सयथा दुन्दुभेर्हन्यमानस्य नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, दुन्दुभेस् तुग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः
सयथा वीणायै वाद्यमानायै नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, वीणायै तुग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः
सयथा शङ्खस्य ध्मायमानस्य नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, शङ्खस्य तुग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः
सयथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमाविनिश्चरन्ति एवं वाअरेऽस्य महतोभूतस्य निश्वसितम् एतद्यदृग्वेदोयजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्याउपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि दत्तम् हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि
सयथा सर्वासामपाँ समुद्रएकायनम् एवँ सर्वेषाँ स्पर्शानां त्वगेकायनम् एवँ सर्वेषां गन्धानां नासिके एकायनम् एवँ सर्वेषाँ रसानां जिह्वैकायनम् एवँ सर्वेषाँ रूपाणां चक्षुरेकायनम् एवँ सर्वेषं शब्दानां श्रोत्रमेकायनम् एवँ सर्वेषाँ सङ्कल्पानां मन एकायनम् एवँ सर्वेषां वेदानां हृदयमेकायनम् एवँ सर्वेषां कर्मणाँ हस्तावेकायनम् एवँ सर्वेषामध्वनां पादावेकायनम् एवँ सर्वेषामानन्दानामुपस्थ एकायनम् एवँ सर्वेषां विसर्गाणां पायुरेकायनम् एवँ सर्वासां विद्यानाँ वागेकायनम्
सयथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नोरसघनएवस्याद् . एवं वाअरे इदं महद्भूतमनन्तमपरं .. कृत्स्नः प्रज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय तानि~ एवानुविनयति; नप्रेत्य संज्ञास्तीत्यरे ब्रविमीति होवाच याज्ञवल्क्यः
साहोवाच मैत्रेयि अत्रैवमा भगवान्मोहान्तमापीपदन् नवाअहमिमं विजानामीतिः नप्रेत्य संज्ञास्तीति . ॥.
सहोवाच याज्ञवल्क्यो . नवाअरेऽहं मोहं ब्रवीमि अविनाशीवाअरेऽयमात्मानुच्छित्तिधर्मा, मात्रासँसर्गस् त्वस्य भवति . ॥.
16-25, 15; यद्वैतन्नपश्यति, पश्यन्वैतद्द्रष्टव्यं नपश्यति; नहिद्रष्टुर्दृष्टेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्पश्येत्
16-25, 15; यद्वैतन्नजिघ्रति, जिघ्रन्वैतद्घ्रतव्यं नजिघ्रति; नहिघ्रातुर्घ्रातेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यज् जिघ्रेत्
16-25, 15; यद्वैतन्नरसयति, विजानन्वैतद्रसं नरसयति; नहिरसयितूरसाद्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यद्रसयेत्
16-25, 15; यद्वैतन्नवदति, वदन्वैतद्वक्तव्यं नवदति; नहिवक्तुर्वचो विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यद्वदेत्
16-25, 15; यद्वैतन्नशृणोति, शृण्वन्वैतच्छ्रोतव्यं नशृणोति; नहिश्रोतुः श्रुतेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यच्छृणुयात्
16-25, 15; यद्वैतन्नमनुते, मन्वानोवैतन्मन्तव्यं नमनुते; नहिमन्तुर्मतेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यन्मन्वीत
16-25, 15; यद्वैतन्नस्पृशति, स्पृशन्वैतत्स्प्रष्टव्यं नस्पृशति; नहिस्प्रष्टुः स्पृष्टेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्स्पृशेत्
16-25, 15; यद्वैतन्नविजानाति, विजानन्वैतद्विज्ञेयं नविजानाति; नहिविज्ञातुर्विज्ञानाद्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यद्विजानीयात्॥ 24 16-25, 15; यत्र वाअन्यदिव स्यात् तत्रऽन्योऽन्यत्पश्येद् अन्योऽन्यज् जिघ्रेद् अन्योऽन्यद्रसयेद् अन्योऽन्यद्वदेद् अन्योऽन्यच्छृणुयाद् अन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेद् अन्योऽन्यद्विजानीयात्॥ 25 16-25, 15; यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन कँ रसयेत् तत्केन कमभिवदेत् तत्केन कं शृणुयात् तत्केन कं मन्वीत, तत्केन कँ स्पृशेत् तत्केन कं विजानीयाद्॥ येनेदँ सर्वं विजानाति, तं केन विजानीयाद्॥ विज्ञातारमरे केन विजानीयादित्य् उक्तानुशासनासि, मैत्रेयि एतावदरे खल्वमृतत्वमिति होक्त्वायाज्ञवल्क्यो प्रवव्रज
