तदेषश्लोको भवतिः तदेवसत्तत् सहकर्मणैति लिङ्गं मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मणस् तस्य यत्किङ्चेहकरोत्ययं तस्माल् लोकात्पुनरैति अस्मैलोकाय कर्मण, इति नुकामयमानो; अथाकामयमानो योऽकामोनिष्काम आत्मकाम आप्तकामो भवति नतस्माद् प्राणाउत्क्रामन्ति अत्रैवसमवनीयन्ते . ॥. ब्रह्मैव सन्ब्रह्माप्येति
तदेषश्लोको भवतिः यदासर्वे प्रमुच्यन्ते कामा येऽस्य हृदिश्रिता अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुत इति
तद्यथाहिनिर्व्लयनीवल्मीके मृताप्रत्यस्ता शयीतैवमेवेदं शरीरं शेते॥ अथायमनस्थिकोऽशरीरः प्राज्ञआत्मा .\^ ब्रह्मैवलोक एव, सम्राड्, इति होवाच याज्ञवल्क्यः . ॥. सोऽहं भगवते सहस्रानि ददामीति होवाच जनकोवैदेहः
तदप्य् एतेश्लोका अणुः पन्था वितरः पुराणो; माँ स्पृष्टोऽनुवित्तो मयैव तेन धीरा अपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोकमितोविमुक्ताः
तस्मिङ्छुक्लमुतनीलमाहुः पिङ्गलँ हरितं लोहितं चै- -षपन्था ब्रह्मणा हानुवित्तस् तेनैति ब्रह्मवित्तैजसः पुण्यकृच्च \^
अन्धं तमः प्रविशन्ति येऽसम्भूतिम् . उपासते; ततो भूय इव तेतमो यउ सम्भूत्याँ . रताः
असुर्या नाम तेलोका अन्धेन तमसावृतास् ताँस् तेप्रेत्यापिगच्छत्य् य् अविद्वाँसोऽबुधाजनाः
तदेवसन्तस् तदु भवामो . नचेदवेदी महती विनष्टिर् येतद्विदुरमृतास् तेभवन्त्य् अथेतरे दुःखमेवोपयन्ति
आत्मानं चेद्विजानीयाद् अयमस्मीति पुरुषः किमिच्छन्कस्य कामाय शरीरमनु संचरेत्
यस्यानुवित्तः प्रतिबुद्ध आत्मा- -स्मिन्त्संदेह्येगहने प्रविष्टः सविश्वकृत् सहिसर्वस्य कर्ता तस्य लोकः, सउ लोकएव
यदैतमनुपश्यति अत्मानं देवमङ्जसे- -शानं भूतभव्यस्य नतदा विचिकित्सति \`
यस्मिन्पङ्च पङ्चजना आकाशश्च प्रतिष्ठितस् तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतं
यस्मादर्वाक्संवत्सरो अहोभिः परिवर्तते तद्देवाज्योतिषां ज्योतिर् आयुर्ह्य् उपासते अमृतं
प्राणस्य प्राणमुतचक्षुषश्चक्षुर् उतश्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो येमनो विदुः तेनिचिक्युर्ब्रह्म पुराणमग्र्यं 19 मनसैवाप्तव्यं नेहनानास्ति किं चन
मृत्योः समृत्युमाप्नोति यइहनानेव पश्यति 20 मनसैवानुद्रष्टव्यं एतदप्रमयं ध्रुवम्
विरजः पर आकाशाद् अजआत्मामहान्ध्रुवस् 21 तमेवधीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणो नानुध्यायाद्बहूङ्छब्दान् वाचोविग्लापनँ हितद् इति
सवाअयमात्मा . ; य एषोऽन्तर्हृदय आकाशः ~ सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किङ्च . ॥. सनसाधुना कर्मणा भूयान्नोएवासाधुना कनीयान् . एषभूताधिपतिर् . एषलोकेश्वरएशलोकपाल . ससेतुर्विधरण एषां लोकानामसंभेदाय
तमेतं वेदानुवचनेन . विविदिषन्ति, ब्रह्मचर्येन तपसा श्रद्धया यज्ञेनानाशकेन चैतम् एवविदित्वामुनिर्भवति एतमेवप्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति
एतद्ध स्म वैतत्पूर्वे ब्रह्मणाअनुचाना . विद्वाँसः प्रजां नकामयन्तेः किं प्रजया करिष्यामो येषां नोऽयमात्मायम्लोकइति॥ तेह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति; याह्य् एवपुत्रैषणासावित्तैषणा, यावित्तैषणासालोकैषणोभेह्य् एतेएषणे एवभवतः
सएषनेति नेत्य् आत्मागृह्यो नहिगृह्यते, अशीर्यो नहिशीर्यते, असङ्गोऽसितो नसज्यते नव्यथते .\^ , . य् अतः [+]+[/+]पापमकरवमित्यतः कल्याणमकरवमित्य् उभे-उभे ह्य् एष एतेतरति अमृतः साध्वसाधुनी . \^॥. नैनं कृताकृते तपतः
तदेतदृचाभ्युक्तम् एषनित्यो महिमाब्राह्मणस्य नकर्मणा वर्धते नोकनीयान्॥ तस्यैवस्यात्पदवित्तं विदित्वा नकर्मणा लिप्यते पापकेनेति॥ तस्मादेवंविच्छान्तोदान्तउपरतस् तितिक्षुः श्रद्धावित्तो भूत्वात्मन्य् एवात्मानं पश्येत्! सर्वमात्मानं पश्यति, सर्वोऽअस्यात्माभवति सर्वस्यात्माभवति . ॥., . सर्वं पाप्मानं तरति, नैनं पाप्मातपति, सर्वं पाप्मानं तपति, विपापोविरजोविजिघत्सोऽपिपसो . , ॥ ब्राह्मणोभवति, यएवं वेद . ॥., . , सम्राड्, एनं प्राप्तोऽसीति होवाच याज्ञवल्क्यः॥ .
