनस्य लोकोभवति, तावानस्य लोकोभवति, यएवं विद्वानधोपहासं चरति; आस . स्त्रीणाँ सुकृतं वृङ्क्ते॥ अथ यइदमविद्वानधोपहासं चरति आस्य स्त्रियः सुकृतं वृङ्जते
एतद्ध स्म वैतद्विद्वानूद्दालक आरुनिराहैतद्ध स्म वैतद्विद्वान्णाको मौद्गल्य आहैतद्ध स्म वैतद्विद्वान्कुमारहारितआहः बहवो मर्या ब्राह्मनायनानिरिन्द्रियाविसुकृतोऽस्माल् लोकात्प्रयन्ति, यइदमविद्वाँसोऽधोपहासं चरन्तीति
बहुवाइदँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति
तदभिमृशेद् अनु वा मन्त्रयेतः यन्मेऽद्यरेतः पृथिवीमस्कान्त्सीद् यदोषधीरप्यसरद् यदप, इदमहं तद्रेत आददे; पुनर्मामैतु इन्द्रियं, पुनस् तेजः, पुनर्भगः; पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्य् अनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्
अथ यद्य् उदकआत्मानं पश्येत् तदभिमन्त्रयेतः मयि तेज इन्द्रियं यशो द्रविणँ सुकृतमिति
श्रीर्ह वाएषास्त्रीणां यन्मलोद्वासाः॥ तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत
साचेदस्मैनदद्यात् काममेनामपक्रिणीयात् साचेदस्मैनैवदद्यात् काममेनां यष्ट्यावा पाणिना वोपहत्यातिक्रामेद् इन्द्रियेन ते यशसा यश आदद, इत्य् अयशाएवभवति