सएषनेति नेत्य् आत्मागृह्यो नहिगृह्यतेऽशीर्यो नहिशीर्यतेऽसङ्गोऽसितो नसज्यते नव्यथते .\^ अभयं वै, जनक, प्राप्तोऽसीति होवाच याज्ञवल्क्यः॥ सहोवाच जनकोवैदेहोः नमस् ते, याज्ञवल्क्याभयं त्वागच्छताद्योनो, भगवन् अभयं वेदयस .: स होवाच जनको वैदेहोऽभयं त्वागच्छताद् याज्ञवल्क्य, यो नो, भगवन् अभयं वेदयसे; नमस् तेऽस्तु इमेविदेहाअयमहमस्मीति॥ 3 = 14.7.1 =
जनकँ ह वैदेहं याज्ञवल्क्यो जगामः समेनेन वदिष्य इत्य् अथ ह यज् जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रेसमूदतुस् तस्मै ह याज्ञवल्क्यो वरं ददौ॥ सह कामप्रश्नमेववव्रे॥ तँ हास्मै ददौ॥ तँ ह सम्राड् एवपूर्वः पप्रच्छ
याज्ञवल्क्य, किंज्योतिरयं पुरुष इति॥ आदित्यज्योतिः, सम्राड्, इति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति॥ एवमेवैतद् याज्ञवल्क्य
अस्तमित आदित्ये, याज्ञवल्क्य, किंज्योतिरेवायं पुरुष इति॥ चन्द्रज्योतिः, सम्राड्, इति होवाच; चन्द्रेणैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति॥ एवमेवैतद् याज्ञवल्क्य
अस्तमित आदित्ये, याज्ञवल्क्य, चन्द्रमस्यस्तमिते, किंज्योतिरेवायं पुरुष इति॥ अग्निज्योतिः, सम्राड्, इति होवाच अग्निनैवज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति॥ एवमेवैतद् याज्ञवल्क्य
अस्तमित आदित्ये, याज्ञवल्क्य, चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, किंज्योतिरेवायं पुरुष इति॥ वाग्ज्योतिः, सम्राड्, ! इति होवाच वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येति॥ तस्माद्वै, सम्राड्, अपि यत्र स्वः पाणिर्नविनिर्ज्ञायते, अथ यत्र वागुच्चरति उपैवतत्र न्येतीति॥ एवमेवैतद् याज्ञवल्क्य
अस्तमित आदित्ये, याज्ञवल्क्य, चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किंज्योतिरेवायं पुरुष इति॥ आत्मज्योतिः, सम्राड्, इति होवाच ! आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति
कतमआत्मेति॥ योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः \^\` ससमानः सन्नुभौलोकौसंचरति ध्यायतीव लेलायतीव सधीः \` स्वप्नो भूत्वेमं लोकमतिक्रामति . \^
सवाअयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः सँसृज्यते॥ सउत्क्रामन्म्रियमाणः पाप्मनो विजहाति मृत्योरूपाणि .
तस्य वाएतस्य पुरुषस्य द्वेएवस्थाने भवतः इदं च परलोकस्थानं च; सन्ध्यं तृतीयँ स्वप्नस्थानं; तस्मिन्त्सन्ध्ये स्थाने तिष्ठनुभेस्थाने पश्यतीदं च परलोकस्थानं च
अथ यथाक्रमोऽयं परलोकस्थाने भवति; तमाक्रममाक्रम्योभयान्पाप्मन आनन्दाँश्च पश्यति॥ सयत्रायं . प्रस्वपिति अस्यलोकस्य सर्वावतो मात्रामपादाय, स्वयं विहत्य स्वयं निर्माय स्वेन भासास्वेन ज्योतिषा प्रस्वपिति अत्रायं पुरुषः स्वयंज्योतिर्भवति
नतत्र रथा नरथयोगा नपन्थानो भवन्ति अथ रथान्रथयोगान्पथः सृजते॥ नतत्रानन्दामुदः प्रमुदो भवन्ति अथानन्दान्मुदः प्रमुदः सृजते॥ नतत्र वेशान्ताः स्रवन्त्यः पुष्करिण्यो भवन्ति अथ वेशान्तान्स्रवन्तीः पुष्करिणीः सृजते; सहिकर्ता
तदप्य् एतेश्लोकाः स्वप्नेन शारीरमभिप्रहत्या- -सुप्तः सुप्तानभिचाकशीति शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहँसः
प्राणेन रक्षन्नपरं कुलायं बहिः कुलायादमृतश्चरित्वा, सईयतेऽमृतो यत्रकामं हिरण्मयः पौरुष एकहँसः