24-25; यत्र हि द्वैतमिव भवति, तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरँ रसयति, तदितर इतरमभिवदति, तदितर इतरँ शृणोति, तदितर इतरं मनुते, तदितर इतरँ स्पृशति, तदितर इतरं विजानाति॥ यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन कँ रसयेत् तत्केन कमभिवदेत् तत्केन कँ शृणुयात् तत्केन कं मन्वीत, तत्केन कँ स्पृशेत् तत्केन कं विजानीयाद्॥ येनेदँ सर्वं विजानाति, तं केन विजानीयात्॥ स एष नेति नेत्य् आत्मागृह्यो न हि गृह्यते, अशीर्यो न हि शीर्यते, असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति॥ विज्ञातारमरे केन विजानीयादित्य् उक्तानुशासनासि, मैत्रेयि एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार॥ [पनुस्तुब्] 26 5,26-28, 6; अथ वँशः॥ तदिदं वयं हौर्पणाय्याच्, छौर्पणय्यो गौतमाद् गौतमो वत्स्याद् वत्स्यो वात्स्याच्च पाराशर्याच्च, पाराशर्यः षांकृत्याच्च भारद्वाजाच्च, भारद्वाज औदावहेश्च हाण्डिल्याच्च, हाण्डिल्यो वैजवापाच्च गौतमाच्च, गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च, वैष्टपुरेयः हाण्डिल्याच्च ऱौहिणायनाच्च, ऱौहिणायनः हौनकाच्च जैवन्तायनाच्च ऱैभ्याच्च, ऱैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च, कौण्डिन्यायनः कौण्डिन्याभ्यां, कौण्डिन्या और्णवाभेभ्यः, और्णवाभाः कौण्डिन्यात् कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च, 27 5,26-28, 6; अग्निवेश्यः षौतवात् षौतवः पाराशर्यात् पाराशर्यो जातुकर्ण्यात् जातुकर्ण्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च, गौतमो भारद्वाजाद् भारद्वाजो वलाकाकौशिताद् वलाकाकौशितः काषायणात् काषायणः षौकरायनात् षौकरायनस् ट्रैवणेः ट्रैवणिराउपजन्धनेः आउपजन्धनिर्षायकायनात् षायकायनः कौशिकायनेः, कौशिकायनिर्घृतकौशिकाद् घृतकौशिकः पाराशर्यात् पाराशर्यः पाराशर्यात् पाराशर्यः जातुकर्ण्यात् जातुकर्ण्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्चासुरायणाच्यस्काच्च, असुरायणस् ट्रैवणेः ट्रैवणिराउपजन्धनेः आउपजन्धनिःअसुरेः असुरिर्भारद्वाजाद् भारद्वाजो अत्रेयात् 28 5,26-28 6; अत्रेयोमाण्टेः, माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहरितात् कुमारहरितोगालवाद् गालवोविदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्योवत्सनपातो बाभवाद् वत्सनपाद्बाभवः पथः षौभरात् पन्थाः षौभरोऽयास्यादाङ्गिरसाद् आयास्योऽङ्गिरसऽभुतेस् ट्वाष्ट्राद् आभुतिः ट्वाष्ट्रो विश्वरूपात्ट्वाष्ट्राद् विश्वरूपस् ट्वाष्ट्रोऽश्विभ्यां, आश्विनौ डधिच अथर्वणाद् डध्यङ्ङ् अथर्वणोऽथर्वणोडैवाद् आथर्वा डैवोः मृत्योः प्राध्वँसनान् मृत्युः प्राध्वँसनः प्राध्वँसनान् प्राध्वँसनः एकर्षेः एकर्षिर्विप्रजित्तेः विप्रजित्तिर्व्यष्टेः व्यष्टिः षनारोः, षनारुः षनातनात् षनातनः षनगात् षनगः परमेष्टिणः, परमेष्टीब्रह्मणो॥ ब्रह्म स्वयम्भू ब्रह्म नमः
अथ वँशः पशुतिमाष्यो गौपवनाद् गौपवनः पशुतिमाष्यात् पशुतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः हाण्डिल्याच्, छाण्डिल्यः कौशिकाच्च गौतमाच्च, गौतमो
अग्निवेश्याद् अग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः षैतवात् षैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण ऊद्दालकायनाद् ऊद्दालकायनो जाबालायनात् जाबालायनो माध्यन्दिनायनान् माध्यन्दिनायनः षौकरायणात् षौकरायणः काषायणात् काषायणः षायकायनात् षायकायनः कौशिकायनेः, कौशिकायनिः
