सहोवाचः तथा नस् त्वं, तत, जानीथा यथा, यदहं किंच वेद, सर्वमहं तत्तुभमवोचं॥ प्रेहि तु, तत्र प्रतीत्य, ब्रह्मचर्यं वत्स्याव इति॥ भवानेवगच्छत्विति
सआजगाम गौतमोयत्र प्रवाहणस्य जैवलेरास॥ तस्मा आसनमाहार्योदकं \^ आहारयां चकाराथ हास्मा अर्घं चकार
तँ होवाचः वरं भवते गौतमाय दद्म इति
सहोवाचः प्रतिज्ञतो म एषवरो; यां तुकुमारस्यान्ते वाचमभाषथाः तां मे ब्रूहीति
सहोवाचः दैवेषु वै, गौतम, तद्वरेषु, मानुषाणां ब्रूहीति
सहोवाचः विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानानां, मानो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति॥ सवै, गौतम, तीर्थेनेच्छसा इति उपैम्यहं भवन्तमिति वाचाह स्मैवपूर्व उपयन्ति
सहोपायनकीर्ताउवाच
तथा नस् त्वं, गौतम, मापराधास् तव च पितामहा, यथेयं विद्येतः पूर्वं नकस्मिँश्चनब्राह्मनउवास; तां त्वहं तुभ्यं वक्ष्यामिः कोहित्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति
असौवैलोकोऽग्निः गौतम॥ तस्यादित्यएवसमिद् रश्मयो धूमो, अहरर्चिश्, चन्द्रमा अङ्गारा .\^ नक्षत्राणि विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः श्रद्धां जुह्वति; तस्या आहुतेः सोमो राजा संभवति
पर्जन्यो वाअग्निः गौतम॥ तस्य संवत्सरएवसमिद् अभ्राणि धूमो, विद्युदर्चिः अशनिरङ्गारा, ह्रादुनयो विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः सोमं . जुह्वति; तस्या आहुतेर्वृष्टिः संभवति
अयं वैलोकोऽग्निः गौतम॥ तस्य पृथिव्य् एवसमिद् वायुर् ? धूमो, रात्रिरर्चिः दिशो अङ्गारा, अवन्तरदिशो विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवावृष्टिं जुह्वति; तस्या आहुतेरन्नँ संभवति
पुरुषो वाअग्निः गौतम॥ तस्य व्यात्तमेवसमित् प्राणोधूमो, वागर्चिश्, चक्षुरङ्गाराः, श्रोत्रं विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाअन्नं जुह्वति; तस्या आहुते रेतः संभवति
योषा वाआग्निः गौतम॥ तस्या उपस्थ एवसमिल्, लोमानि धूमो, योनिरर्चिः यदन्तः करोति, तेऽङ्गारा, अभिनन्दा विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवारेतो जुह्वति; तस्या आहुतेः पुरुषः संभवति॥ सजायते . सजीवति यावज् जीवति अथ यदाम्रियते,
अथैनमग्नये हरन्ति
तस्याग्निरेवाग्निर्भवति, समित्समिद् धूमोधूमो, अर्चिरर्चिः अङ्गारा अङ्गारा, विष्फुलिङ्गा विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः पुरुषं जुह्वति; तस्या आहुतेः पुरुषो भास्वरवर्णः संभवति
तेयएवमेतद्विदुः येचामीअरण्ये श्रद्धाँ सत्यमुपासते, तेऽर्चिरभिसंभवन्ति अर्चिषोऽहः अह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङ् आदित्यएति, मासेभ्यो देवलोकं, देवलोकादादित्यम् आदित्याद्वैद्युतं; तान्वैद्युतात् पुरुषो मानसएत्य ब्रह्मलोकान्गमयति; तेतेषु ब्रह्मलोकेषु पराः परावतो वसन्ति॥ तेषां इह . नपुनरावृत्तिरस्ति .