सवाएषमहानजआत्मान्नादोवसुदानः॥ सयोहैवमेतं महान्तमजमात्मानमन्नादं वसुदानं वेद, विन्दते वसु . विन्दते वसु,
सवाएषमहानजआत्माजरोऽमरोऽभयोऽमृतो .\^. ब्रह्माभयं वै, जनक, प्राप्तोऽसीति होवाच याज्ञवल्क्यः .: सोऽहं भगवते विदेहान्ददामि माम्चापि सहदास्यायेति . ॥. 5 = 14.7.3 =
अथ ह याज्ञवल्क्यस्य द्वेभार्येबभूवतुर्मैत्रेयी च कात्यायनीच; तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव, स्त्रीप्रज्ञैवतर्हि कात्यायनी॥ सोऽन्यद्वृत्तमुपाकरिष्यमाण .\^
याज्ञवल्क्योः मैत्रेयीति होवाच प्रव्रजिष्यन्वाअरेऽहमस्मात्स्थानादस्मि॥ हन्त तेऽनया कत्यायन्यान्तं करवाणीति
साहोवाच मैत्रेयीः यन्नुम इयं, भगोः, सर्वा पृथिवीवित्तेन पूर्णास्यात् स्यां न्वहं तेनामृताहो३ नेति॥ नेति होवाच याज्ञवल्क्यो, यथैवोपकरणवतां जीवितं, तथैवते जीवितँ स्याद् अमृतत्वस्य तुनाशास्ति वित्तेनेति
साहोवाच मैत्रेयीः येनाहं नामृता स्यां, किमहं तेन कुर्यां॥ यदेवभगवान्वेद, तदेवमे ब्रूहीति
सहोवाच याज्ञवल्क्यः प्रिया . खलु नो भवती सती, प्रियमवृतद् \^ धन्त खलु भवति, तेऽहं तद्वक्ष्यामि, व्याख्यामि ते; वाचं तुमे निदिध्यासस्वेति .: एतद्व्याख्यास्यामि ते; \` ब्रवितु भगवानिति .
सहोवाच याज्ञवल्क्यो . नवाअरे पत्युः कामाय पतिः प्रियोभवति आत्मनस् तुकामाय पतिः प्रियोभवति; नवाअरे जायायै कामाय जायाप्रियाभवति आत्मनस् तुकामाय जायाप्रियाभवति; नवाअरे पुत्राणां कामाय पुत्राः प्रियाभवन्ति आत्मनस् तुकामाय पुत्राः प्रियाभवन्ति; नवाअरे वित्तस्य कामाय वित्तं प्रियं भवति आत्मनस् तुकामाय वित्तं प्रियं भवति; नवाअरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति आत्मनस् तुकामाय ब्रह्म प्रियं भवति; नवाअरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति आत्मनस् तुकामाय क्षत्रं प्रियं भवति; नवाअरे लोकानां कामाय लोकाः प्रियाभवन्ति आत्मनस् तुकामाय लोकाः प्रियाभवन्ति; नवाअरे देवानां कामाय देवाः प्रियाभवन्ति आत्मनस् तुकामाय देवाः प्रियाभवन्ति; नवाअरे भूतानां कामाय भूतानि प्रियाणि भवन्ति आत्मनस् तुकामाय भूतानि प्रियाणि भवन्ति; नवाअरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस् तुकामाय सर्वं प्रियं भवति आत्मावाअरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो, मैत्रेयि आत्मनो वाअरे दर्शनेन श्रवणेन मत्याविज्ञानेनेदँ सर्वं विदितम्
ब्रह्म तं परादाद् योऽन्यत्रात्मनो वेदान्वेद; वेदास् तं परादुः योऽन्यत्रात्मनो वेदान्वेद; यज्ञास् तं परादुः योऽन्यत्रात्मनो यज्ञान्वेद .: योऽन्यत्रात्मनो ब्रह्म वेद; क्षत्रं तं परादाद् योऽन्यत्रात्मनः क्षत्रं वेद; लोकास् तं परादुः योऽन्यत्रात्मनो लोकान्वेद; देवास् तं परादुः योऽन्यत्रात्मनो देवान्वेद; वेदास् तं परादुः . भूतानि तं परादुः योऽन्यत्रात्मनो भूतानि वेद; सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेद; इदं ब्रह्मेदं क्षत्रमिमेलोकाइमेदेवाइमेवेदा इमानि भूतानीदँ सर्वं यदयमात्मा