सयइमाँस् त्रींल् लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयाद्; अथ यावतीयं त्रयीविद्या, यस् तावत्प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयं पदमाप्नुयाद्; अथ यावदिदं प्राणि, यस् तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयाद्; अथास्या एतदेवतुरीयं दर्शतं पदं, परोरजा यएषतपति, नैवकेन चनाप्यम् कुत उ एतावत्प्रतिगृह्णीयात्
तस्या उपस्थानम् गायत्रि अस्य् एकपदी द्विपदी त्रिपदी चतुष्पदि अपदसि, नहिपद्यसे॥ नमस् ते तुरीयाय दर्शताय पदाय परोरजसेः असावदोमाप्रापदिति, यं द्विष्याद्; असावस्मै कामो मासमर्धीति वा, नहैवास्मै सकामः समृध्यते यस्मा एवमुपतिष्ठते; अहमदः प्रापमिति वा
एतद्ध वैतज् जनकोवैदेहो बुढिलमाश्वतराश्विमुवाचः यन्नुहो तद्गायत्रीविदब्रूथा, अथ कथँ हस्तीभूतोवहसीति॥ मुखँ ह्यस्याः, सम्राड्, नविदां चकरेति होवाच
तस्या आग्निरेवमुखं; यदि ह वाअपि बह्विवाग्नावभ्यादधति, सर्वमेवतत्संदहति॥ एवँ हैवैवंविद् यद्यपि बह्विव पापं करोति सर्वमेवतत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति
. हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं; तत्त्वं, पूषन्न् अपावृणु सत्यधर्माय दृष्टये॥ पूषन्न् एकर्षे, यम, षूर्य, प्राजापत्य, व्यूह रश्मीन् समूह तेजो; यत्ते रूपं कल्याणतमं, तत्ते पश्यामि॥ योऽसावसौ पुरुषः, सोऽहमस्मि॥ वायुरनिलममृतम् अथेदं भस्मान्तँ शरीरं॥ क्रतो, स्मर, कृतँ स्मर, क्रतो, स्मर, कृतँ स्मरा-॥ -ग्ने, नय सुपथा रायेऽस्मान् विश्वानि, देव, वयुनानि विद्वान्; युयोध्यस्मज् जुहुराणमेनो, भूयिष्ठां ते नमःउक्तिं विधेम॥ 6 = 14.9 =
ह्वेतकेतुर्ह . . वाअरुणेयः पन्चालानां परिषदमाजगाम॥ सआजगाम जैवलं प्रवाहणं परिचारयमाणं॥ तमुदीक्ष्याभ्युवादः कुमारा३ इति॥ सभोर्३ इति प्रतिशुश्रावा-॥ -नुशिष्टो न्वसि पित्रेति॥ ओमिति होवाच
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति॥ नेति होवाच॥ वेत्थ यथेमं लोकं पुनरापद्यन्ता३ इति॥ नेति हैवोवाच॥ वेत्थ यथासौलोकएवं बहुभिः पुनः-पुनः प्रयद्भिर्नसंपूर्यता३ इति॥ नेति हैवोवाच
वेत्थ यतिथ्यामाहुत्याँ हुतायामापः पुरुषवाचो भूत्वासमुत्थाय वदन्ती३ इति॥ नेति हैवोवाच॥ वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा, यत्कृत्वादेवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ==संबंधित कड़ियाँ== #[[उपनिषद्]] ##[[बृहदारण्यक उपनिषद्]] ###[[बृहदारण्यक उपनिषद् 1]] ###[[बृहदारण्यक उपनिषद् 2]] ###[[बृहदारण्यक उपनिषद् 3]] ###[[बृहदारण्यक उपनिषद् 4]] ###[[बृहदारण्यक उपनिषद् 5]] ==बाहरी कडियाँ== [[वर्गः:]] [[वर्गः:अपरिष्कृतम्]]
अपि हिन ऋषेर्वचः श्रुतम् द्वेसृतीअशृणवं पित्ऱ्णाम् अहं देवानामुतमर्त्यानां; ताभ्यामिदं विश्वमेजत्समेति यदन्तरापितरं मातरं चेति॥ नाहमत एकं चनवेदेति होवाच
अथ हैनं . वसत्योपमन्त्रयां चक्रे॥ अनादृत्य वसतिं कुमारः प्रदुद्राव॥ सआजगाम पितरं, तँ होवाचेति वावकिल नो भवान्पुरानुशिष्टानवोच इति॥ कथँ, सुमेध इति॥ पङ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकं चनवेदेति होवाच . कतमेतइती- -मइति ह प्रतीकान्य् उदाजहार
सहोवाचः तथा नस् त्वं, तत, जानीथा यथा, यदहं किंच वेद, सर्वमहं तत्तुभमवोचं॥ प्रेहि तु, तत्र प्रतीत्य, ब्रह्मचर्यं वत्स्याव इति॥ भवानेवगच्छत्विति
सआजगाम गौतमोयत्र प्रवाहणस्य जैवलेरास॥ तस्मा आसनमाहार्योदकं \^ आहारयां चकाराथ हास्मा अर्घं चकार
तँ होवाचः वरं भवते गौतमाय दद्म इति
सहोवाचः प्रतिज्ञतो म एषवरो; यां तुकुमारस्यान्ते वाचमभाषथाः तां मे ब्रूहीति