अथ येयज्ञेन दानेन तपसा लोकं ~ जयन्ति, तेधूममभिसंभवन्ति, धूमाद्रात्रिँ, रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्यएति, मासेभ्यः पितृलोकं, पितृलोकाच्चन्द्रं; तेचन्द्रं प्राप्यान्नं भवन्ति; ताँस् तत्र देवायथा सोमँ राजानम् आप्यायस्व, अपक्षीयस्वेति एवमेनाँस् तत्र भक्षयन्ति॥ तेषां यदातत्पर्यवैति अथेममेवाकाशमभिनिष्पद्यन्त, आकाशाद्वायुं, वायोर्वृष्टिं, वृष्टेः पृथिवीं; तेपृथिवीं प्राप्यान्नं भवन्ति; . , ततो योषाग्नौ जायन्ते॥ तएवमेवानुपरिवर्तन्ते॥ अथ यएतौपन्थानौ नविदुः तेकीटाः, पतङ्गा, यदिदं दन्दशूकम्॥ 2/
योह वैज्येष्ठं च श्रेष्ठं च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति॥ प्राणोवैज्येष्ठश्च श्रेष्ठश्च॥ ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति अपि च येषां बुभूषति, यएवं वेद
योह वैवसिष्ठां वेद, वसिष्ठः स्वानां भवति॥ वाग्वैवसिष्ठा॥ वसिष्ठः स्वानां भवति . यएवं वेद
योह वैप्रतिष्ठां वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे॥ चक्षुर्वैप्रतिष्ठा; चक्षुषा हिसमेच दुर्गेच प्रतितिष्ठति॥ प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, यएवं वेद
योह वैसंपदं वेद, सँ हास्मै पद्यते, यं कामं कामयते॥ श्रोत्रं वैसंपच्; छ्रोत्रे हीमेसर्वे वेदा अभिसंपन्नाः॥ सँ हास्मै पद्यते, यं कामं कामयते, यएवं वेद
योह वाआयतनं वेदायतनँ स्वानां भवति आयतनं जनानां॥ मनो वाआयतनम्॥ आयतनँ स्वानां भवति आयतनं जनानां, यएवं वेद
योह वैप्रजातिं वेद, प्रजायते ह प्रजया पशुभी॥ रेतो वैप्रजातिः॥ प्रजायते . प्रजया पशुभिः यएवं वेद
तेहेमेप्राणा, अहँश्रेयसे विवदमाना, ब्रह्म जग्मुः . \` कोनो वसिष्ठ इति॥ . यस्मिन्व उत्क्रान्त इदँ शरीरं पापियो मन्यते, सवो वसिष्ठ इति
वाग्घोच्चक्राम॥ सासंवत्सरं प्रोष्यागत्योवाचः कथमशकत मदृतेजीवितुमिति॥ तेहोचुः यथा कडा अवदन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वाँसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति॥ प्रविवेश ह वाक्
चक्षुर्होच्चक्राम॥ तत्संवत्सरं प्रोष्यागत्योवाचः कथमशकत मदृतेजीवितुमिति॥ तेहोचुः यथान्धा, अपश्यन्तश्चक्षुषा, प्राणन्तः प्राणेन, वदन्तो वाचा, शृण्वन्तः श्रोत्रेण, विद्वाँसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति॥ प्रविवेश ह चक्षुः
श्रोत्रँ होच्चक्राम॥ तत्संवत्सरं प्रोष्यागत्योवाचः कथमशकत मदृतेजीवितुमिति॥ तेहोचुः यथा बधिरा, अशृण्वन्तः श्रोत्रेण, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, विद्वाँसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति॥ प्रविवेश ह श्रोत्रम्
मनो होच्चक्राम॥ तत्संवत्सरं प्रोष्यागत्योवाचः कथमशकत मदृतेजीवितुमिति॥ तेहोचुः यथा मुग्धा, अविद्वाँसो मनसा, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, प्रजायमाना रेतसैवमजीविष्मेति॥ प्रविवेश ह मनः
रेतो होच्चक्राम॥ तत्संवत्सरं प्रोष्यागत्योवाचः कथमशकत मदृतेजीवितुमिति॥ तेहोचुः यथा क्लीबा, अप्रजायमाना रेतासा, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वाँसो मनसैवमजीविष्मेति॥ प्रविवेश ह रेतः
अथ ह प्राणउत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेद् एवँ हैवेमान्प्राणान्त्संववर्ह॥ तेहोचुः मा, भगव, उत्क्रमीः नवैशक्ष्यामस् त्वदृतेजीवितुमिति॥ तस्यो मे बलिं कुरुतेति॥ तथेति