सयदाहासतो मा सद्गमयेति, मृत्युर्वाअसत् सदमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्य् एवैतदाह
तमसो मा ज्योतिर्गमयेति, मृत्युर्वैतमो, ज्योतिरमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्य् एवैतदाह॥ मृत्योर्मामृतं गमयेति, नात्र तिरोहितमिवास्ति
अथ यानीतराणि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत्; तस्मादु तेषु वरं वृणीत, यं कामं कामयेत, तँ॥ सएषएवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते, तमागायति॥ तद्धैतल् लोकजिदेव, नहैवालोक्यताया आशास्ति, यएवमेतत्साम वेद॥ 4 = 14.4.2.1-31 =
आत्मैवेदमग्र आसीत्पुरुषविधः॥ सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्॥ सोऽहमस्मीत्यग्रे व्याहरत्॥ ततोऽहंनामाभवत्॥ तस्मादप्य् एतर्ह्य् आमन्त्रितोः अहमयमित्य् एवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति
सयत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुष॥ ओषति ह वैसतं, योऽस्मात्पूर्वो बुभूषति, यएवं वेद
सोऽबिभेत्; तस्मादेकाकीबिभेति॥ सहायमीक्षां चक्रेः यन्मदन्यन्नास्ति, कस्मान्नुबिभेमीति॥ तत एवास्य भयं वीयाय॥ कस्माद्ध्यभेष्यद् द्वितीयाद्वैभयं भवति
सवैनैवरेमे; तस्मादेकाकीनरमते॥ सद्वितीयमैच्छत्॥ सहैतावानास यथा स्त्रीपुमाँसौ सम्परिष्वक्तौ
सइममेवात्मानं द्वेधापातयत्; ततः पतिश्च पत्नी चाभवतां॥ तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः॥ तस्मादयमाकाशः स्त्रियापूर्यत एव॥ ताँ समभवत् ततो मनुष्याअजायन्त
सोहेयमीक्षां चक्रेः कथं नुमात्मन एवजनयित्वासम्भवति॥ हन्त तिरोऽसानीति
सागौरभवद् वृषभइतरस्; ताँ समेवाभवत् ततो गावोऽजायन्त
वडवेतराभवद् अश्ववृषइतरो; गर्दभीतरा, गर्दभइतरस्; ताँ समेवाभवत् तत एकशफमजायत
अजेतराभवद् बस्तइतरो; अविरितरा, मेषइतरस्; ताँ समेवाभवत् ततोऽजावयोऽजायन्तैवमेवयदिदं किङ्च मिथुनमापिपीलिकाभ्यः तत्सर्वमसृजत
सोऽवेद् अहं वावसृष्टिरस्मि अहँ हीदँ सर्वमसृक्षीति॥ ततः सृष्टिरभवत्॥ सृष्ट्याँ हास्यैतस्यां भवति, यएवं वेद
अथेत्यभ्यमन्थत्॥ समुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत॥ तस्मादेतदुभयमलोमकमन्तरतो, अलोमका हियोनिरन्तरतः
तद्यदिदमाहुः अमुं यजामुं यजेत्य् एकैकं देवम् एतस्यैवसाविसृष्टिः एषउ ह्य् एवसर्वे देवा
अथ यत्किङ्चेदमार्द्रं, तद्रेतसोऽसृजत; तदु सोम॥ एतावद्वाइदँ सर्वमन्नं चैवान्नादश्च; सोम एवान्नम् अग्निरन्नादः
सैषाब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत, तस्मादतिसृष्टिः अतिसृष्ट्याँ हास्यैतस्यां भवति, यएवं वेद
तद्धेदं तर्ह्यव्याकृतमासीत्॥ तन्नामरूपाभ्यामेवव्याक्रियतासौनामायमिदँरूप इति॥ तदिदमप्य् एतर्हि नामरूपाभ्यामेवव्याक्रियत असौनामायमिदँरूप इति
सएषइहप्रविष्ट आनखाग्रेभ्यो॥ यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरोवा विश्वम्भरकुलाये, तं नपश्यन्ति अकृत्स्नो हिसः;