घृतकौशिकाद् घृतकौशिकः प्राशर्यायणात् पारशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य असुरायणाच्च यास्काच्च, असुरायणस् ट्रैवणेः ट्रैवणिरौपजन्धनेः, औपजन्धनिरसुरेः, असुरिर्भारद्वाजाद् भारद्वाज अत्रेयाद् अत्रेयो माण्टेः, माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः पथः षौभरात् पन्थाः षौभरोऽयास्यादङ्गिरसाद् आयास्य अङ्गिरस अभूतेस् ट्वाष्ट्राद् अभूतिस् ट्वाष्ट्रो विवरूपात्ट्वाष्ट्राद् विश्वरूपस् ट्वाष्ट्रोऽव्शिभ्याम् आश्विनौ डधीच अथर्वणाद् डध्यङ्ङ् अथर्वणोऽथर्वणो डैवाद् आथर्वा डैवो मृत्योः प्राध्वँसनान् मृत्युः प्राध्वँसनः प्रध्वँसनात् प्रध्वँसन एकर्षेः, एकर्षिर्विप्रचित्तेः, विप्रचित्तिर्व्यष्टेः, व्यष्टिः षनारोः, षनारुः षनातनात् षनातनः षनगात् षनगः परमेष्ठिनः, परमेष्ठी ब्रह्मणो, ब्रह्म स्वयंभु, ब्रह्मणे नमः॥ [प्नोर्मल्] 5 = 14.8 =
1 पूर्णमदः, पूर्णमिदं, पूर्णात्पूर्णमुदच्यते॥ पूर्णस्य पूर्णमादाय, पूर्णमेवावशिष्यते॥ खं ब्रह्म, खं पुराणं, वायुरं खम् इति ह स्माह कौरव्यायणीपुत्रो॥ वेदोऽयं, ब्राह्मणाविदुः वेदैनेन यद्वेदितव्यम्॥ 2
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः देवामनुष्याअसुराः
उषित्वाब्रह्मचर्यं देवाऊचुः ब्रवीतु नो भवानिति॥ तेभ्यो हैतदक्षरमुवाचः दइति; व्यज्ञासिष्टा३ इति॥ व्यज्ञासिष्मेति होचुः दाम्यतेति न आत्थेति॥ ओमिति होवाच, व्यज्ञासिष्टेति
अथ हैनं मनुष्याऊचुः ब्रवीतु नो भवानिति॥ तेभ्यो हैतदेवाक्षरमुवाचः द इति; व्यज्ञासिष्टा३ इति॥ व्यज्ञासिष्मेति होचुः दत्तेति न आत्थेति॥ ओमिति होवाच, व्यज्ञासिष्टेति
अथ हैनमसुरा ऊचुः ब्रवीतु नो भवानिति॥ तेभ्यो हैतदेवाक्षरमुवाचः द इति; व्यज्ञासिष्टा३ इति॥ व्यज्ञासिष्मेति होचुः दयध्वमिति न आत्थेति॥ ओमिति होवाच, व्यज्ञासिष्टेति॥ तदेतदेवैषादैवी वागनुवदति स्तनयित्नुः ददद इति; दम्यत दत्तदयध्वमिति॥ तदेतत्त्रयँ शिक्षेद् दमं, दानं, दयामिति॥ 3/ ॥ वायुरनिलममृतं भस्मन्तँ शरीरम्॥ ओ३म् क्रतो स्मर, क्लिबेस्मर, कृतँ स्मरा-॥ -ग्ने, नय सुपथा रायेअस्मान् विश्वानि, देव, वयुनानि विद्वान् युयोध्यस्मज् जुहुराणमेनो भूयिष्ठां ते नमःउक्तिं विधेम॥ 4/
एषप्रजापतिर्यद्धृदयम् एतद्ब्रह्मैतत्सर्वं॥ तदेतत्त्र्यक्षरँ: हृदयमिति॥ हृ इत्य् एकमक्षरम् अभिहरन्त्यस्मै स्वाश्चान्येच, यएवं वेद॥ दइत्य् एकमक्षरम् ददन्त्य् अस्मै स्वाश्चान्येच, यएवं वेद॥ यमित्य् एकमक्षरम् एति स्वर्गं लोकं, यएवं वेद॥ 5/
तद्वैतद् एतदेवतदास, सत्यमेव॥ सयोह एवम् . एतन्महद्यक्षं प्रथमजं वेदः सत्यं ब्रह्मेति, जयतीमाँल् लोकान्॥ जितइन्न्वसावसद् यएवमेतन्महद्यक्षं प्रथमजं वेदः सत्यं ब्रह्मेति; सत्यँ ह्य् एवब्रह्म॥ 6
,4 आप एवेदमग्र आसुस्; ताआपः सत्यमसृजन्त, सत्यं ब्रह्म, ब्रह्म प्रजापतिं, प्रजापतिर्देवान्॥ 2/6, 1 तेदेवाः सत्यमित्य् ! उपासते तदेतत्त्र्यक्षरँ: सत्यम् इति॥ सइत्य् एकमक्षरं; तीत्य् एकमक्षरं, अम् इत्य् एकमक्षरं॥ प्रथमोत्तमेअक्षरे सत्यं, मध्यतोऽनृतम् तदेतदनृतम् . सत्येन परिगृहीतँ सत्यभूयमेवभवति॥ नैवंविद्वाँसमनृतँ हिनस्ति
तद्यत्तत्सत्यमसौसआदित्यो॥ यएषएतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ; रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः, प्राणैरयममुष्मिन्॥ सयदोत्क्रमिष्यन्भवति, शुद्धमेवैतन्मण्डलं पश्यतिः नैनमेतेरश्मयः प्रत्यायन्ति
यएषएतस्मिन्मण्डले पुरुषः तस्य भूरिति शिरः एकँ शिर, एकमेतदक्षरं; भुव इति बाहूः द्वौबाहू, द्वेएतेअक्षरे; स्वरिति प्रतिष्ठाः द्वेप्रतिष्ठेद्वेएतेअक्षरे॥ तस्योपनिषदहरिति॥ हन्ति पाप्मानं जहाति च, यएवं वेद