स्वप्नान्तउच्चावचमीयमानो रूपाणि देवः कुरुते बहून्य् उतेव स्त्रीभिः सहमोदमानो जक्षदुतेवापि भयानि पश्यन्
आराममस्य पश्यन्ति नतं कश्चनपश्यतीति तं नायतं बोधयेदित्य् आहुः दुर्भिषज्यँ हास्मैभवति, यमेषनप्रतिपद्यते
अथो खल्वाहुः जागरितदेशएवास्यैस; यानि ह्य् एवजाग्रत्पश्यति तानि सुप्तइत्यत्रायं पुरुषः स्वयंज्योतिर्भवतीति॥ एवमेवैतद् याज्ञवल्क्यः . \`॥. सोऽहं भगवते सहस्रं ददामि॥ अत ऊर्ध्वं विमोक्षायैव . ब्रूहीति
. 40 : 34 सवाएषएतस्मिन्त्स्वप्नान्ते रत्वाचरित्वादृष्ट्वैवपुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव सयदत्र किङ्चित्पश्यत्यनन्वागतस् तेन भवति असङ्गो ह्ययं पुरुष इति॥ एवमेवैतद् याज्ञवल्क्य॥ सोऽहं भगवते सहस्रं ददामि॥ अत ऊर्ध्वं विमोक्षायैवब्रूहीति
. स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव; स यत्तत्र किङ्चित्पश्यत्यनन्वागतस् तेन भवति असङ्गो ह्ययं पुरुष इति॥ एवमेवैतद् याज्ञवल्क्य॥ सोऽहं भगवते सहस्रं ददामि॥ अत ऊर्ध्वं विमोक्षायैव ब्रूहीति
. स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति स्वप्नान्तायैव
तद्यथा महामत्स्यउभेकूले अनुसंचरति पूर्वं चापरं चैवमेवायं पुरुष एताउभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च
तद्यथास्मिन्नाकाशेश्येनोवा सुपर्णोवा विपरिपत्य रान्तः सँहत्य पक्षौसंलयायैवध्रियत, एवमेवायं पुरुष एतस्मा अन्ताय धवति यत्र सुप्तोनकं चनकामं कामयते नकं चनस्वप्नं पश्यति
तावाअस्यैताहितानाम नाड्योयथा केशः सहस्रधाभिन्नस् तावताणिम्नातिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा॥ अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेवजाग्रद्भयं पश्यति तदत्राविद्यया भयं . मन्यते॥ अथ यत्र राजेव देवइवाहम् एवइदँ सर्वं अस्मीति मन्यते सोऽस्य परमोलोको॥ अथ सुप्तोनकं चनकामं कामयते नकं चनस्वप्नं पश्यति . ॥.
तद्वाअस्यैतदात्मकाममाप्तकाममकामं .. रूपं॥ तद्यथा प्रियया स्त्रियासंपरिष्वक्तो नबाह्यं किं चनवेद नान्तरमेवमेवायं पुरुषः शारिरआत्मा . प्राज्ञनात्मना संपरिष्वक्तो नबाह्यं किं चनवेद नान्तरं
तद्वाअस्यैतदतिच्छन्दोऽपहतपाप्माभयँ रूपमशोकान्तरम्
अत्र पितापिता भवति मातामाता लोकाअलोका देवाअदेवा वेदा अवेदा यज्ञोऽयज्ञो . अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा पौल्कसोऽपौल्कसश्चाण्डालोऽचण्डालः . . श्रमणोऽश्रमणस् तापसोऽतापसोऽनन्वागतः पुण्येनानन्वागतः पापेन; तीर्णोहितदासर्वाङ्शोकान्हृदयस्य भवति
यद्वैतन्नपश्यति, पश्यन्वैतद्द्रष्टव्यं . नपश्यतिः नहिद्रष्टुर्दृष्टेर्विपरिलोपोविद्यतेऽविनाशित्वान्; नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्पश्येत्
यद्वैतन्नजिघ्रति, जिघ्रन्वैतद्घ्रातव्यं . नजिघ्रति; नहिघ्रातुर्घ्रातेर्विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यज् जिघ्रेत्
यद्वैतन्नरसयति, विजानन्वैतद्रसं नरसयति; नहिरसयितूरसाद् विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यद्रसयेत्
यद्वैतन्नवदति, वदन्वैतद्वक्तव्यं . नवदति; नहिवक्तुर्वचो विपरिलोपोविद्यतेऽविनाशित्वान् नतुतद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यद्वदेत्