सोऽयास्य आङ्गिरसो, अङ्गानाँ हिरसः॥ प्राणोवाअङ्गानाँ रसः॥ प्राणोहिवाअङ्गानाँ रसः तस्माद्यस्मात्कस्माच्चाङ्गात्प्राणउत्क्रामति, तदेवतच्छुष्यति एषहिवाअङ्गानाँ रसः
एषउ एवबृहस्पतिः वाग्वैबृहती, तस्या एषपतिः तस्मादु बृहस्पतिः
एषउ एवब्रह्मणस्पतिः वाग्वैब्रह्म, तस्या एषपतिः तस्मादु ब्रह्मणस्पतिः
एषउ एवसाम; वाग्वैसामैषसाचामश्चेति, तत्साम्नः सामत्वं॥ यद्वेवसमः प्लुषिणा, समोमशकेन, समोनागेन, समएभिस् त्रिभिर्लोकैः, समोऽनेन सर्वेण, तस्माद्वेवसामाश्नुतेसाम्नः सायुज्यँ सलोकतां, यएवमेतत्साम वेद
एषउ वाउद्गीथः॥ प्राणोवाउत् प्राणेन हीदँ सर्वमुत्तब्धं॥ वागेवगीथोच्च गीथा चेति, सउद्गीथः
तद्धापि ब्रह्मदत्तश्चैकितानेयोराजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति॥ वाचाच ह्य् एवसप्राणेन चोदगायदिति
तस्य हैतस्य साम्नो यः स्वं वेद, भवति हास्य स्वं॥ तस्य वैस्वर एवस्वं॥ तस्मादार्त्विज्यं करिष्यन्वाचिस्वरमिच्छेत, तया वाचास्वरसम्पन्नयार्त्विज्यं कुर्यात्॥ तस्माद्यज्ञेस्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति॥ भवति हास्य स्वं, यएवमेतत्साम्नः स्वं वेद
तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णं॥ तस्य वैस्वर एवसुवर्णं॥ भवति हास्य सुवर्णं, यएवमेतत्साम्नः सुवर्णं वेद
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति ह तिष्ठति॥ तस्य वैवागेवप्रतिष्ठा, वाचिहिखल्वेषएतत्प्राणः प्रतिष्ठितो गीयते, अन्न इत्य् उ हैक आहुः
अथातः पवमानानामेवाभ्यारोहः॥ सवैखलु प्रस्तोतासाम प्रस्तौति॥ सयत्र प्रस्तुयात् तदेतानि जपेद् असतो मा सद्गमय तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति
सयदाहासतो मा सद्गमयेति, मृत्युर्वाअसत् सदमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्य् एवैतदाह
तमसो मा ज्योतिर्गमयेति, मृत्युर्वैतमो, ज्योतिरमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्य् एवैतदाह॥ मृत्योर्मामृतं गमयेति, नात्र तिरोहितमिवास्ति
अथ यानीतराणि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत्; तस्मादु तेषु वरं वृणीत, यं कामं कामयेत, तँ॥ सएषएवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते, तमागायति॥ तद्धैतल् लोकजिदेव, नहैवालोक्यताया आशास्ति, यएवमेतत्साम वेद॥ 4 = 14.4.2.1-31 =
आत्मैवेदमग्र आसीत्पुरुषविधः॥ सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्॥ सोऽहमस्मीत्यग्रे व्याहरत्॥ ततोऽहंनामाभवत्॥ तस्मादप्य् एतर्ह्य् आमन्त्रितोः अहमयमित्य् एवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति
सयत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुष॥ ओषति ह वैसतं, योऽस्मात्पूर्वो बुभूषति, यएवं वेद
सोऽबिभेत्; तस्मादेकाकीबिभेति॥ सहायमीक्षां चक्रेः यन्मदन्यन्नास्ति, कस्मान्नुबिभेमीति॥ तत एवास्य भयं वीयाय॥ कस्माद्ध्यभेष्यद् द्वितीयाद्वैभयं भवति
सवैनैवरेमे; तस्मादेकाकीनरमते॥ सद्वितीयमैच्छत्॥ सहैतावानास यथा स्त्रीपुमाँसौ सम्परिष्वक्तौ
सइममेवात्मानं द्वेधापातयत्; ततः पतिश्च पत्नी चाभवतां॥ तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः॥ तस्मादयमाकाशः स्त्रियापूर्यत एव॥ ताँ समभवत् ततो मनुष्याअजायन्त
सोहेयमीक्षां चक्रेः कथं नुमात्मन एवजनयित्वासम्भवति॥ हन्त तिरोऽसानीति
सागौरभवद् वृषभइतरस्; ताँ समेवाभवत् ततो गावोऽजायन्त
वडवेतराभवद् अश्ववृषइतरो; गर्दभीतरा, गर्दभइतरस्; ताँ समेवाभवत् तत एकशफमजायत
अजेतराभवद् बस्तइतरो; अविरितरा, मेषइतरस्; ताँ समेवाभवत् ततोऽजावयोऽजायन्तैवमेवयदिदं किङ्च मिथुनमापिपीलिकाभ्यः तत्सर्वमसृजत
सोऽवेद् अहं वावसृष्टिरस्मि अहँ हीदँ सर्वमसृक्षीति॥ ततः सृष्टिरभवत्॥ सृष्ट्याँ हास्यैतस्यां भवति, यएवं वेद
अथेत्यभ्यमन्थत्॥ समुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत॥ तस्मादेतदुभयमलोमकमन्तरतो, अलोमका हियोनिरन्तरतः
तद्यदिदमाहुः अमुं यजामुं यजेत्य् एकैकं देवम् एतस्यैवसाविसृष्टिः एषउ ह्य् एवसर्वे देवा
अथ यत्किङ्चेदमार्द्रं, तद्रेतसोऽसृजत; तदु सोम॥ एतावद्वाइदँ सर्वमन्नं चैवान्नादश्च; सोम एवान्नम् अग्निरन्नादः
सैषाब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत, तस्मादतिसृष्टिः अतिसृष्ट्याँ हास्यैतस्यां भवति, यएवं वेद
तद्धेदं तर्ह्यव्याकृतमासीत्॥ तन्नामरूपाभ्यामेवव्याक्रियतासौनामायमिदँरूप इति॥ तदिदमप्य् एतर्हि नामरूपाभ्यामेवव्याक्रियत असौनामायमिदँरूप इति
सएषइहप्रविष्ट आनखाग्रेभ्यो॥ यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरोवा विश्वम्भरकुलाये, तं नपश्यन्ति अकृत्स्नो हिसः;
प्राणन्नेवप्राणोनाम भवति, वदन्वाक् पश्यंश्चक्षुः, शृण्वङ्छ्रोत्रं, मन्वानोमनः॥ तान्यस्यैतानि कर्मनामान्य् एव॥ सयोऽत एकैकमुपास्ते, नसवेदाकृत्स्नो ह्य् एषोऽत एकैकेन भवति