प्राणन्नेवप्राणोनाम भवति, वदन्वाक् पश्यंश्चक्षुः, शृण्वङ्छ्रोत्रं, मन्वानोमनः॥ तान्यस्यैतानि कर्मनामान्य् एव॥ सयोऽत एकैकमुपास्ते, नसवेदाकृत्स्नो ह्य् एषोऽत एकैकेन भवति
आत्मेत्य् एवोपासीतात्र ह्य् एतेसर्व एकं भवन्ति॥ तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्य् एतत्सर्वं वेद॥ यथा ह वैपदेनानुविन्देद् एवं कीर्तिँ श्लोकं विन्दते, यएवं वेद
तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात्सर्वस्माद् अन्तरतरं, यदयमात्मा॥ सयोऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियँ रोत्स्यतीतीश्वरोह तथैवस्याद्॥ आत्मानमेवप्रियमुपासीत॥ सयआत्मानमेवप्रियमुपास्ते, नहास्य प्रियं प्रमायुकं भवति
तदाहुः यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्यामन्यन्ते, किमु तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति
ब्रह्म वाइदमग्र आसीत्॥ तदात्मानमेवावेद् अहं ब्रह्मास्मीति; तस्मात्तत्सर्वमभवत्॥ तद्यो-यो देवानां प्रत्यबुध्यत, सएवतदभवत् तथर्षीनां, तथा मनुष्याणाम्
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेः अहं मनुरभवँ सूर्यश्चेति॥ तदिदमप्य् एतर्हि यएवं वेदाहं ब्रह्मास्मीति, सइदँ सर्वं भवति, तस्य ह नदेवाश्चनाभूत्या ईशत, आत्माह्य् एषाँ सभवति॥ अथ योऽन्यां देवतामुपास्तेः अन्योऽसाउ अन्योऽहमस्मीति, नसवेद॥ यथा पशुरेवँ सदेवानां॥ यथा ह वैबहवः पशवो मनुष्यं भुङ्ज्युः एवमेकैकः पुरुषो देवान्भुनक्ति॥ एकस्मिन्नेवपशावादीयमानेऽप्रियं भवति, किमु बहुषु; तस्मादेषां तन्नप्रियं यदेतन्मनुष्याविद्युः
ब्रह्म वाइदमग्र आसीदेकमेव॥ तदेकँ सन्नव्यभवत्॥ तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्य् एतानि देवत्राक्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमोमृत्युरीशान इति॥ तस्मात्क्षत्रात्परं नास्ति; तस्माद्! ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये॥ क्षत्रएवतद्यशो दधाति, सैषाक्षत्रस्य योनिर्यद्ब्रह्म॥ तस्माद्यद्यपि राजा परमतां गच्छति, ब्रह्मैवान्ततउपनिश्रयति स्वां योनिं॥ यउ एनँ हिनस्ति, स्वाँ सयोनिमृच्छति॥ सपापीयान्भवति, यथा श्रेयाँसँ हिँसित्वा
सनैवव्यभवत्॥ सविशमसृजत, यान्य् एतानि देवजातानि गणशआख्यायन्ते, वसवो रुद्राआदित्याविश्वे देवामरुत इति
सनैवव्यभवत्॥ सशौद्रं वर्णमसृजत पूषणम्॥ इयं वैपूषेयँ हीदँ सर्वं पुष्यति यदिदं किङ्च
सनैवव्यभवत्॥ तच्छ्रेयो रूपमत्यसृजत धर्मं॥ तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः॥ तस्माद्धर्मात्परं नास्ति॥ अथो अबलीयान्बलीयाँसमाशँसते धर्मेण यथा राज्ञैवं॥ योवैसधर्मः, सत्यं वैतत्॥ तस्मात्सत्यं वदन्तमाहुः धर्मं वदतीति, धर्मं वा वदन्तँ: सत्यं वदतीति एतद्ध्य् एवैतदुभयं भवति
तदेतद्ब्रह्म क्षत्रं विट् शूद्रः॥ तदग्निनैवदेवेषु ब्रह्माभवद् ब्राह्मणोमनुष्येषु, क्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रेण शूद्रः॥ तस्मादग्नावेवदेवेषु लोकमिच्छन्ते, ब्राह्मणेमनुष्येषु एताभ्याँ हिरूपाभ्यां ब्रह्माभवत्