सहोवाचः दैवेषु वै, गौतम, तद्वरेषु, मानुषाणां ब्रूहीति
सहोवाचः विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानानां, मानो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति॥ सवै, गौतम, तीर्थेनेच्छसा इति उपैम्यहं भवन्तमिति वाचाह स्मैवपूर्व उपयन्ति
सहोपायनकीर्ताउवाच
तथा नस् त्वं, गौतम, मापराधास् तव च पितामहा, यथेयं विद्येतः पूर्वं नकस्मिँश्चनब्राह्मनउवास; तां त्वहं तुभ्यं वक्ष्यामिः कोहित्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति
असौवैलोकोऽग्निः गौतम॥ तस्यादित्यएवसमिद् रश्मयो धूमो, अहरर्चिश्, चन्द्रमा अङ्गारा .\^ नक्षत्राणि विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः श्रद्धां जुह्वति; तस्या आहुतेः सोमो राजा संभवति
पर्जन्यो वाअग्निः गौतम॥ तस्य संवत्सरएवसमिद् अभ्राणि धूमो, विद्युदर्चिः अशनिरङ्गारा, ह्रादुनयो विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः सोमं . जुह्वति; तस्या आहुतेर्वृष्टिः संभवति
अयं वैलोकोऽग्निः गौतम॥ तस्य पृथिव्य् एवसमिद् वायुर् ? धूमो, रात्रिरर्चिः दिशो अङ्गारा, अवन्तरदिशो विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवावृष्टिं जुह्वति; तस्या आहुतेरन्नँ संभवति
पुरुषो वाअग्निः गौतम॥ तस्य व्यात्तमेवसमित् प्राणोधूमो, वागर्चिश्, चक्षुरङ्गाराः, श्रोत्रं विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाअन्नं जुह्वति; तस्या आहुते रेतः संभवति
योषा वाआग्निः गौतम॥ तस्या उपस्थ एवसमिल्, लोमानि धूमो, योनिरर्चिः यदन्तः करोति, तेऽङ्गारा, अभिनन्दा विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवारेतो जुह्वति; तस्या आहुतेः पुरुषः संभवति॥ सजायते . सजीवति यावज् जीवति अथ यदाम्रियते,
अथैनमग्नये हरन्ति
तस्याग्निरेवाग्निर्भवति, समित्समिद् धूमोधूमो, अर्चिरर्चिः अङ्गारा अङ्गारा, विष्फुलिङ्गा विष्फुलिङ्गाः॥ तस्मिन्नेतस्मिन्नग्नौदेवाः पुरुषं जुह्वति; तस्या आहुतेः पुरुषो भास्वरवर्णः संभवति
तेयएवमेतद्विदुः येचामीअरण्ये श्रद्धाँ सत्यमुपासते, तेऽर्चिरभिसंभवन्ति अर्चिषोऽहः अह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङ् आदित्यएति, मासेभ्यो देवलोकं, देवलोकादादित्यम् आदित्याद्वैद्युतं; तान्वैद्युतात् पुरुषो मानसएत्य ब्रह्मलोकान्गमयति; तेतेषु ब्रह्मलोकेषु पराः परावतो वसन्ति॥ तेषां इह . नपुनरावृत्तिरस्ति .
अथ येयज्ञेन दानेन तपसा लोकं ~ जयन्ति, तेधूममभिसंभवन्ति, धूमाद्रात्रिँ, रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्यएति, मासेभ्यः पितृलोकं, पितृलोकाच्चन्द्रं; तेचन्द्रं प्राप्यान्नं भवन्ति; ताँस् तत्र देवायथा सोमँ राजानम् आप्यायस्व, अपक्षीयस्वेति एवमेनाँस् तत्र भक्षयन्ति॥ तेषां यदातत्पर्यवैति अथेममेवाकाशमभिनिष्पद्यन्त, आकाशाद्वायुं, वायोर्वृष्टिं, वृष्टेः पृथिवीं; तेपृथिवीं प्राप्यान्नं भवन्ति; . , ततो योषाग्नौ जायन्ते॥ तएवमेवानुपरिवर्तन्ते॥ अथ यएतौपन्थानौ नविदुः तेकीटाः, पतङ्गा, यदिदं दन्दशूकम्॥ 2/
योह वैज्येष्ठं च श्रेष्ठं च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति॥ प्राणोवैज्येष्ठश्च श्रेष्ठश्च॥ ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति अपि च येषां बुभूषति, यएवं वेद
योह वैवसिष्ठां वेद, वसिष्ठः स्वानां भवति॥ वाग्वैवसिष्ठा॥ वसिष्ठः स्वानां भवति . यएवं वेद
योह वैप्रतिष्ठां वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे॥ चक्षुर्वैप्रतिष्ठा; चक्षुषा हिसमेच दुर्गेच प्रतितिष्ठति॥ प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, यएवं वेद